________________
२५८
बृहत्कल्प-छेदसूत्रम् -२-१/५० पुरस्सरा होतु मुहुत्तमेत्तं, अपेयचक्खू सगडेण खुण्णा ॥ कृ-'सा' पुच्छिका मन्दबुद्धि' सद्बुद्धिविकला 'अथ अनन्तरंशीर्षकस्यवचनमकृत्वा स्वच्छन्दा' स्वमतिप्रवृत्ता भन्दा गमनक्रियायामलसा बलामोटिकया पुरस्सरा भूत्वा गन्तुं प्रवृत्ता । ततः किमभूत् ? इत्याह-'अपेतचक्षु लोचनरहिता सा पुरो गच्छन्ती मुहूर्तमात्रेण शकटेन 'क्षुण्णा' आक्रान् विपत्तिमुपागता ॥ एष दृष्टान्तः, अयमर्थोपनयः[भा.३२५७]जे मज्झदेसे खलु देस गामा, अतिपपितं तेसु भयंतु! तुझं ।
लुक्खण्ण-हिंडीहि सुताविया मो, अम्हं पिता संपइ होउ छंदो॥ वृ-'ये' अगीतार्था शिष्यास्ते आचार्यान् भणन्ति-भदन्त! ये खलु 'मध्यदेशे' आर्यक्षेत्रे देशा:मगधादयो ग्रामाश्च-तप्रतिबद्धास्तेषु भगवताम् ‘अतिप्रियम्' अतीव विहतु रोचते, परं वयमेषु दिवसेषु लक्षात्रमात्रलाभेन हिण्ड्या च-इतस्ततः परिभ्रमणरूपया सुष्छु-अतिशयेन तापिताःदग्धान्तदेहाः साताः, अतोऽस्माकमपि तावत् सम्प्रति च्छन्दो भवतु, स्वच्छन्देन यत्र यत्र रोचते तत्र तत्र विहरिष्याम इति ।। गुरवो ब्रुवते[भा.३२५८] देहोवहीतेणग-सावतेहिं, पदुट्ठभेच्छेहि य तत्थ तत्थ।
जता परिभस्सध अंतदेसे, तदा विजानिस्सह मे विसेसं॥ वृ-भो भद्राः! यूयं प्रत्यन्तदेशे विहरन्तो यदा देहस्तेनैः-शरीरहरैः उपधिस्तेनैः-उपकरणहरैः श्वापदैः-सिंह-व्याघ्रादिभिः प्रद्विष्टम्लेच्छश्च तत्रतत्रोपहृताः सन्तः संयमा-ऽऽत्मविराधनादिना परिभ्रंशमाप्स्यथ तदा विज्ञास्यथ 'मे मदीयं विशेषम्, यथा-हा! न शोभनं कृतमस्माभि यदेवं गुरूणां वचनमवगणय्य स्वच्छन्दसा विहारः कृत इति । यस्तु गणधरो न जानाति, जानानो वा शिष्याणां मार्ग नोपदिशति, स तेषामनुवृत्त्या सन्मार्गमतिक्रम्यानार्यदशे विहरन् तैरेव शिष्यैः सह विनाशमाविशति; यथा सर्पशीर्षकं पुच्छिकासहितं विनष्टमिति॥अथ वैद्यपुत्रदृष्टान्तमाह[भा.३२५९] वेजस्स एगस्स अहेसि पुत्तो, मतम्मि तातेअनधीयबिजो।
__गंतुं विदेसं अह सो सिलोग, घेत्तूणमेगंसगदेसमेति ।। वृ-एकस्य वैद्यस्य पुत्र आसीत्। सच ताते' पितरिमृते सति अनधीतविद्य इति कृत्वा राज्ञः ‘सकाशाद् वृत्तिं न लभते । ततो वैद्यकशास्त्रपठनार्थविदेशं गत्वा तत्र कस्यापिवैद्यस्य पार्वे एकं . श्लोकं शृणोति स्म
पूर्वाह्ने वमनं दद्यादपराहे विरेचनम् ।
वातिकेष्वपि रोगेषु, पथमाहुर्विशोषणम् ॥ ततस्तेनचिन्तितम्-हुंज्ञातंवैद्यकरहस्यम्, अतः किमर्थमत्रतिष्ठामि? इति। अथ' अनन्तरमसौ श्लोकं गृहीत्वा "स्वकम् आत्मीयं देशमुपैति ॥ [भा.३२६०]अहाऽऽगतो सो उ सयम्मि देसे, लभ्रूण तं चेव पुराणवित्तिं ।
रन्नो नियोगेण सुते तिगिच्छं, कुव्वंतु तेनेव समं विनट्ठी ॥ वृ-'अथ अनन्तरं सः' वैद्यपुत्रः स्वके देशे समागतः संन् राज्ञः समीपे तामेव पुराणां वृत्ति लब्ध्वा अन्यदा राज्ञोनियोगेन 'सुतस्य राज्ञः पुत्रस्यपूर्वोक्तश्लोकप्रमाणेन चिकित्सां कर्तुमारब्धवान्। ततोऽसौ राजपुत्रस्तदीयया अपप्रयोगक्रियया विनष्टः । राज्ञाचापरे वैद्याः पृष्टाः- किमेतेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org