SearchBrowseAboutContactDonate
Page Preview
Page 780
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १, मूलं-४७, [भा.३१९८] २४५ पुरादौ प्रविश्य प्रज्ञापयन्ति । तथापि चेन प्रवेशो लभ्यते ततः “परिकिरण" त्ति ता आर्थिका ग्लानप्रायोग्यं गृहीत्वा साधूनां पात्रेषु चेत्र परिकिरन्ति-प्रक्षिपन्ति । तत आर्यिकाणा हस्ताद् ग्लानप्रायोग्यं प्रतीच्छन्ति ॥ इदमेव स्पष्टयति[भा.३१९९] अलब्भमाणे जतिणं पवेसे, अंतेपुरे इअधरेसु वा वि। उज्जाणमाईसु व संठियाणं, उज्जाउ कारिति जतिप्पवेसं ।। वृ-राजादिनामन्तःपुरे वा इभ्यगृहेषु वा यतीनां प्रवेशेऽलभ्यमाने उद्यानादिषु वा संस्थितानां साधूनामनागन्तुकानामित्यर्थः, आर्यास्तत्र यतीन् प्रवेशं कारयन्ति । कथम् ? इति चेद् उच्यतेता आर्यिका अन्तःपुरादौ गत्वा प्रज्ञापयन्ति-यथैते भगवन्तो महातपस्विनो निस्पृहाः, एतेभ्यो दत्तं बहुफलं भवति । एवमादिप्रज्ञापनया यदा तानि कुलानि भावितानि भवन्ति तदा साधवः प्रविशन्ति ।। अथ तथापि प्रवेशो न लभ्यते ततः किं कत्तुव्यम् ? इत्याह- . [भा.३२००] पुराणमाईसु व नीणवेंति, गिहत्थभाणेसु सयं व ताओ। अगारिसंकाए जतिचएही, हिडोवभोगेहि अआनवेंती॥ वृ-आर्यिका गृहस्तभाजनेषुग्लानप्रायोग्यंगृहीत्वा पुराणादिभिर्गृहस्थैः साधुसमीपं नाययन्ति' प्रापयन्तीत्यर्थः ।अथ ताशो गृहस्थो न प्राप्यते ततः स्वयमेव ता आर्यिका गृहिभाजनेषु गृहीत्वा साधुसमीपं नयन्ति ।अथागारिणःशङ्कां कुर्युः-'नूनमेता गृहस्थभाजनेष्वेवंविधमुत्कृष्टद्रव्यं गृहीत्वा केषाञ्चिदविरतिकानांप्रयच्छन्ति' ततो यतीनां सत्कानि यानि अधस्तादुपभोग्यानि-असम्भोग्यानि भाजनानि उपहतानीत्यर्थः तेषु गृहीत्वा साधूनां समीपमानाययन्ति आनयन्ति वा ।। अथ न सन्ति साधूनामसम्भोग्यानि माजनानि ततः[भा.३२०१]तेसामभावा अहवा वि संका, गिण्हंति मानेसु सएसु ताओ। अभोइमाणेसु उ तस्स भोगो, गारस्थि तेसेव य भोगिसू वा ।। वृ-'तेषां संयतभाजनानामभावात्, अथवा तेषु गृह्यमाणे गुहस्थानां 'शङ्का भवेत्' 'एतानि संयतभाजनानि, तदवश्यमेताः संयतानां प्रयच्छन्ति' ततः 'ताः' आर्यिका स्वकेषु भाजनेषु गृह्णन्ति । ततः साधवोऽसम्भोग्यभाजनेषु गृहीत्वा 'तस्य' प्रायोग्यद्रव्यस्य मोगं कुर्वते । असम्भोग्यभाजनाभावे गृहस्थभाजनेषु । अथ तान्यपि न सन्ति ततः 'तेष्वेव' संयतीभाजनेषु भुञ्जते । अथ संयतीनां तैर्भाजनैः शीघ्रं प्रयोजनं ततः साम्भोगिकेष्वपि भाजनेषु प्रतिप्यते । एवं तावद् ग्लाननिमित्तं यथा गृह्यते तथा भणितम् ।। अथ सङ्घडीगमने कारणान्तराण्याह[भा.३२०२] अद्धाणनिग्गयादी, पविसंता वा वि अहव ओमम्मि। उवधिस्स गहण लिंपण, भावम्मिय तं पिजयणाए। वृ-अध्वनो निर्गताःआदिशब्दादशिवादिनिर्गता वा, अध्वनि वा प्रविशन्तः, अथवा 'अवमें दुर्भिक्षे वर्तमानाः सङ्घडिं गच्छेयुः । अथवा यत्र ग्रामोदौ सङ्घडिस्तत्र ‘उपधिः' वस्त्रपात्रादिकः सुलभस्तस्य ग्रहणार्थं गन्तव्यम्, पात्रकाणि वा लेपनीयानि सन्ति, तत्र चलेपः प्रचुरः सुप्रापश्च; भावोवा शैक्षस्य सङ्खडिगमने समुत्पत्रः; एतैः कारणैः 'तदपि' सङ्घडिगमनं यतनया कर्तव्यमिति सङ्घहगाथासमासार्थः ॥ साम्प्रतमेनामेव विवृणोति [भा.३२०३]पविटुकामा व विहं महंतं, विनिग्गया वा वि ततोऽधवोमे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy