________________
२३५
उद्देशक : १, मूलं-४७, [भा. ३१४८] सासङ्खडी 'वृत्ता' समाप्ता 'अवृत्तावा अन्यस्यां वेलायामन्यस्मिन् दिवसे भाविनी; एवं वृत्तामवृत्तां वा 'निशम्य' श्रुत्वा 'प्रत्यायान्ति' प्रतिनिवर्तन्ते । तत्र वेलामङ्गीकृत्य यथा कैश्चिदपि साधुभिः श्रुतम्-अद्यामुकगृहे पूर्वाह्नवेलायां सङ्खडीभविष्यति; ततस्ते पात्राण्युद्ग्राह्य तस्यां गन्तुंप्रस्थिताः, अपान्तराले च तैः श्रुतम्, यथा-अतिक्रान्ता सा सङ्घडी। एवमपराह्नवेलाभाविनी सङ्घडीं श्रुत्वा प्रस्थिताः, अपान्तराले चाकर्णितम्, यथा- नाद्यापि तत्र वेला; एवं श्रुत्वा प्रतिनिवर्तन्ते । दिवसमधिकृत्य पुनरित्थम्-“होहिइ" इत्यादि पश्चार्द्धम् । कचिद् ग्रामे स्थितैः श्रुतम्-अमुकनामे 'अमुकदिवसे' पञ्चमीप्रभृतिके सङ्घडिर्भविष्यति; इत्याकर्ण्य ते तं ग्राम प्रस्थिताः, तत्र च गच्छद्भिरन्तरा श्रुतम्, यथा-वृत्ता सा सङ्घडी भविष्यति वा । कथम् ? इत्याह-“सा पुन अन्नम्मि पक्खम्मि"त्तियस्यांपञ्चम्यांभाविनी सङ्खडी साधुभिः श्रुता सा पुनः 'अन्यस्मिन् अतीतेऽनागते वा पक्षे मतावा भविष्यति वा,न तत्पक्षवर्तिनीति भावः ।
अथ सङ्घडी कथं कुत्र वा भवति? इत्युच्यते[भा.३१४९] आदेसो सेलपुरे, आदानऽट्टाहियाए महिमाए।
तोसलिविसए विनवणट्ठा तह होति गमणं वा ।। वृ-'आदेशः' सङ्घडिविषये दृष्टान्तोऽयम्-तोसलिविषये शैलपुरे नगरे ऋषितडागंनाम सरः। वर्षे वर्षे भूयान् लोकोऽष्यहिकामहिमां करोति। तत्रोत्कृष्टावगाहिमादिद्रव्यस्यादानं-ग्रहणंतदर्थ कोऽपिलुब्धो गन्तुमिच्छति।ततः सगुरूणां विज्ञपनां सङ्खडिगमनार्थंकरोति । आचार्यावारयन्ति। तथापि यदि गमनं करोति ततस्तस्य प्रायश्चित्तं दोषाश्च वक्तव्या इति पुरातनगाथासमासार्थः॥
अथैनामेव विवणोति[भा.३१५०] सेलपुरे इसितलागम्मि होति अट्टाहिया महामहिमा ।
कोंडलमेंढ पभासे, अब्बुय पादीणवाहम्मि।। वृ-तोसलिदेशे शैलपुरे नगरे ऋषितडागेसरसिप्रतिवर्षं महता विच्छर्दैनाऽष्टाहिकामहामहिमा भवति।तथा कुण्डलमेण्ठनाम्नो वानमन्तरस्ययात्रायांभरुकच्छपरिसरवर्ती भूयान् लोकः सङ्घडिं करोति । प्रभासे वा तीर्थे अर्बुद वा पर्वते यात्रायां सङ्घडि क्रियते । 'प्राचीनवाहः' सरस्वत्याः सम्बन्धीपूर्वदिगभिमुखःप्रवाहः, तत्राऽऽनन्दपुरवास्तव्यो लोको गत्वा यथाविभवंशरदि सङ्घडिं करोति ।। एवमादिषु सङ्घडीषु कोऽप्युत्कृष्टद्रव्यलुब्धो गुरून् सङ्ग्रडिगमनार्थं विज्ञपयति । गुरवो ब्रुवते-आर्य! न कल्पते सङ्घडिं गन्तुम्, ततोऽसौ मायया ब्रवीति_[भा.३१५१] अस्थिय में पुव्वदिवा, चिरदिट्ठा ते अवस्स दट्ठव्वा ।
मायागमने गुरुगो, तहेव गामाणुगामम्मि ।। वृ-सन्ति मे तत्र ग्रामे 'पूर्वदृष्टाः' पूर्वपरिचिताः सुहृदादयः, तेच 'चिरद्दष्टाः' प्रभूतकालस्तेषां मिलितानमभवदिति भावः, अत इदानीमवश्यं द्रष्टव्यास्ते मया। एवं मायया गुरूनापृच्छय यदि गच्छति तदा गुरुको मासः।ग्रामानुग्रामेऽपि विहरतां सङ्घडिं श्रुत्वा गच्छतांतथैव मासगुरुकम्॥ इदमेव व्याचष्टे[भा.३१५२] गामानुगामियं वा, रीयंता सोउ संखडिं तुरियं ।
छड्डेति व सति काले, गामंतेसिं पि दोसा उ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org