________________
.XY
उद्देशक ः १, मूलं-४८, [भा. ३२१७]
एवं विचारभूमिविषयो विधिरुक्तः । अथ विहारभूमिविषयमाह[भा.३२१८] बहिया वियारभूमी, दोसा ते चेव अधिय छक्काया।
पुवद्दिढे कप्पइ, बितियं आगाढ संविग्गो॥ वृ- प्रतिश्रयाद् बहि 'विहारभूमौ' स्वाध्यायभूमौ रात्रावेकाकिनो गच्छतः ‘त एव' स्तेनाऽऽरक्षिकादयो दोपा भवन्ति, 'अधिकाश्च' अतिरिक्ताः षट्कायविराधनानिष्पन्नाः । 'द्वितीयम्' अपवादपदमत्रोच्यते-कल्पते रात्रावपिस्वाध्यायभूमी 'पूर्वष्टायां दिवाप्रत्युपेक्षितायां गन्तुम् । गाथायांपुस्त्वनिर्देशः प्राकृतत्वात्, एवमन्यत्रापिलिङ्गव्यत्ययो द्रष्टव्य इति । तत्राप्यागाढे कारणे यः ‘संविग्नः' मोक्षाभिलाषी अतं एव वक्ष्यमाणजितेन्द्रियादगुणोपेतः साधुः स गच्छति ।।
अथागाढपदं व्याचष्टे[भा.३२१९]ते तिन्नि दोन्नी अह विक्कतो उ, नवंच सुतं सपगासमस्स ।
सज्झातियं नस्थि रहं च सुत्तं, न यावि पेहाकुसलो स साहू ॥ वृ. 'ते' साधवो रात्रौ विहारभूमौ गच्छन्त उत्सर्गतयो जना गच्छन्ति । त्रयाणामभावे द्वौ गच्छतः । अथ ग्लानादिकार्यव्यापृततयाद्वितीयोऽपिन प्राप्यते एवमेकाक्यपि गच्छेत् । किमर्थम्? इत्याह-'अस्य' विवक्षितसाधोः 'नवम्' अधुनाऽधीतं सप्रकाशं' सूत्रस्पर्शिकनियुक्तिरूपेणार्थेन सहितं परावर्तनीयंवर्तते, स्वाध्यायिकंच वसतौ तदानींनास्ति।अथवा 'रहस्यसूत्र' निशीथादिकं तद् यथा द्वितीयो न श्र णोति तथा परावर्तयितव्यम्, न चासौ साधुरनुप्रेक्षाकुशलः । एतेनागाढकारणेन रात्रावपि विहारभूमौ गन्तुं कल्पते ॥ तत्र कीशे गृहे कीशेन वा साधुना गन्तव्यम् ? इति दर्शयति[भा.३२२०] आसन्नगेहे दियदिट्ठभोम्मे, घेत्तूण कालं तहि जाइ दोस।
वसिदिओ दोसविवजितो य, निद्दा-विकारा-ऽऽलसवजितप्पा। वृ- कालं गृहीत्वा "दोसं"ति प्रादोषिकं स्वाध्यायं कर्तुमासन्नगेहे 'दिवादृष्टभौमे' दिवाप्रत्युपेक्षितोच्चार-प्रश्रवणभूमिके 'याति' गच्छति । स च 'वश्येन्द्रियः' इष्टा-ऽनिष्टविषयेषु वर्तमानानामिन्द्रियाणां निग्रहीता, दोषाः-क्रोधादयस्तैर्विवर्जितः, तथा निद्रया विकारेण चहास्यादिना आलस्येन च वर्जित आत्मा यस्य स तथा एवंविधस्तत्र गन्तुमर्हति नानीशः ॥ [भा.३२२१] तब्भावियं तंतु कुलं अदूरे, किच्चाण झायं निसिमेव एति ।
वाघाततो वा अहवा वि दूरे, सोऊण तत्थेव उवेइ पादो।। वृ-यस्मिन् श्रावकादिकुले सगच्छतितत्तस्यां वेलायां प्रविशद्भिसाधुभिर्भावितं तद्भावितम्, तदपि अदूरे' न दूरदेशवर्ति, एवंविधे गृहे प्रादोषिकं स्वाध्यायं कृत्वा' परिवर्त्तय निशायामेव प्रतिश्रयमागच्छति।अथ रजन्यामागच्छतोऽपान्तरालेदुष्टश्वान-गवादिभिस्तेनादिभिर्वा व्याघातः अथवा 'दूरे' दूरदेशवर्तिनी सा विहारभूमि ततस्तत्रैव गृहे सुप्तवा 'प्रातः'प्रभाते प्रतिश्रयमुपैति।।
मू. (४९) नो कप्पइ निग्गंथीए एगाणियाए राओ वा वियाले वा बहिया वियारभूमि वा विहारभूमि वा निक्खमित्तए वा पविसित्तए वा । कप्पइ से अप्पबिइयाए वा अप्पतइयाए वा अप्पचउत्थीए वा राओ वा वियाले वा बहिया वियारभूमि वा विहारभूमिं वा निक्खमित्तए वा पविसित्तए वा।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org