________________
उद्देशक : १, मूलं-४७, [भा. ३१५८]
२३७ वृ-वसतेः सम्बन्धिनो ये आधाकर्मादयो दोषास्तेषुलगन्ति।परतीर्थिकाश्चतत्रगतानांतर्जनां कुर्वन्ति । 'बिलधर्मो नाम' एकस्यामेव वसतौ गृहस्थैः समं संवर्तयैकत्रावस्थानम्, तत्रासङ्घडं स्यात् । तत्रच सवड्यामातोद्य-गीतशब्दाद्यान् स्त्रीशब्दाँश्च सविकारान् श्रुत्वा चशब्दादविरतिका अलङ्क ताष्ट्वा स्मृतिकरणादयो दोषा इतिद्वारगाथासमासार्थः॥ साम्प्रतमेनामेव विवृणोति[भा.३१५९] आहाकम्मियमादी, मंडवमादीसु होति अणुमन्ना ।
रुक्खे अब्भावासे, उवरिंदोसे परूवेस्सं ।। वृ-सङ्घडीकर्ता दानश्राद्धो यथाभद्रको वा साधूनां निमित्तमाधाकर्मिकान् मण्डपान् कारयेत्, आदिशब्दाद् यावन्तिकादिपरिग्रहः । तेषु मण्डपेषु आदिशब्दात् पटकुटीप्रभृतिषु च तिष्ठतामनुमतिदोषः प्राप्नोति । अथैतद्दोषभयान तत्र तिष्ठन्ति ततोऽन्यत्र वसतिमलभमाना वृक्ष मूलेऽभ्रावकाशे वा वसन्ति । तत्र च वसतां ये दोषास्तानुपरिष्टादस्मिन्नेव सूत्रे प्ररूपयिष्यामि ॥ परतीर्थिकतर्जनाद्वारमाह[भा.३१६०] इंदियमुंडे मा किंचि बेह मा ने डहेज्ज सावेणं ।
पेहा-सोयादीसुय, असंखडं हेउवादो य ।। वृ-ये तत्र सङ्खडी श्रुत्वा शाक्य-भौत-भागवतादयः परतीर्थिकाः समायातास्ते साधून तर्जयन्त इत्यं ब्रुवते-इन्द्रियमुण्डा अमी सङ्खडिप्राप्ताः श्रमणाः,'मा किञ्चिदमून् ब्रूत' न किमप्यमीषां सम्मुखं विपकं भाषणीयम्, मा “ने" युष्मान् अमी तपस्विन आक्रुष्टाः सन्तः शापेन दहेयुः । एवं तर्जनामसहमाना अपरिणतास्तैः सहासङ्खडं कुर्युः। तथा प्रेक्षा-प्रत्युपेक्षणातां कुर्वतोदृष्ट्वा शौचं वा स्वल्पकलुषादिना पानकेन विधीयमानं दृष्ट्वा आदिशब्दात् संयतभाषया भाषमाणान् श्रुत्वा परतीर्थिका उड्डुञ्चकान् कुर्वन्ति, तत्र तथैवासाडं भवेत् । हेतुना वा ते परतीर्थिका वादं मार्गयेयुः। यदि दीयते ततस्तेषामात्मनो वा पराजये यथाक्रमं प्रद्वेषगमन-प्रवचनलाघवादयो दोषाः । अथ न दीयते ततस्ते लोकसमक्षवर्णवादं कुर्यु-बठरशिरःशिखरा एते न किमपिजानन्तीत्यादि । बिलधर्मद्वारमाह[मा.३१६१] भिंगारेण न दिन्ना, न य तुझं पेतिगी सभा एसा ।
अतिबहुओ ओवासो, गहितो णुतुए कलहो एवं ।। वृ-साधारण सभादौ पिण्डीभूयसाधवोगृहस्थाश्च यदेकत्रावतिष्ठन्ते स बिलधर्मः । तेन वसतां साधुभिः परभूतेऽवकाशे मालिते सति गृहस्था ब्रुवते-भो श्रमण ! एषा सभा तुभ्यं न भृङ्गारेण दत्ता, उदकेन न कल्पितेति भावः; न च तवेयं 'पैतृकी' पितृपरम्परागता, अतः किनु नाम अतिबहुकोऽवकाशस्त्वया गृहीतः? एवं कलहो भवति॥ [भा.३१६२] तत्य य अतिंत नेतो, संविट्ठो वा छिवेज इत्थीओ।
इच्छमनिच्छे दोसा, भुत्तमभुत्ते य फासादी। वृ-'तत्र च' सभादौ कोऽपि साधुरतिगच्छन् निर्गच्छन् वा समुपविष्टो वा स्त्रीः स्पृशेत् तत आत्मपरोभयसमुत्था दोषाः तत्रचयदि तामविरतिकांप्रतिसेवितुमिच्छति तदा संयमविराधना। अथनेच्छतिततःसाउड्डाहं कुर्यात् ।स्त्रीणांच स्पर्शादिषुतथाआतोध-गीतशब्दान्स्त्रीसम्बन्धिनश्च हसित-कूजितादिशब्दान् श्रुत्वा भुक्ता-ऽभुक्तसमुत्था दोषाः। भूयोऽपि दोषदर्शनार्थमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org