________________
उद्देशक : १, मूलं ४७, [भा. ३१६७ ]
ग्रामाद् बहिर्वसन्ति ततः को दोषः स्यात् ? इति प्रश्नावकाशमाशङ्कयाह[ भा. ३१६८ ] बहियाय रुक्खमूले, छक्काया साण- तेन पडिनीए । मत्तुम्मत्त विउव्वण, वाहण जाणे सतीकरणं ॥
वृ-ग्रामादेर्बहिर्वृक्षमूले आकाशेवा पृथिवीकायः सचित्तरजःप्रभृतिकः, अष्कायः स्नेहकणिकादि, तेजःकायो विद्युदादि, वायुकायो महावातादि, वनस्पतिकायो विवक्षितवृक्षसत्कपुष्प-फलादि, त्रसकायो वृक्षनिश्चितद्वीन्द्रियादिरूपः सम्भवति एते षट्कायास्तत्र तिष्ठतां विराध्यन्ते, असंवृते च तत्र श्वानो भाजनमपहरेत्, स्तेनावा उपद्रवेयुः, प्रत्यनीको वा विजनं मत्वा हन्याद्वा मारयेद्वा । तथा 'मत्ताः' मदिरामदभाविताः 'उन्मत्ताः' मन्मथोन्मादयुक्ता विटा इत्यर्थः ते 'विकुर्वणां' भूषणादिभिरलङ्करणं विधाय तत्रागच्छन्ति, 'वाहनानि' हस्त्यश्वादीनि 'यानानि' शिबिका - रथादीनि, तानि दृष्ट्वा भुक्तभोगिनां स्मृतिकरणमभुक्तभोगिनां तु कौतुकमुपजायत इति नियुक्तिगाथासमासार्थः ॥ अथैनामेव भाष्यकारो विवृणोति
[भा. ३१६९] मा होज अंतो इति दोसजालं, तो जाति दूरं बहि रुक्खमूले । अभुज्जमाणे तहियं तु काया, अवाउते तेन सुणा य नेगे ॥
२३९
वृ- 'अन्तः ' ग्रामाभ्यन्तरे सभादौ वसताम् 'इति' अनन्तरोक्तं दोषजालं मा भूदित्यभिसन्धाय 'ततः ' ग्रामाद् बहिदूर वृक्षमूले याति । तत्र च 'अभुज्यमाने' अव्याप्रियमाणे प्रदेशे पूर्वोक्तनीत्या षडपि काया विराध्यन्ते । अपावृते च तत्र स्तेनाः श्वानश्वानेके उपद्रवं विदधति ।।
[भा. ३१७०] उम्मत्तगा तत्थ विचित्तवेसा, पढंति चित्ताऽभिनया बहूनि । कीलति मत्ताय अमत्तगाय, तत्थित्थि - पुंसा सुतलंकिता य ॥
कृ- 'तत्र' उद्याने 'उन्मत्ताः' विटाः 'विचित्रवेषाः ' विविधवस्त्रादिनेपथ्यधारिणः 'चित्राभिनयाः ' नानाप्रकारहस्ताद्यभिनया बहूनि शृङ्गारकाव्यानि पठन्ति । तथा मत्ता अमत्ता वा तत्र स्त्रीपुरुषाः सुष्ठु वस्त्राऽऽभरणैरलङ्कृताः सन्तः क्रीडन्ति ॥
[मा. ३१७१] आसे रहे गोरहगे य चित्ते, तत्थाभिरूढा डगणे य केइ । विचित्तरूवा पुरिसाललंता, हरंति चित्ताणऽविकोविताणं ॥
वृ- 'तत्र' उद्याने केचित् पुरुषा अश्वान् अपरे रथान् तदन्ये 'गोरथकान्' कल्होडकान् केचित् 'चित्राणि' नानाप्रकाराणि युग्यादीनि यानानि 'डगणानि च' यानविशेषरूपाण्यधिरूढाः सन्तो विचित्ररूपाः पुरुषाः श्रेष्ठिपुत्रादयः 'ललन्तः' क्रीडन्तो 'अविकोविदानाम्' अगीतार्थानां चित्तानि हरन्ति । ततश्च भुक्ताऽभुक्तसमुत्था दोषाः ।।
[भा. ३१७२] सामिद्धिसंदंसणवावडेन, विप्पस्सता तेसि परेसि मोक्खे । तत्योतपोतम्मि समंततेणं, भिक्खा-वियारादिसु दुप्पयारं ।।
वृ- समृध्याः वस्त्राऽऽभरणादिरूपायाः सम्-इति सामस्त्येन यद् दर्शनम् अवलोकनं तत्र व्यापृतेन- 'इदं पश्यामि इदं वा पश्यामि' इति व्याक्षिप्तचेतसा, तथा 'तेषां परेषां' श्रेष्ठिप्रभृतीनां यान - वाहनादीनि 'मुख्यानि प्रधानानि विविधम्- अनेकप्रकारं पश्यता सूत्रार्थयोः परिमन्थः कृतः स्यादिति शेषः । तत्र च स्त्री-पुरुषैः समन्ततः 'उअपोते' देशीपदत्वाद् आकीर्णे भिक्षायां विचारभूमी आदिशब्दाद् विहारभूम्यादौ च दुष्प्रचारं भवति । यत एते दोषा अतः सङ्खड्यां न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org