________________
२४३
उद्देशकः १, मूलं-४७, [भा. ३१८८]
दसण-बंभवता-ऽऽता, तिविधा पुन होति पत्तस्स ॥ वृ-'कायैः पृथिव्यादिभिरविशुद्धः पन्थाः-मार्गोयस्याः सङ्खड़ेः सा तथा, अस्यांचकायनिष्पन्न प्रायश्चित्तम् । प्रत्यपायाश्च द्विविधाः- पथि वर्तमानस्य तत्र प्राप्यस्य च । तत्र पथि वर्तमानस्य श्वापद-स्तेन-कण्टकादयः । तत्र प्राप्तस्य तु त्रिविधाः प्रत्यपाया भवन्ति-दर्शन-ब्रह्मव्रताऽऽत्मापायभेदात् । तत्र सङ्घडिं गतस्य चरक-शाक्यादिभिर्युद्वाहणा दर्शनापायः । चरिकातापसीप्रभृतिभिरन्याभिर्वा मत्तप्रमत्ताभि स्त्रीभिर्ब्रह्मव्रतापायः । आत्मापायस्तु पूर्वोक्त एव हस्तभङ्गादिकः । एवंविधापायसहिता सप्रत्यपाया। [भा.३१८९] सणवादे लहुगा, सेसावादेसुचउगुरू हति।
जीविय-चरित्तभेदा, विस-चरिगादीहि गुरुका उ॥ वृ-अत्रचदर्शनापायेचतुर्लघुकाः। शेषेषु-स्तेन-श्चापदादिषुब्रह्मव्रता-ऽऽत्मविषयेषु प्रत्यपायेषु चतुर्गरवोभवन्ति । तथा सौगतोपासकादि सङ्ग्रडिकर्ता विषं वा गरंवा प्रहद्यात्, एवं जीवितभेदः। चरिकादिभिश्चारित्रभेदः । एतयोर्जीवित-चारित्रभेदयोःप्रत्येकं चतुर्गुरवः । एषायावन्तिकादिदोषदुष्टा सङ्घडिरनाचीर्णा । एतद्विपरीता आचीणेति ॥ द्वितीये पदे एतैः कारणैः सङ्घडिमपि गच्छेत्[भा.३१९०] कप्पइ गिलाणगट्ठा, संखडिगमणं दिया व रातो वा ।
दवम्मि लब्भमाणे, गुरुउवदेसी त्ति वत्तव्वं ॥ वृ-ग्लानार्थसङ्घडिगमनं दिवा रात्रौ वा कल्पते।तत्रच द्रव्ये ग्लानप्रायोग्ये लभ्यमाने यावन्मात्रं ग्लानस्योपयुज्यते तावति प्रमाणप्राप्ते सति प्रतिषेधयन्ति। यद्यसौ दाताब्रूयात्-किमितिन गृह्णीथ? ततः 'वक्तव्यं' भणनीयम्-गुरु-वैद्यस्तस्योपदेशोऽयम्-यदेतावतः प्रमाणादूर्ध्वग्लानस्य पथ्यादिकं न दातव्यम् । इदमेव भावयति[भा.३१९१] पुट्विं ता सक्खेत्ते, असंखडी संखडीसुवी जतति ।
पडिवसभमलब्मंते, ता वञ्चति संखडी जत्थ ।। वृ-ग्लानस्य प्रायोग्यं पूर्वं तावत् 'स्वक्षेत्रे' स्वग्रामेऽसङ्खडयां गवेषयितव्यम् । यद्यसङ्घड्यां न प्राप्यतेततः स्वग्राम एव याः सङ्घड्यस्तासुग्लानप्रायोग्यग्रहणाययतते।तदभावप्रतिवृषभग्रामेष्वपि प्रथमपसङ्घड्यांततः सङ्खड्यामपि । अथ तत्रापि न लभ्यते ततो यत्र ग्रामादौ सङ्खडी भवति तत्र व्रजन्ति॥ताश्च सङ्घडयो द्विधा-सम्यग्दर्शनभाविततीर्थविषया मिथ्यादर्शनभाविततीर्थविषयाश्च। तत्र प्रथममाधासु गन्तव्यम्, यत आह[भा.३१९२] उज्जेत नायसंडे, सिद्धिसिलादीन चेव जत्तासु।
सम्मत्तभाविएसुं,न हुंति मिच्छत्तदोसा उ॥ वृ-उज्जयन्ते ज्ञातखण्डे सिद्धशिलायामेवमादिषु सम्यक्त्वभावितेषुतीर्थेषुयाः प्रतिवर्ष यात्राःसझडयो भवन्ति तासु गच्छते मिथ्यात्वस्थिरीकरणादयो दोषा न भवन्ति ।। [भा.३१९३] एतेसिं असईए, इतरीउ वयंतितथिमा जतणा।
पुट्ठो अतिक्कमिस्सं, कुणति व अन्नावदेसं तु ।। - एतेषां' सम्यसक्त्वभावितानामभावे 'इतरा अपि' मिथ्यास्वभाविततीर्थविषयाः साडीव्रजन्ति।तत्रच गच्छत इयं यतना-यदि केनापि पृच्छयते 'किं सङ्घडीं गमिष्यथ ?' इति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org