________________
बृहत्कल्प-छेदसूत्रम् -२-१/४७
ततः पृष्टः सन्नेवं ब्रूयात्- अतिक्रमिष्याम्यहं सङ्घडीम्, अग्रतो गमिष्यामीत्यर्थः अथवा अन्यायपदेशं करोति, अन्यत् किमपि प्रतिवचनं ब्रूत इति भावः ॥
[भा. ३१९४]
२४४
तहियं पुव्वं गंतुं, अप्पोवासासु ठाति वसहीसु । जे य अविपक्क दोसा, न नैति ते तत्थ अगिलाणे ॥
'वृ- 'तत्र' सङ्घडिग्रामे पूर्वमेव गत्वा या अल्पावकाशा वसतयस्तासु तिष्ठन्ति । गाथायां "ठाइ" त्ति एकवचननिर्देशः प्राकृतत्वात् एवमन्यत्रापि वचनव्यत्ययो यथायोगं द्रष्टव्य इति । विस्तीर्णावकाशासु पुनः स्थितानां गृहस्थादिभिः पश्चादागतैः सह त एवासङ्घडादयो दोषाः । ये च तत्र 'अविपक्वदोषाः' इन्द्रिय-कषायान् निग्रहीतुमसमर्था अविकोविदा वा साधवः, आह च चूर्णिकृत् - अविपक्वदोसा नाम जे असमत्या निगिण्हिउं इंदिय-कसाए अविकोविया वा । ते तत्रालङ्कृतस्त्रीदर्शनादिसमुत्थदोषपरिजिहीर्षया 'अग्लाने' ग्लानकार्याभावे न निर्गच्छन्ति ॥
अथ ग्लान्सय प्रायोग्यग्रहणे विधिमाह -
[भा. ३१९५ ] विना उ ओभासित-संथवेहिं, जं लब्भती तत्य उ जोग्गदव्वं । गिलाणमुत्तुव्वरियं तगं तु, न भुंजमाणा वि अतिक्कमंति ॥
वृ- अवभाषणमवभाषितं याचनमित्यर्थः, संस्तवनं संस्तवः दातुर्गुणविकत्थनं तेन सहात्मनः सम्बन्धविकत्थनं वा, ताभ्यां विनाऽपि 'तत्र' सङ्घड्यां यत् प्रायोग्यद्रव्यं लभ्यते तत् प्रथमतो ग्लानस्य दातव्यम् । ततो ग्लानेन तन्मध्याद् यद् भुक्तं तत उद्वरितं भुञ्जाना अपि साधवः 'नातिक्रामन्ति' न भगवदाज्ञां विलम्पन्ति ॥
[भा. ३१९६] ओभासियं जं तु गिलाणगड्डा, तं मानपत्तं तु निवारयति । तुब्भे व अन्ने व जया तु वेति, भुंजेत्थ तो कप्पति नऽन्नहा तू ॥
कृ- 'यत्तु' यत् पुनः प्रायोग्यद्रव्यं ग्लानार्थमवभाषितं तद् यदा 'मानप्राप्तं' वैद्योपदिष्टपथ्यमात्राप्रासं भवति तदा 'निवारयन्ति' पर्याप्तमायुष्मन् । एतावता अतः परं ग्लानस्य नोपयोक्ष्यते । एवमुक्ते यदा ते गृहस्था एवं ब्रूते- 'यूयं वा अन्ये वा साधवो भुञ्जीध्वम् तदा ग्लानप्रायोग्यप्रमाणादधिकमपि ग्रहीतुं कल्पते नान्यथा । तुः पादपूरणे ।। इदमेव स्फुटतरमाह।
[भा. ३१९७] दिने दिने दाहिसि थोव धोवं, दीहा रुया तेन न गिण्हिमोऽम्हे । न हावयस्साम गिलाणगस्सा, तुब्भे व ता गिण्हह गिण्हणेवं ॥
वृ- भोः श्रावक ! ग्लानस्य 'दीर्धा' चिरकलस्थायिनी 'रुग्' रोगः समस्ति, अतो दिने दिने स्तोकं स्तोकमिद ग्लानयोग्यं द्रव्यं दास्यसि, तेन कारणेन वयमिदं न गृह्णीमः । ततो यदि ते गृहस्था ब्रूवेत वयं प्रतिदिनं ग्लानस्य प्रायोग्यं न हापयिष्यामः, यूयमपि च तावत् प्रसादं कृत्वा गृह्णीत । एवमुक्ते प्रमाणप्राप्त दधिकस्यापि ग्रहणं कर्त्तव्यम् ।। एवं तावत् साधूनां प्रवेशे लभ्यमाने विधिरुक्तः । अथ यत्र साधवः प्रवेशं न लभन्ते नद्विषयं विधिमाह
।
[ भा. ३१९८ ] न विलब्भई पवेसो, साधूणं लब्भएत्य अजाणं । वावारण परिकिरणा, पडिच्छणा चैव अज्जाणं ॥
वृ- यत्रान्तः पुरादी 'नापि नैव साधूनां प्रवेशो लभ्यते किन्तु लभ्यते तत्रार्यिकाणां प्रवेशः, कर्मकर्त्तर्ययं प्रयोगः ततः षष्ठी विभाक्तिरदुष्टा, तत्रार्यिकाणां व्यापारणा विधेया । ततस्ता अन्तः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org