________________
उद्देशक : १, मूलं ४९ [भा. ३२३७]
[भा.३२३७ ]
पडिवत्तिकुसल अज्जा, सज्झायज्झाणकारणुजुत्ता । मोत्तूण अमरहितं, अजाण न कप्पती गंतुं ॥
वृ-प्रतिपत्ति- उत्तरप्रदानं तत्र कुशला - निपुणा या काचिदार्या सा तस्याः सहाया समर्पणीया । तथा या सा आगाढयोगं प्रतिपन्ना सा स्वाध्यायस्य यद् ध्यानम्-एकाग्रतया करणं तत्रेध्शे कारणे उद्युक्ता भवेत् । "मोत्तूण अमरहियं" ति येषुकुलेषु यथाभद्रकादिषु संयतीनामागमनम् 'अभ्यर्हितं’ गौरवार्हं तानि मुक्त्वाऽन्यत्र कुले आर्यिकाणां न कल्पते गन्तुम् । एवंविधे कुले गत्वा स्वाध्यायं कुर्वतीनां यद्यसौ गृहपति प्रश्नयेत्- किमर्थं भवत्य इहागताः ? ततः प्रतिपत्तिकुशलया वक्तव्यम्[भा. ३२३८] सज्झाइयं नत्थि उवस्सएऽ म्हं, आगाढजोगं च इमा पवण्णा । तरेण सोहद्दमिदं चतुब्भं, संभावणिज्जातो न अन्नहा ते !
२५३
वृ- हे श्रावक ! योऽयमस्माकमुपाश्रयः तत्र स्वाध्यायिकं नास्ति । इयं च संयती आगाढयोगं प्रतिपन्ना वर्त्तते । "तरेण "त्ति शय्यातरेण सह युष्माकम् 'इदम्' ईशं सकलजनप्रतीतं सौहार्दं तद् मत्वा वयमत्र समागताः । अतो नान्यथा त्वया वयं सम्भावनीयाः । अपि च[भा. ३२३९]खुद्दो जनो नत्थि न यावि दूरे, पच्छण्णभूमी य इहं पकामा । तुमेहि लोएणय चित्तमेतं, सज्झाय-सीलेसु जहोज्जमो ने ॥
वृ- 'क्षुद्रो जनः' दुर्जनलोक इह नास्ति, न चेदं युष्मद्धहं 'दूरे' अस्मप्रतिश्रयाद् दूरवर्त्ति, प्रच्छन्नभूमिश्च 'इह' युष्मद्गृहे 'प्रकामा' विस्तृता, अतोऽत्रास्माकं स्वाध्यायो निव्यार्घातं निर्वहति । किञ्च युष्माकं लोकस्य च 'चित्तं' प्रतीतमेतत्, यथा-"ने" अस्माकं स्वाध्याय-शीलयोर्गाढतरः 'उद्यमः ' प्रयत्नो भवति ।।
यू. (५०) कप्पइ निग्गंधाण वा निग्गंथीण वा पुरत्थिमेणं जाव अंग-मगहाओं एत्तए, दक्खिणेणं जाव कोसंबीओ, पचत्थिमेणं जाव थूणाविसयाओ, उत्तरेणं जाव कुणालाविसयाओ एत्तए । एतावताय कप्पइ । एताव ताव आरिए खेत्ते । नो से कप्पइ एत्तो बाहिं । तेन परं जत्थ नाणदंसण-चरिताइं उस्सप्पति त्ति बेमि ।।
वृ- अथास्य सूत्रस्य कः सम्बन्धः ? इत्याह
[भा. ३२४०] इति काले पडिसेहो, परुवितो अह इदानि खेत्तम्मि । चउदिसि समणुन्नायं, मोत्तूण परेण पडिसेहो ||
वृ- 'इति' अमुना प्रकारेण रात्रिलक्षणो यः कालस्तद्विषयः प्रतिषेधः पूर्वसूत्रे प्ररूपितः, 'अथ' अन्तरमिदानीं क्षेत्रविषयः प्ररूप्यते । कथम् ? इत्याह- चतसृषु दिक्षु यावत् क्षेत्रमत्र सूत्रे समनुज्ञातं तावद् मुक्त्वा 'परेण' बहि-क्षेत्रेषु विहारस्य प्रतिषेधो मन्तव्यः ॥ किञ्चहेट्ठा विय पडिसेहो, दव्वादी दव्वे आदिसुत्तं तु । घडिमत्त चिलिमिणी, वत्यादी चेव चत्तारि ॥
[ भा. ३२४१]
[मा. ३२४२ ] वगडा रच्छा दगतीरगं च विह चरमगं च खित्तम्मि । सारिय पाहुड भावे, सेसा काले य भावे य ॥
वृ- अधस्तनसूत्रेष्वपि 'द्रव्यादि' द्रव्य-क्षेत्र - काल-भावविषयः प्रतिषेधो मन्तव्यः । तत्र द्रव्यप्रतिषेधपरम् 'आदिसूत्रं प्रलम्बप्रकृतमित्यर्थः तथा घटीमात्रसूत्रं चिलिमिलिकासूत्रं च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org