________________
पीठिका- [भा.२८४]
मधुरं त्रिधा-सूत्रमधुरमर्थमधुरमुभयमधुरम् ८ । एतैरष्टभिर्गुणैरुपेतम् ।। चशब्दात्[भा.२८५] अप्पक्खरमसंदिद्धं, सारवं विस्सओमुहं ।
अत्योभमणवजंच, सुत्तं सव्वत्रुभासियं ॥ वृ-अल्पाक्षरमसन्दिग्धंसारवद् विश्वतोमुखं अस्तोमं स्तोभकरितं अनवद्यम् इत्थम्भूतं सूत्रं सर्वज्ञभाषितम् ।। तत्राल्पाक्षरं प्रतीतम् । असन्दिग्धादिपदव्याख्यानार्थमाह[भा.२८६] अत्थेसु दोसु तीसुव, सामन्नभिहाणओ उ संदिद्धं ।
जह सिंधवंतु आणय, अत्थबहुत्तम्मि संदेहो। वृ- यस्मिन्नर्थेऽभिधीयमाने द्वयोस्त्रषु चार्थेषु सामान्याभिधानतः सन्हेद उपयते तत् सन्दिग्धम्, यथा-सैन्धवमानयेत्युक्ते किंवस्त्रस्य ग्रहणम्? आहोश्चित्पुरुषस्य? उताहो लवणस्य? इत्यर्थःबहुत्वे सन्देहः । सारवत्नवनीतभूतम् । विश्वतोमुखं यत्सर्वतोऽधिकृतमर्थं प्रयच्छति।। [भा.२८७] उय-वइकारोह त्तिय, हीकाराई यथोभगा हुंति ।
वजं होइ गरहियं, अगरहियं होइ अनवजं ॥ वृ.अस्तोभा-ऽनवद्ययोव्यार्खयानमाह-"उयइत्यादि" उत-वै-हा-हिप्रभृतीनामकारणप्रक्षेपाः स्तोभकाः तद्रहितमस्तोभकम् । अवद्यं भवति गर्हितं तप्रतिषेधादगर्हितमनवद्यम् ।। एवंगुणजातीयं सूत्रं कथमुच्चरितव्यं पठनीयं वा? तत आह[भा.२८८] अहीनऽक्खरं अनहियमविच्चामेलियं अवाइद्धं ।
अक्खलियं च अमिलियं, पडिपुत्रं चेव घोसजुयं ।। वृ-अहीनाक्षरम् । 'अनधिकम् अधिकाक्षररहितम् । अव्यत्यानेडितं' नाम यदस्थानेन पदघटनम्, यथा- प्राप्तराज्यस्य रामस्य, राक्षसाः प्रलयं गताः । इत्यत्र “प्राप्तराज्यस्य रामस्य राक्षसाः" इत्यादितद्रहितम्।यदि वाऽन्यान्यदर्शनानुगतशास्त्रन्तरपल्लवप्रक्षेपरहितमव्यत्यानेडि तम् । अव्याविद्धं' यत् तस्य सूत्स्याधस्तनपदमुपरि उपरितनमधो न क्रियते । 'अस्खलितं' यद् उपलाकुलभूमौहलमिव पदादिभिर्न स्खलितम्। 'अमिलितं' यद् ग्रन्थान्तरवर्त्तिभिपदैरमिश्रितम्, यथा-सामायिकसूत्रे दशवैकालिकोत्तराध्ययनादिपदानि न क्षिपतीति । प्रतिपूर्ण पदादिभि । 'घोषयुतं' यथावस्थितैरुदात्तादिभिर्घोषैर्युक्तम् । तत्र यदुक्तमहीनाक्षरमिति तत्र हीनं द्विधाद्रव्यहीनं भावहीनं च । द्रव्यहीने उदाहरणमाह[भा.२८९] तित्त-कडुओसहाई, माणं पीलिज्जऊन ते देइ ।
पउणइ न तेहि अहिएहि मरइ बालो तहाहारे ।। वृ-एगाए अविरइयाए पुत्तो गिलाणो। तीए विजो पुच्छिओ।तेन ओसहाणि दिनाणि। सा चिंतेइ-इमाणि कडुय-तित्ताणी मा निपीडिज्जा । तओनाए अद्धाणि अवनीयाणि । सो तेहिं न पगुणीकओ, मओ ।। तओ एगा ऊणगं पीहगं देइ, तीसे विमओ॥
अक्षरगमनिका-तिक्त-कटुकौषधानि माऽमुंबालं पीडयेयुरितिनतानिपरिपूर्णानि ददाति किन्वर्द्धानि | न च तैरर्द्धितैर्बालः प्रगुणतिकिन्तुम्रियते। तथा आहारेऊने म्रियते । एष दृष्टान्तः, अयमर्थोपनयः-यथा तौ बालावेकभविकं दुःखं प्राप्तौ एवं यो भावहीनं सूत्रमुच्चरि पठति वाऽक्षरै_नमित्यर्थः तस्य प्रायश्चित्तंमासलघु। आज्ञां तीर्थङ्कराणामतिचरतश्चतुर्गुरु । अनवस्थायां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org