SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ला बृहत्कल्प-छेदसूत्रम् -१विश्रामस्तस्यदोषोयतिदोषः, यत्र श्लोके गाथायां वृत्ते वा स्वलक्षणप्राप्तः पच्छेदोन क्रियतेऽस्थाने वा क्रियते, जयति जईणं पवरो, गुणनिगरो नाणकिरणउज्जोओ। लोईसरो मुनिवरो, सिरिवच्छधरो महावीरो ॥२२॥ छविदोषो नाम यत्र परुषा छवि क्रियते २३ । समयविरुद्धं यथा-वैशेषिको ब्रूते प्रधान कारणम् जैनो वदति 'नास्तिजीवः' इत्यादि २४॥ वचन मात्रं यथा-कश्चित्कीलकं निहत्य ब्रूयात्इदं लोकमध्यमित्यादि २५/अर्थापति दोषो यथा ब्राह्मणोनहन्तव्यः अर्थादापन्नं शेषजनो हन्तव्या इति २६॥असमास दोषः यत्र समासे प्राप्ते समासरहितानि पदानि भण्यन्ते २७। [भा.२८१] उवमा-रूवगदोसो, परप्पवत्तीय संधिदोसो य। एए उ सुत्तदोसा, बत्तीसं हुंति नायव्वा ॥ वृ. उपमा दोषो यथा काजिकमिव ब्राह्मणस्य सुरा पेया २८।रुपकदोषो यथा - पर्वतो रूप्यमान आत्मीयैरङ्गैः शून्यो वर्ण्यते २९ । 'परप्रवृत्तिदोषः' यत्र सुबहुमप्यर्थं वर्णयित्वा निर्देशं न करोति ३० । ‘पददोषः' स्याधन्ते तिवाद्यन्ते वा स्याद्यन्तं करोति ३१ । 'सन्धिदोषः' यत्र भवन्नपि सन्धिर्न क्रियते विसर्गलोपं वा कृत्वा पुनः सन्धिं करोति ३२ । एते द्वात्रिंशत्सुत्रदोषा भवन्ति ज्ञातव्याः॥ अष्टभिर्गुणैरुपेतमित्युक्तम् अतस्तानेवाष्टौ गुणानाह[भा.२८२] निदोसं सारवंतंच, हेउजुत्तमलंकियं । उवणीयं सोवयारंच, मियं महुरमेव य॥ वृ-निर्दोषं १ सारवत् २ हेतुयुक्तम् ३ अलङ्क तम् ४ उपनीतं ५ सोपचारं ६ मितं ७ मधुरम् ८ इति ।। तत्र निर्दोषादिपदव्याख्यानार्थमाह[भा.२८३] दोसा खलु अलियाई, बहुपज्जायं च सारवं सुत्तं । साहम्मेयरहेऊ, सकारणं वा वि हेउजुयं ।। वृ-दोषाः खल्वलीकादयः प्रागभिहितास्तैर्वर्जितं निर्दोषम् १। सारवद्नाम 'बहुपर्यायम्' एकैकस्मिन्नभिधेये यत्रानेकान्यभिधानानीत्यर्थः २ । हेतुयुक्तं साधम्येण वैधम्येण वा हेतुना युक्तम्, अथवा हेतुः कारणं निमित्तमप्यनर्थान्तरम्, ततोयत् सकारणंतद्हेतुयुक्तमिति, यथा"सुत्तत्तं सेयं जागरियत्तं वा सेयं" इत्यादि ३॥ [भा.२८४] उवमाइ अलंकारो, सोवणयं खलु वयंति उवनीयं । ___ काहलमनोवयारं, दंडगममियं तिहा महुरं ।। वृ-अलङ्कृतं यत्रोपमादिरलङ्कारः। तत्रोपमायुक्तम्, यथा-"सूरेव सेणाइसमतमाउहे"! आदिग्रहणेन नियमा अक्खरलंभो, माउक्कमनिट्ठरं छवीजमगं। महुरत्तणमत्थघणत्तणं च सुत्ते अलंकारा ।। इति परिग्रहः ४ । उपनीतं खलु वदन्ति ‘सोपनयं सोपसंहारम् ५। अनुपचारं नाम यत् 'काहलं फल्गुप्रायम्, तद् विपरीतं सोपचारम्६मितं पदैः श्लोकादिभिर्वा, अमितं दण्डकैः७। Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy