________________
२५१
उद्देशक : १, मूलं-४९, [भा. ३२२७] [भा.३२२७] संथारेगंतरिया, अभिक्खणाऽऽउज्जणा य तरुणीणं ।
पडिहारि दारमूले, मज्झे अपवत्तिनी होति । वृ-'संस्तारकः' प्रस्तरणमेकान्तरितानांतरुणी-वृद्धानां भवति।अभीक्ष्णंच तरुणीनांयतनया प्रवर्त्तिन्या प्रतिहारिकया च 'उपयोजना' सङ्घट्टना कर्तव्या । प्रतिहारी च द्वारमूले स्वपिति । 'मध्ये' सर्वमध्यवर्तिनि प्रदेशे प्रवर्तिनी भवति । [भा.३२२८] निक्खमण पिंडियाणं, अग्गबारे य होइ पडिहारी।
दारे पवत्तिणी सारणा य फिडिताण जयणाए॥ कृ-रात्रौ विचारभूमौ निक्रमणं 'पिण्डितानां समुदितानां त्रि-चतुःप्रभृतीनामित्यर्थः । प्रतिहारी द्वारमुद्धाट्य प्रथमत एवानद्वारे तिष्ठति । प्रवर्तिनी पुनद्वरि स्थिता संयती या यदा प्रविशति तां शिरसि कपोलयोर्वक्षसि च स्पृष्टया प्रवेशयति । याश्च तत्र स्फिटिताः-द्वारविप्रनष्टा इतस्ततः परिभ्रमन्ति तासांयतनया यथा अप्रीतिकंन भवति तथा स्मारणा कर्तव्या, यथा-आर्ये! इहागच्छ, इतो न भवति द्वारम् ।। अथ द्वितीयपदमाह[भा.३२२९] बिइयपद गिलाणाए, तुकारणा अहव होज्ज एगागी।
आगाढे कारणम्मि, गिहिनीसाए वसंतीणं ।। वृ-द्वितीयपदे ग्लानाया-संयत्याः कारणादेकाकिन्यपि विचारभूमौ गच्छेत् । कथम् ? इति चेद उच्यते-इह प्रवर्तिनी यदाआत्मतृतीया भवति, तत्राप्येका ग्लाना तत एका ग्लानायाः पार्वे तिष्ठति, द्वितीया तु निवेद्य निर्गच्छति । अथवा सा अशिवादिभिः कारणैरेकाकिनी भवेत् । तत्र च 'आगाढे' आत्यन्तिके कारणेगृहिनिश्रया वसन्तीनामेकाकिनीनां संयतीनां विधिरभिधीयते।। [भा.३२३०] एगा उ कारण ठिया, अविकारकुलेसु इत्थिबहुलेसु ।
तुमवसीहं नीसा, अज्जा सेज्जातरं भणति ॥ वृ- एका आर्यिका 'कारणेन' पुष्टालम्बनेन ‘अविकारकुलेषु हास्यादिविकारविरहितेषु स्त्रीबहुलेषु कुलेषुस्थिता सती शय्यातरमित्थंभणति-अहंयुष्मन्निश्रया वसामि, यच्च मम किञ्चित् सूणमायाति तत्राहं भवद्भि स्मारणीया। इदमेव स्फुटतरमाह[भा.३२३१] अपुव्वपुंसे अवि पेहमाणी, वारेसि धूतादि जहेव भजं। ..
तहाऽवराहेसु ममं पि पेक्खे, जीवो पमादी किमु जोऽबलाणं ।। वृ-भोः श्रावक ! यथा त्वम् 'अपूर्वपुंसः' अष्टपूर्वपुरुषान् पश्यन्तीमपि, आस्तां तैः सह सम्भाषणादि कुर्वाणामित्यपिशब्दार्थः, दुहितरम् आदिशब्दाद् भगिनीप्रभृतिकां भार्यां वा यथा वारयसि; तथा 'अपराधेषु स्खलितेष्वनुचितसन्दर्शनादिषु 'मामपि प्रेक्षस्व' अहमपि तथैव वारणीया, यतो जीवः सर्वोऽपि प्रायः 'प्रमादी' अनादिभवाभ्यस्तप्रमादबहुलः, किं पुनर्यः 'अबलानां स्त्रीणां सम्बन्धी? स चपलस्वभावतया सुतरांप्रमादीति भावः ॥ किञ्च[भा.३२३२] पायं सकजगहणालसेयं, बुद्धी परत्थेसु उजागरूका।
तमाउरो पस्सति नेह कत्ता, दोसं उदासीनजनो जगंतु॥ वृ- येयं प्रतिप्राणि स्वसंवेदनप्रत्यक्षा बुद्धि सा प्रायः स्व-स्वकीयं यत् कार्य-हिताऽहितप्रवृत्तिनिवृत्तिरूपं तद्रहणे-तत्परिच्छेदेऽलसा-जडा, 'परार्थेषुतु परप्रयोजनेषु 'जागरूका'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org