SearchBrowseAboutContactDonate
Page Preview
Page 783
Loading...
Download File
Download File
Page Text
________________ २४८ बृहत्कल्प-छेदसूत्रम् -२-१/४८ तृतीयसाक्षिणिपार्श्ववर्तिनिन सहसासाहसंसमाचरति।।एवंतावत् कायिकीभूमिमङ्गीकृत्योक्तम्। अथोच्चारभूमिमधिकृत्याह[भा.३२१२] एए चेव य दोसा, सविसेसुच्चारमायरंतस्स । सबितिजगनिक्खमणे, परिहरिया ते भवे दोसा।। वृ- ‘एत एव' स्तेना-ऽऽरक्षिकादयो दोषाः सप्रायश्चित्ताः ‘सविशेषाः' समधिका रजन्यामेकाकिनमुच्चारमाचरतो मन्तव्याः । यदा तु विचारभूमो गच्छन् सद्वितीयः प्रतिश्रयाद् निष्क्रमणं करोति तदा 'ते' स्तेनादयो दोषाः परिह्यता भवेयुः॥ कथम् ? इत्याह[भा.३२१३] जति दोन्नि तो निवेदित्तु नेति तेनभए ठाति दारेको । सावयभयम्मि एक्को, निसिरति तं रक्खती वितिओ ।। वृ-यदि द्वौ संयतौ कायिकीभूमौ निर्गच्छतः तदा यस्तत्रजागर्तितस्यनिवेद्य द्वावपिनिर्गच्छतः। स्तेनभये तु तयोर्द्वयोर्मध्यादेको द्वारे तिष्ठति द्वितीयः कायिकी व्युत्सृजति । अथ श्वापदभयं त एकस्तत्र कायियीं निसृजति, द्वितीयो दण्डकहस्तः “तं' कायिकी व्युत्सृजन्तमात्मानं च रक्षति॥ अथैकाकिनो यतना प्रतिपाद्यते[भा.३२१४] सभयाऽसति मत्तस्स उ, एक्को उपओगडंडओ हत्थे । पति-कुटुंतेण कडी, कुणति य दारे वि उपयोग। वृ-यदि सभयं द्वितीयस्य च संयतस्य तत्राभावस्ततो मात्रके व्युत्सर्जनीयम् । अथ मात्रकंन विद्यते तत उपयोगं कृत्वा दण्डकं हस्ते गृहीत्वा वृतेर्वा कुडयस्य वा अन्तेत-पाचँन कटीं कृत्वा कायिकी व्युत्सृजति । द्वारेऽपि च स्तेनादिप्रवेशविषयमुपयोगं करोति ।। [भा.३२१५] बितियपदे उ गिलाणस्स कारणा अहव होज्ज एगागी। पुव ट्ठिय निहोसे, जतणाए निवेदिउछारे ।। वृ-द्वितीयपदेन तु ग्लानस्य कारणादेकोऽपि निर्गच्छेत्, अथवा स साधुरशिवादिभि कारणैरेकाकी भवेत्, यद्वा तत्र पूर्व निर्दोष-निर्भयमिति मत्वा स्थिताः पश्चात् सभयं सञ्जातं तत्रापि यतनया निवेद्य तथैवोच्चारभूमौ प्रश्रवणभूमौ वा गच्छन्ति। ___ अथ "ग्लानस्य कारणात्" इति पदं व्याख्यानयति• [भा.३२१६] एगो गिलाणपासे, बितिओ आपुच्छिऊण तं नीति। चिरगते गिलाणमितरो, जग्गंतं पुच्छिउँ नीति ।। वृ-इह ते त्रयो जनाः, तेषां च मध्ये एको ग्लानो विद्यते, एकश्च तस्य ग्लानस्य पार्थे तिष्ठति, द्वितीयस्तमापृच्छय कायिक्यादिभूमौ निर्गच्छति । स च यदि घिरगतो भवति ततः 'इतरः' ग्लानपार्थस्थितो ग्लानं जाग्रतमापृच्छय निर्गच्छति॥ एवं स्तेनादीनां सम्भवे विधिरुक्तः । अथ तदम्भवे विधिमाह[भा.३२१७] जहितं पुन ते दोसा, तेनादीया न होज पुव्वुत्ता। एक्को वि निवेदेतुं, निंतो वितहिं नऽतिक्कमति ।। वृ-यत्र पुनः 'ते' पूर्वोक्ताः स्तेनादयो दोषा न भवन्ति तत्रैकोऽपि शेषसाधूनां जाग्रतां निवेद्य निर्गच्छत् न भगवदाज्ञामतिक्रामति॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy