________________
२३४
वृहत्कल्प-छेदसूत्रम् -२-१/४७
वृ- 'एकैका' एकदेवसिकी अनेकदैवसिकीच 'सा' सङ्घडि प्रत्येकं द्विधा पुरः सङ्घडी पश्चात्सङ्घडी च। या 'पूर्वसूर्ये' पूर्वदिग्विभागमध्यासीने रवीक्रियते सा पुरः सङ्घडी, या पुनरपरसूर्येसा पश्चात्सङ्खडी । अथवा दिग्विभागेनानयोः पुरः पश्चाद्विभागो विज्ञेयः या विवक्षितग्रामादेः सकाशात् पूर्वस्यां दिशि भवति सा पूर्वसङ्घडी, या तु तस्यैवापरस्यां दिशि सा पश्चात्सङ्घडी ॥ अत्र प्रायश्चित्तमाह[ भा. ३१४४] दुविहाए वि चउगुरू, विसेसिया भिक्खुमादिणं गमने । गुरुगादिव जासपदं, पुरिसेगा ऽनेग-दिन-रातो ।।
वृ- द्विविधायामप्यनन्तरोक्तायां सङ्खड्यां गमने चतुर्गुरुकाः । एते च भिक्षुप्रभृतीनां तपः कालविशेषिताः - भिक्षोस्तपसा कालेन च लघवः, वृषभस्य तपसा लघवः, उपाध्यायस्य कालेन लघवः, आचार्यस्य तपसा कालेन च गुरवः । अथवा चतुर्गुरुकमादौ कृत्वा एकानेकपुरुषकृतैकानेकदै वसिक सङ्घडीषु रात्री गच्छतः 'स्वपदं ' छेदादिकं यावन्नेतव्यम्। तद्यथा-भिक्षुरेकपुरुषकृतामेकदैवसिकीं सङ्ग्रडीं व्रजति चतुर्गुरवः, एकपुरुषकृतानेकदैवसिक्यां षड्लघवः, अनेक पुरुषकृतायामेकदैवसिक्यां षड्गुरवः, अनेकपुरुषकृतानेकदैवसिक्यां छेदः । एवं भिक्षुविषयमुक्तम् । वृषभस्य षड्लघुकादारब्धं मूले, उपाध्यायस्य षड्गुरुकादारब्धमनवस्थाप्ये, आचार्यस्य च्छेदादारब्धं पाराञ्चिके निष्ठामुपयाति । प्रकारान्तरेण प्रायश्चित्तमेवाह[भा.३१४५] आयरियगमने गुरुगा, वसभाण अवारणम्मि चउलहुगा । दोह वि दोन्नि वि गुरुगा, वसभ बला तेतरे सुद्धा ॥
वृ- आचार्यस्य ‘सङ्खड्यां गच्छामः' इति ब्रुवाणस्य चत्वारो गुरवः । तमेवंब्रुवाणं वृषभा न वारयन्ति चतुर्लघुकाः । अथाचार्येण 'सङ्घडीं व्रजामः' इत्युक्ते वृषभा अपि 'व्रजामः' इति भणन्ति ततः 'द्वयोरपि' वृषभा -ऽऽचार्ययोर्ये चत्वारो मासास्ते द्वयेऽपि गुरुकाः कर्त्तव्याः, वृषभाणामपि चतुर्गुरुका भवन्तीति भावः । अथ वृषभैर्वारिता अप्याचार्या बलामोटिकया गच्छन्ति ततः 'ते' आचार्या प्रायश्चित्ते लग्नाः, 'इतरे' वृषभास्ते 'शुद्धाः' न प्रायश्चित्तभाज इति ।।
[भा. ३१४६ ] सव्वेसि गमने गुरुगा, आयरिय अवारणे भवे गुरुगा । वसभे गीता - ऽगीए, लहुगा गुरुगो य लहुगो य ॥
वृ- यदि सर्वेऽपि साधवो भणन्ति 'सङ्घड्यां गच्छामः' इति ततस्तेषां चत्वारो गुरुकाः । आचार्यास्तान्न वारयति चतुर्गुरवः । वृषभो न वारयति चतुर्लघवः । गीतार्थो भिक्षुर्न वारयति गुरुको मासः । अगीतार्थो न वारयति लघुको मासः ॥
[भा. ३१४७]
एगस्स अनेगाण व छंदेन पहाविया तु ते संता ।
वत्तमवत्तं सोचा, नियत्तणे होंति चउगुरुगा ॥
नॄ- 'एकस्य' आचार्यादिः 'अनेकेषां वा' बहूनां 'छन्देन' अभिप्रायेण 'ते' सङ्घड्या उपरि प्रधाविताः सन्तोवृत्तामवृत्तां वा सङ्घडीं श्रुत्वा यदि निवर्त्तन्ते ततश्चतुर्गुरुका भवन्ति ॥ इदमेव भावयति
[भा. ३१४८] वेला दिवसेहिव, वत्तमवत्तं निसम्म पच्चेतिं । होहि अमुगं दिवसं, सा पुन अन्नम्मि पक्खम्मि ।।
वृ-वेलया दिवसैर्वा प्रतिनियतां सङ्घडी श्रुत्वा प्रस्थिताः, गच्छद्भिश्चापान्तराले श्रुतम्, यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org