________________
२४०
गन्तव्यम् ॥ अथ परः प्राह[ भा. ३१७३]
बृहत्कल्प-छेदसूत्रम् -२-१/४७
दोसेहि एत्तिएहिं, अगेण्हंता चेव लग्गिमो अम्हे । गेहामु य भुंजामु य, न य दोस जहा तहा सुणसु ॥
वृ- सङ्घडिगमने यावन्त एते भवद्भिर्दोषा उक्ता एतावद्भिर्वयं सङ्घडिभक्तमगृह्णाना एव लगामः, ततो न कार्यमस्माकं ग्रामादिमध्याध्यासनेन । सूरिराह वयं सङ्घडिभक्तं गृह्णीमो वा भुञ्जमहे वा न च 'दोषाः' पूर्वोक्ता यथा भवन्ति तथाऽभिधीयमानं शृणु । इयं पुरातना गाथा ।। अथैनामेव व्याख्यानयति
[मा. ३१७४] होहिंति न वा दोसा, ते जाण जिनो न चैव छउमत्थो । पाणियसद्देण उवाहणाउ नाविब्भलो मुयति ।।
वृ- हे नोदक ! नायं नियमो यत् सङ्घडिं गच्छतामवश्यमनन्तरोक्ता दोषा भवन्ति, कारणे यतनया गच्छतस्तेषामसम्भवात् ततः 'ते दोषा भविष्यन्ति वा' इत्येवं जिनो जानाति नैव छद्यस्थो भवादृशः । अतो यदुक्तं भवता "इत्थं गते सुविहिता अरण्ये गत्वा वसन्तु' तदेतदज्ञानविजृम्भितम्, यतः पानीयशब्देनोपानही न 'अविह्वलः' अमूर्खो मुञ्चति, यो मूर्खो भवति स एव मुञ्चतीति भावः एवं भवानपि सङ्घडिगमनमात्रे दोषोपप्रदर्शनं श्रुत्वा यदेवं ग्रामादीन् परित्यज्यारण्यवासमभयुपगच्छति तद् नूनमबुधचक्रवर्तीति हृदयम् ॥ अपि च
[भा. ३१७६ ] दोसे चैव विमग्गह, गुणदेसित्तेन निचमुत्ता ।
न हु होति सप्पलोद्धी, जीविकामस्स सेयाए ।
वृ- हे नोदक ! यद्यपि कारणे वक्ष्यमाणयतनया सङ्घडिगमने प्रत्युत बहवो गुणा भवन्ति तथापि गुणद्वेषित्वेन यूयं नित्यमुद्युक्ताः सन्तो गुणान्वेषणबुध्या दोषानेव विमार्गयथ न गुणान्; भवन्ति चेशा अपि केचिदस्मिन् जगति ये दोषानेव केवलान् पश्यन्ति न गुणनिवहम् । उक्तञ्चगुणये सत्यपि सुप्रभूते दोषेषु यत्नः सुमहान् खलानाम् । क्रमेलकः केलिवनं प्रविश्य, निरीक्षते कण्टकजालमेव ॥
यतः 'न हि' नैव 'सर्पलुब्धिः' सर्पग्राहकत्वं जीवितुकामस्य पुरुषस्य श्रेयसे भवति, किन्तु प्रत्युत मरणाय; एवं भवतोऽपि संयमगुणान्वेषणबुध्या अरण्यवसनं तन्न श्रेयसे सम्पद्यते, प्रत्युताहाराभावेनार्त्तध्यानादिपरिणामसम्भवात् कन्द-मूल-फलादिभक्षणाद्वा तस्यैव संयमस्योपघातं जनयति ॥ आह यद्येवं ततो निरूप्यतां कथमत्र दोषा भवन्ति ? कथं वा न भवन्ति ? इति उच्यते[भा. ३१७७] भण्णति उवेच्च गमने, इति दोसा दप्पदो व जहि गंतुं ।
कम गहण भुंजणे या न होंति दोसा अदप्पेणं ॥
- भण्यतेऽत्र प्रतिवचनम् - यदि 'उपेत्य' आकुट्टिकया सङ्घड्यां गच्छति, 'दर्पतश्च' गुरुग्लानादिकारणाभावेन यत्र गत्वा गृह्णाति भुङ्क्ते वा तत्रानन्तरोक्ता दोषा मन्तव्याः । अथ 'क्रमेण' गृहपरिपाट्या सङ्घडिगृहं प्राप्तः ततस्तत्र ग्रहणं भोजनं वा कुर्वाणस्य न दोषा भवन्ति । 'अदर्पेण वा' पुष्टालम्बनेन सङ्घडिप्रतिज्ञयाऽपि गच्छतो न दोषा भवन्ति ॥ इदमेव भावयति[भा. ३१७८ ] पडिलेहियं च खेत्तं, पंधे गामे व भिक्खवेलाए । गामानुगामियम्मिय, जहि पायोग्गं तहिं लभते ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org