________________
उद्देशक : १, मूलं ५०, [भा. ३२४५]
जानाति स गणपरिवर्ती भगवद्भिर्नानुज्ञातः ॥
इदमेव प्रचिकटयिषुः “तत्राचार्ये ज्ञातमिदं भवति" इति पदं व्याख्यानयति
[ भा. ३२४६ ] जो गणहरो न याणति, जाणंतो वा न देसती मग्गं । सो सप्पसीसगं पिव, विनस्सती विजपुत्तो वा ॥
घृ-यः कश्चिद् गणधरः ‘मार्गं' यथोक्तसामाचारीरूपं न जानाति, जानाति वा परं न शिष्याणां तं मार्गमुपदिशति स सर्पशीर्षकमिब वैद्यपुत्र इव वा विनश्यति ॥ तत्थ इमं कप्पियं उदाहरणंएगो सप्पो निचं पलोएंतो अप्पणी जहासुहं विहरइ । ताहे से पुंछडा भणति तुमं निद्यमेव पुरतो गच्छसि । अन्यच्च
[भा. ३२४७] सी- उण्ह वासे य तमंधकारे, निच्चं पि गच्छामि जतो मि नेसी । गंतव्बए सीसग ! कंचि कालं, अहं पि ता होज पुरस्सरा ते ।।
२५५
वृ- भोः शीर्षक ! नित्यमप्यहं भवत्पृष्ठलग्ना सती यतो यतो मां नयसि तत्र तत्र शीते वा उष्णे वा वर्षे वा निपतति 'तमोऽन्धकारे वा' बहलतमः पटलविलुप्ते प्रदेशे गच्छामि, किं करोमि ? परं साम्प्रतं कञ्चित् कालं 'गन्तव्ये' गमनेऽहमपि तावत् 'ते' तव पुरस्सरा भवेयम् ॥ शीर्षकं प्राह[भा. ३२४८] ससक्करे कंटइले य भग्गे, बज्रेमि मोरे नउलादिए य । विलेय जाणामि अदु दुट्ठे, मा ता विसूराहि अजाणि एवं ॥
वृहे पुच्छिके ! अहं पुरस्सरं गच्छन् सन् 'सशर्करान्' कर्करयुक्तान् कण्टकाकुलाँश्च मार्गान् वर्जयामि । यत्र च मयूरान् नकुलादश्चात्मोपद्रवकारिणः पश्यामि तत्र न गच्छामि । बिलानि धामूनि अदुष्टानि अमूनि च दुष्टानि इत्येवमहं सम्यग् जानामि । त्वं पुनरेतेषां मध्यादेकमपि न जानासि । अतस्त्वमेवमज्ञा सती मा तावत् "विसूराहि" त्ति "खिदेर्जूर- विसूरौ " इति प्राकृतलक्षणबलाद् मा खेदमनुभवेत्यर्थः ॥ पुच्छिका प्राह
[भा. ३२४९] तं जाणगं होहि अजाणिगा हं, पुरस्सरं ताव भवाहि अज्ज । एसा अहं नंगलिपासणं, लग्गा दुअं सीसग ! वच्च वच्च ॥
वृ- शीर्षक ! त्वं ज्ञायकं भव, अहमज्ञायिकाऽपि स्थास्यामि, 'पुरस्सरम्' अग्रगामुकं तावत् त्वमद्य भव, अहं पुनरेषा नङ्गलिपाशकेन लग्ना अत्रैव स्थिता, त्वं पुनः 'द्रुतं' शीघ्रं व्रज व्रजेति ॥ शीर्षकमाह
[भा.३२५०] अकोविए ! होहि पुरस्सरा मे, अलं विरोहेण अपंडितेहिं । चंसस्स छेदं अमुने ! इमस्स, दट्टु जतिं गच्छसि तो गता सि ॥
बृ- 'अकोविदे !' मूर्खे! भव 'मे' मम पुरस्सरा, अलमपण्डितैः सह विरोधेन चलितेन, परं 'हे अमुने!' अज्ञे ! अस्य मदीयवंशस्य च्छेदमपि दृष्ट्वा यदि गच्छसि ततस्त्वमपि 'गताऽसि ' विनष्टाऽसीत्यर्थः, अस्य कार्यस्य पर्यवसानं पश्चात् त्वमपि द्रक्ष्यसीति भावः ॥ अपि च
[भा. ३२५१] कुलं विनासेइ सयं पयाता, नदीव कुलं कुलडा उ नारी । निब्बंध एसो नहि सोभनो ते, जहा सियालस्स व गाइतव्वे ॥
- 'स्वयम्' आत्मच्छन्देन 'प्रयाता' प्रवृत्ता 'कुलटा' स्वैरिणी नारी 'कुलं' पितृकुलं श्वशुरकुलं च विनाशयति । केव किम् ? इत्याह- नदीव कुलम्, यथा नदी स्वैरं महापूरप्रवृत्ता सती कुलमुभयमपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org