SearchBrowseAboutContactDonate
Page Preview
Page 782
Loading...
Download File
Download File
Page Text
________________ उद्देशकः १, मूलं-४८, [भा. ३२०७] २४७ विधिरनेन सूत्रेणोपवण्यते। कथम्? इत्याह-तत्पुनः' नीहारकरणमाहारानन्तरमवश्यम्भावित्वान्न प्रतिषिद्धमे, किन्तु तदर्थं यद् ‘एकस्य' एकाकिनो निष्क्रमणं तदत्र सूत्रे वारयतीति । एष सूत्रसम्बन्धः।। अनेन सम्बन्धेनायातस्यास्य व्याख्या-नो कल्पते 'निर्ग्रन्थस्य' साधोरेकाकिनो रात्री वा विकाले वा बहिर्विचारभूमि वा विहारभूमिं वा उद्दिश्य प्रतिश्रयाद् निष्कमितुं वा प्रवेष्टुं वा। कल्पते "से" तस्य निर्ग्रन्थस्यात्मद्वितीयस्यवाआत्मतृतीयस्य वा रात्री वाबिकालेवा बहिर्विचारभूमि वा विहारभूमि वा निष्कमितुं वा प्रवेष्टुं वा इति सूत्रसमासार्थ ॥अथ नियुक्तिविस्तरः[भा.३२०८] रत्तिं वियारभूमी, निग्गंधेगाणियस्स पडिकुट्ठा । लहुगो य होति मासो, तत्थ वि आणाइणो दोसा ।। वृ-रात्रौ उपलक्षणत्वा विकाले वा विचारभूमी निर्ग्रन्थस्यैकाकिनो गन्तव्ये प्रतिकुष्टा । साच द्विविधा-कायिकीभूमि उच्चारभूमिश्च । कायिकीभूमिं यदि रात्रावेकाकी गच्छति ततो लघुमासः प्रायश्चित्तम्, तत्राप्याज्ञादयो दोषाः । तथा[भा.३२०९] तेना-ऽऽरकिखय-साक्य-पडिनीए थी-नपुंस-तेरिच्छ। ओहाणपेहि वेहानसे य वाले य मुच्छा य ।। वृ-स्तेनैरुपधि संयतो वा हियते । आरक्षिका एकाकिनं दृष्ट्वा चौर इति बुद्धा ग्रहणाऽऽकर्षणादिकं कुर्युः । श्चापदा वा-सिंह-व्या-दयो भक्षयेयुः । प्रत्यनीको वा तमेकाकिनं मत्वा प्रान्तापनादिकं कुर्यात् । स्त्री वा नपुंसको वा तमेकाकिनमुदारशरीरं दृष्ट्वा बलादपि गृह्णीयात् । तिर्यञ्चो वा दुष्टगवादयस्तमभिघातयेयुः, तिर्यग्योनिकां वा स एकाकी प्रतिसेवेत । यो वा अवधावनप्रेक्षी स एकाकी निर्गतः सन्तत एव पलायेत । स्त्रिया वा पण्डकेन वा प्रतिस्खलितः सन् ‘भग्नव्रतोऽहं जातः' इति बुद्ध्या 'वैहायसम्' उद्वन्धनं कुर्यात् । 'व्यालेन वा' सर्पण वा दश्येत । मूच्छा वातत्र गतस्य भवेत्, तद्वशेन भूमौ प्रपतितस्य परिताप-महादुःखप्रभृतयो दोषाः।। अस्या एव गाथाया लेशतो व्याख्यानमाह[भा.३२१०] थी पंडे तिरिगीसुव, खलितो वेहानसं व ओधावे । सेसोवधी-सरीरे, गहणादी मारणंजोए। वृ-स्त्रियां पण्डके तिर्यग्योनिकायां वा ‘स्खलितः' मैथुनप्रतिसेवनया अपराधमापन्नः सन् 'भग्नव्रतस्य किं मे जीवितेन ?' इति बुद्धया वैहायसमभ्युपगच्छेत् । यो वा अवधावनप्रेक्षीस तत एवावधावेत्। 'शेषाणि' सप्त द्वाराणितेषु यथाक्रमभेते दोषाः। तद्यथा-स्तेनेषूपधि-शरीरहरणम्, आरक्षिकेषु ग्रहणा-ऽऽकर्षणादि, शेषेषु तु श्चापदादिषु 'मारणम्' उपघातः संयतस्य भवतीति 'यजयेत्' योजनं कुर्यात् ।। यत एवमतः[भा.३२११] दुप्पभिई उ अगम्मा, न य सहसा साहसं समायरति। वारेति च णं वितिओ, पंच य सक्खी उ धम्मस्स ॥ वृ-द्विप्रभुतयः साधवो रात्री कायिकीभूमौ गच्छन्तः स्तेना-ऽऽरक्षिकादीनामगम्या भवन्ति । न च द्वितीये साधौ तटस्थे सति सहसा 'साहस' मैथुनप्रतिसेवन-वैहायसादि समाचरति । समाचरितुकाममपिच "गं" एनं द्वितीयः साधुर्वारयति। यतः 'धर्मस्य' पञ्चमहाव्रतरुपस्यपञ्च साक्षिणो भवन्ति, तद्यथा-अर्हन्तः सिद्धाः साधवः सम्यग्दृष्ट्यो देवा आस्मा चेति । अतः साधौ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy