________________
पीठिका - [भा. २७७]
७३
"जीभूते इति वा अञ्जणे इति वा" इत्यादिभिर्बहुभिरक्षरैर्वर्णव्यावर्णनम्, महाक्षरं महार्थम् यथादृष्टिवादः । तत्र यद् अल्पाक्षरं महार्थं तादृशं सूत्रमिष्यते । तथा यद् द्वात्रिंशद्दोषविरहितं तदिष्यते । ते च द्वात्रिंशद्दोषा वक्ष्यमाणाः । तथाऽष्टभिर्गुणैर्वक्ष्यमाणैर्यद् उपेतं तदिष्यते । एवम्भूतं सूत्रं लक्षणयुक्तम् ।। अधुना द्वात्रिंशद्दोषानाह
[भा. २७८] अलियमुवघायजणयं, अवत्थग निरत्थयं छलं दुहिलं । निस्सारमहियमूणं, पुनरुत्तं वाहयमजुत्तं ॥
वृ- अलीकं द्विविधम्-अभूतोद्भावनं भूतनिह्नवश्च । तत्राभूतोद्भावनं यथाश्यामाकतन्दुलभात्रो जीव इत्यादि । भूतनिह्नवो यथा नास्ति जीव इत्यादि १ । 'उपधातजनक' यत् परस्योपधाते वर्त्तते, यथा- "न मांसभक्षणे दोषः " इत्यादि २ | 'अपार्थकं यस्यावयवेष्वर्थो विद्यते न समुदाये, असम्बद्धमित्यर्थः, यथा “शङ्खः कदल्यां कदली च भेर्याम्" अथवा॥ ३ ॥ वंजुलपुप्फुम्मीसा, उंबर- वडकुसुममालिया सुरभी ।
वरतुरगस्स विरायइ, ओलइया अग्गसिंगेसु ।।
'निरर्थकं' यस्यावयवेष्वर्थो न विद्यते, यथा- डित्थः डवित्थः वाजनः ४ । छलं यथाअस्त्यात्मा यद्यस्ति आत्मा तर्हि यद् यदस्ति स स आत्मा प्राप्नोति, नवकम्बलो देवदत्त इत्यादि वा ५। द्रोणशीलं गुहिलं यत् पुण्य-पापापलपनादि, यथा- एतावानेव लोकोऽयं, यावानिन्द्रियगोचरः । इत्यादि ६ । 'निस्सारं ' यत्र सारः - अर्थो न विद्यते, यथा- अस्थि- चर्मशिलापृष्ठं वृद्धाः ७ । 'अधिकं' यत् पञ्चानामवयवानामन्यतरेण समधिकम् ८ । 'ऊनम्' एषामन्यतमेन हीनम् ९ । पुनरुक्तं त्रिविधम्-अर्थपुनरुक्तं यथा-सैन्धवमानय लवणं सैन्धवमानयेत्यादि, उभयपुनरुक्तं यथा-क्षीरं क्षीरम् १० | 'व्याहतं ' यत्र पूर्वमपरेण बाध्यते, यथा- कर्म चास्ति फलं चास्ति, भोक्ता नास्ति च निश्चयः । ११ । 'अयुक्तं' यद् बुध्या विचिन्त्यमानं न युक्ति सहते, यथा
तेषां कटतटभ्रष्टैर्गजानां मदबिन्दुभिः । प्रावर्त्तत नदी घोरा, हस्त्यश्वरथवाहिनी ।। १२ ।
[भा. २७९ ] कमभिन्न वयणभिन्नं, विभत्तिभिन्नं च लिंगभिन्नं च । अनभिहियमपयमेव य, सभावहीणं ववहियं च ॥
वृ-क्रमभिन्नं यथा-धरणीधरेन्द्र-चन्द्र-पद्म-सागरान् गम्भीर-नयन- मुख-बल- स्थैर्यगुणैर्जयति १३ | 'वचनभिन्नं' यत्रैकवचनप्रसङ्गे द्विवचनं बहुवचनं वा क्रियते, द्विवचन बहुवचनव्यत्यासो वा १४ । 'विभक्तिभिन्नं' यत्र विभक्तेरन्यथा प्रयोगः १५ । 'लिङ्गभिन्नं' यत्र स्त्रलिङ्गे पुल्लिङ्गं नपुंसकलिङ्गं वा क्रियते, एवं शेषयोरपि द्रष्टव्यम् १६ । 'अनभिहितं' नाम यत् स्वसमयेऽनुक्तमात्मन इच्छया भण्यते १७ । 'अपदं' नाम यत्र गाथापदे गीतिकापदं वानवासिकापदं वा क्रियते १८ । 'स्वाभावहीनं' यस्य यो यत्रात्मीयः सवभावस्तेन तत् शून्यमभिधीयते, यथा-स्थिरो वायुः १९ । 'व्यवहितं' नाम यत्र किञ्चिद् निर्द्दिश्याऽन्यद् विस्तरेण वर्णयित्वा पुनस्तत् प्रकृतमभिधीयते २० ॥ [भा.२८०] काल-जइ-च्छविदोसो, समयविरुद्धं च वयणमित्तं च । अत्थावत्तदोसो, हवइ य असमासदोसो उ ।
वृ- कालदोषो यत्रातीता ऽनागत-वर्त्तमानकालव्यत्यासकरणम् २१ । यति नाम
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International