________________
बृहत्कल्प-छेदसूत्रम् -२-१/५० वस्त्रादिप्रतिषेधकानि च चत्वारि सूत्राणि एकं तावत् "निग्गंथं च णं गाहावइकुलं० अनुप्पविठ्ठे केइ वत्थेण वा पाएण वा०" इत्यादिलक्षणम्, द्वितीयमिदमेव “बहिया वियारभूमिं वा विहारभूमिं वा०" इति विशेषितम्, तृतीय- चतुर्थे त्वेवमेव निर्ग्रन्थीविषये, एतान्यपि द्रव्यप्रतिषेधपराणि । तथा वगडासूत्रं रथ्यामुखाऽऽपणगृहादिसूत्रं दकतीरसूत्रं 'विहं' अध्वा तद्विषयं सूत्रं एतदेव च प्रस्तुतं चरमसूत्रं एतानि क्षेत्रप्रतिषेधपराणि । तथा यान्योघतो विभागतश्च सागारिकसूत्राणि यच्च ‘प्राभृतम्' अधिकरणं तद्विषयं सूत्रं एतानि भावप्रतिषेधपराणि । 'शेषाणि तु' मासकल्पप्रकृतप्रभृतीनि सर्वाण्यपि सूत्राणि 'काले च भावे च' उभयोरपि प्रतिषेधकानि भवन्ति ॥ [भा. ३२४३] अहवण सुत्ते सुत्ते, दव्वादीणं चउण्हमोआरो । सोय अधीनी वत्तरि, सोतरि य अतो अनियमोऽयं ॥
वृ- अथवा न पृथग् द्रव्यादिविषयाणि सूत्राणि, किन्तु सूत्रे सूत्रे 'चतुर्णां' द्रव्य-क्षेत्रकालभावानामवतारः प्रदर्शयितव्यः । 'सच' अवतारो वक्तरि श्रोतरि च 'अधीनः ' आयत्तः, यदि वक्ता तथाविधप्रतिपादनशक्तिसमन्वितः श्रोताच ग्रहण-धारणालब्धिसम्पन्नः तदा भवति सूत्रे सूत्रे चतुर्णां द्रव्यादीनामवतारः, अन्यदा तु नेति भावः । अतो नायं नियमो यदवश्यं प्रतिसूत्रं द्रव्यादिचतुष्टयमवतारणीयमिति । अनेन सम्बन्धेनायातस्यास्य व्याख्या कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा पूर्वस्यां दिशि यावदङ्ग-मगधान् 'एतुं' विहर्तुम् । अङ्गा नाम चम्पाप्रतिबद्धो जनपदः । मगधा-राजगृहप्रतिबद्धो देशः । दक्षिणस्यां दिशि यावत् कौशाम्बीमेतुम् । प्रतीच्यां दिशि स्थूणाविषयं यावदेतुम् । उत्तरस्यां दिशि कुणालाविषयं यावदेतुम् । सूत्रे पूर्व-दक्षिणादिपदेभ्यस्तृतीयानिर्देशो लिङ्गव्यत्ययश्च प्राकृतत्वात् । एतावत् तावत् क्षेत्रमवधीकृत्य विहर्तुं कल्पते । कुतः ? इत्याहएतावत् तावद् यस्मादार्यं क्षेत्रम् | नो "से" तस्य निर्ग्रन्थस्य निर्ग्रन्थ्या वा कल्पते 'अतः ' एवंविधात् आर्यक्षेत्राद् बहिर्विहर्तुम् । 'ततः परं' बहिर्देशेषु अपि सम्प्रतिनृपतिकालादारभ्य यत्र ज्ञान-दर्शनचारित्राणि 'उत्सर्पन्ति' स्फातिमासादयन्ति तत्र विहर्त्तव्यम् । 'इति' परिसमाप्तौ । ब्रवीमि इति तीर्थकर - गणधरोपदेशेन, न तु स्वमनीषिकयेति सूत्रार्थः ॥ अथ निर्युक्तिविस्तरः
[ भा. ३२४४]
जो एतं न वि जाणइ, पढमुद्देसस्स अंतिमं सुत्तं ।
अहवण सव्वऽज्झयणं, तत्थ उ नायं इमं होइ ॥
वृ- 'यः' आचार्य 'एतत्' प्रस्तुतं प्रथमोद्देशकस्यान्त्यं सूत्रं न जानाति, अथवा सर्वमपीदं कल्पाध्ययनं यो न जानाति, 'तत्र' आचार्ये तद्विषयमित्यर्थः 'इदं' वक्ष्यमाणं 'ज्ञातम्' उदाहरणं भवति । आह किमर्थं प्रथमोद्देशकस्यान्त्यं सूत्रं न जानातीत्युक्तम् ? उच्यतेउज्जालितो पदीवो, चाउस्सालस्स मज्झयारम्मि ।
[भा. ३२४५]
पमुहे वा तं सव्वं, चाउरसालं पगासेति ॥
वृ- 'चतुःशालस्य' गृहस्य 'मध्यारे' मध्यभागे 'प्रमुखे वा' प्रवेश-निर्गममुखे प्रदीप उज्ज्वालितः सन् 'तत्' चतुःशालं सर्वमपि प्रकाशयति एवमत्रापि सकलाध्ययनमध्यवर्तिनि प्रस्तुतसूत्रे यदिदं प्रथमोद्देशकस्यान्त्यसूत्रं न जानातीत्युक्तं तद् मध्यदीपकमवगन्तव्यम् । यद्वा यस्मादत्र प्रथमोद्देशके समासतः सर्वाऽपि सामाचारी समर्थिता ततश्चतुःशालप्रमुखोज्चालितप्रदीप इवेदमन्त्यदीपकमवसात्यम् । ततश्चेदमुक्तं भवति ? -य एतत् कल्पाध्ययनं प्रथमोद्देशकं वा न
For Private & Personal Use Only
www.jainelibrary.org
२५४
Jain Education International