________________
२३६
बृहत्कल्प-छेदसूत्रम् -२-१/४७
- ग्रामानुग्रामिकं वा 'रीयमाणाः' विहरन्तः क्वापि ग्रामे सङ्घडिं श्रुत्वा ये त्वरितं गच्छन्ति; सति वा भिक्षाकाले तं ग्रामं परित्यजन्ति, परित्यज्य च सङ्घडिग्रामं गच्छन्ति, तेषामपि 'दोषाः ' वक्ष्यमाणा भवन्ति ॥
[भा. ३१५३ ] गंतुमणा अन्नदिसिं, अन्नदिसि वयंति संखडिनिमित्तं । मूलग्गामे व अडं, पडिवसभं गच्छति तदट्ठा ।।
वृ- भिक्षाचर्यायामन्यस्यां दिशि गन्तुमनसः सङ्घडिं श्रुत्वा तन्निमित्तमन्यस्यां दिशि व्रजन्ति । मूलग्रामे वा अटन् सङ्घडिमाकर्ण्य प्रतिवृषभग्रामे 'तदर्थं ' सङ्घडिहेतोर्गच्छति ।। एतेषु सर्वेष्वपि गमनप्रकारेषु दोषानुपदिदर्शयिषुराह
[ भा. ३१५४ ] एगाहि अनेगाहिं, दिया व रातो व गंतु पडिसिद्धं । आणादिणो य दोसा, विराधना पंधि पत्ते य ॥
वृ- एकाहिकीमनेकाहिकीं वा तां सबडीं गन्तुं दिवा रात्रौ वा प्रतिषिद्धां यदि गच्छति तत आज्ञादयो दोषाः, विराधना च संयमा-ऽऽत्मविषया पथि वर्त्तमानानां तत्र प्राप्तानां च भवति ।। तत्र पथि वर्तमानानां तावद् दोषानभिधित्सुराह
भा (३१५५]
मिच्छत्ते उड्डाहो, विराधना होति संजमाऽऽयाए । रीयादि संजमम्मि य, छक्काय अचक्खुविसयम्मि ||
वृ-सङ्घडिं गच्छतः साधून् ध्ष्ट्वा यथाभद्रकादयो मिध्यात्वे स्थिरतरीभवेयुः, उड्डाहो वा भवेत्। तथा संयमाऽऽत्मविराधना भवति । तत्र संयमविराधना भाव्यते-'मा सङ्घडिदिवसो व्यतिक्रामतु' इति कृत्वा रात्रौ गच्छन् ईर्यादिसमितीर्न शोधयति । अचक्षुर्विषये च गच्छतां षट्कायविराधना । आत्मविराधना तु पुरस्ताद् वक्ष्यते ॥ अथ मिथ्यात्वोड्डाहद्वारे व्याचष्टेजीहादोसनियत्ता, वयंति लहेहि तज्जिया भोजे ।
[ भा. ३१५६ ]
थिरकरणं मिच्छत्ते, तप्पक्खियखोभणा चेव ।।
वृ-लोको ब्रूयात् - अहो ! अमी श्रमणाः 'जिह्वादषनिवृत्ताः' रसगृद्धिरहिता अपि 'रूक्षैः' वल्लचणकादिभिराहारैस्तर्जिताः सन्तः सम्प्रति 'भोज्यार्थं सङ्घडिहेतोर्गच्छन्ति इत्युड्डाहो भवेत् । तथा यथैतदमीषामसत्यं तथा अन्यदपि मिध्या प्रलपितमिति मिथ्यात्वे स्थिरीकरणं भवति । ये च तत्पाक्षिकाः-साधुपक्षबहुमानिनः श्रावकास्तेषां क्षोभना - मिथ्यादृष्टिभिः सम्यक्त्वाञ्चालना भवति ।।
अथाऽऽत्मविराधनामाह[भा. ३१५७]
वाले तेने तह सावते य विसमे य खाणु कंटे य ।
अकमहाभयं आतसमुत्थं, रत्तेमादी भवे दोसा ॥
वृ- रात्रौ सङ्घडिगमने 'व्यालः' सर्पस्तेन दश्येत, स्तेनैरुपकरणमपहियेत, 'श्वापदैः' सिंहादिभिरुपद्रूयेत्, 'विषमेच' निम्नोन्नते प्रपतेत्, स्थाणुना वाकण्टकेन वा विध्येत, अकस्माद्भयं चात्मसमुत्थं भवति । रात्रावेवमादयो दोषा भवेयुः ॥
एवं तावत् पथि गच्छतां दोषा अभिहिताः । अथ तत्र प्राप्तानामाह
[ भा. ३१५८] वसहीए जे दोसा, परउत्थियतज्जणा य बिलधम्मो । आतोज्ज-गीतसद्दे, इत्थीसद्दे य सविकारे ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org