________________
२७०
बृहत्कल्प-छेदसूत्रम् -२-२/५१ लघुपञ्चदशरात्रिन्दिवानि, अस्थिरेषु लघुविंशतिरात्रिन्दिवानि; विप्रकीर्णेषु स्थिरेपु तिष्ठति लघुविंशतिरात्रिन्दिवानि, अस्थिरेषु लघुपञ्चविंशतिरात्रिन्दिवानि । एतत् सर्वमपि प्रायश्चित्तं मिक्षोस्तपसा कालेनचलघुकम्, वृषभस्य कालेन गुरुकम्, उपाध्यायस्य तपसा गुरुकम्,आचार्यस्य तपसा कालेन च गुरुकम् । एतत् प्रत्येकबीजविषयं प्रायश्चित्तमुक्तम् ।। [भा.३३०६] साहारणम्मि गुरुगा, दसादिगं मासे ठाति समणीणं ।
मासो विसेसिओ वा, लहुओ साहारणे गुरुगो॥ वृ-साधारणबीजेषुत्वेतदेव गुरुकं कर्त्तव्यम्, गुरुपञ्चकादारभ्य गुरुपञ्चविंशतिकान्तीमित्यर्थः। श्रमणीनां तु लघुदशरात्रिन्दिवेभ्यः प्रारब्धं लघुमासे तिष्ठति । तत्रापि भिक्षुण्या उभयघुकम्, अभिषेकायाः कालगुरुकम्, गणावच्छेदिन्यास्तपोगुरुकम्, प्रवर्त्तिन्या उभयगुरुकम् । एवं प्रत्येकबीजवियमुक्तम् । अनन्तबीजेषु त्वेवभेव गुरुदशरात्रिन्दिवेभ्यः प्रारब्धंगुरुमासान्तं वक्तव्यम्। अथवा भिक्षुप्रभृतीनांचतुर्णामप्यविशेषेणोत्कीर्णादिषु चतुर्वपितपः-कालविशेषितोमासलघुकः, तद्यथा-उत्कीर्णेषु तपसा कालेन च लघुकः, विकीर्णेषु कालेन गुरुकः,व्यतिकीर्णेषु तपसा गुरुकः, विप्रकीर्णेषु तपसा कालेन च गुरुकः । अनन्तबीजेष्वप्युत्कीर्णादिष्वेवमेव तपः-कालविशेषितं मासगुरुकम् । द्विविधा च विराधना संयमा-ऽऽत्मविषयाऽत्र मन्तव्या । तत्र संयमविराधना निर्गच्छन् वा प्रविशन् वा बीजानां सट्टनं परितापनमपद्रावणं वा कुर्यात्, ये च तदाश्चिताः प्राणिनस्तेषामपि सङ्ग्रट्टनादिकं कुर्यात् तन्निप्पनं प्रायश्चित्तम् ।। अथात्मविराधनां भावयति[भा.३३०७] सालि-जव अच्छि सालुग, निस्सरणं मास-मुग्गमादीसु।
सस्सू गुज्झ कुतूहल, विप्पइरण मास निस्सरणं । वृ-तत्र स्थितानां साधूनां शालि-यवानां शालुकान्यक्ष्णोः प्रविशन्ति । तैश्च प्रविष्टैश्चक्षुपी अनागाढमागाढं वा परिताष्येते । तथा मुद्भ-माषादिषु विप्रकीर्णेषुगमना-ऽऽगमने विदधानानां 'निस्सरणं प्रस्खलनं भवति, ततश्च हस्तभङ्गादयो दोषाः । अत्रश्वश्रूष्टान्तः-एगो अगारो चिंतेइजइ सस्सुगाए गुज्झोरुगाइ पेच्छामि । ताहे मासा अइग्गमननिग्गमणपहे विपकिन्ना । सा तत्थ वञ्चंती फिल्लसियागलियवसणा उत्तानिया पडिया॥इदमेवाह-"सस्सू' इत्यादि । श्वश्वाः सम्बन्धि यद् गुह्यं तदवलोकने यत् कुतूहलं तद्वशाद् माषाणां विप्रकिरणम्, ततस्तस्याः श्चश्वाः 'निस्सरणं' प्रस्खलनमभवत् । एवं तत्र स्थितानां साधूनामप्यात्मविराधना भवेत् ॥ द्वितीयपदमाह[भा.३३०८] बिइयपय कारणम्मिं, पुट्विं वसभा पमज जतणाए।
विक्खिरणम्मि वि लहुओ, तत्थ वि आणादिणो दोसा ।। वृ-द्वितीयपदे 'कारणे' अध्वनिर्गमनादौ शुद्धौपाश्रयालाभे बीजाकीर्णेऽप्युपाश्रये तिष्ठन्तिा कथम् ? इत्याह-पूर्वं वृषभा दण्डप्रोञ्छनकं गृहीत्वा तत्र गत्वा यतनया यथा तेषां बीजानां परितापनादि न भवति तथा प्रमृज्य ततः सबाल-वृद्धमपिगच्छमानीय यथालन्दं कालं तिष्ठन्ति। यदि प्रमार्जनां विदधाना बीजानांविकिरणम्-इतस्ततो विक्षपेणं कुर्वतै तदा लघुमासःप्रायश्चित्तम्। तत्राप्यविधिप्रमार्जने आज्ञादयो दोषाः ।। अथैतदेव स्पष्टयति[भा.३३०९]गीया पुरा गंतु समिक्खिखयम्मि, थिरे पमजित्तुमहाथिरे वा।
साहटमेगंति वसंति लंद, उक्कोसयं जाणिय कारणं वा ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org