________________
उद्देशक : १, मूलं-४६, [भा.३१३७]
२३३ चारित्रार्थं वा गन्तव्यम् । एतैः कारणैर्गम्यमाने पूर्वं मार्गेण पश्चादच्छित्रेन च्छिन्नेन वा पथाऽपि गन्तव्यम् । अत्र यतनामाह[भा.३१३८] एपागनं च सता, वीसं चऽद्धाणनिग्गमा नेया।
एत्तो एक्के कम्मि य, सतग्गसो होइ जतणाओ॥ कृ-सार्थपञ्चकेन कालोत्थायिप्रभृतिमिश्चतुर्भिःसार्थवाहैरष्टभिश्चादियात्रिकैरेकपञ्चाशच्छतानि विंशत्यधिकानि अध्वनिर्गमप्रकाराभवन्ति । एतेच प्राक्सप्रपञ्चंभाविताः । एतेषुभङ्गकेष्वेकैकस्मिन् भङ्गकेऽशिवादिकारणेऽध्वनि गच्छतां शताग्रशः प्रागुक्तनीत्या यतना भवन्ति ।। मू. (४७) संखडिं वा संखडियपडिया इत्तए।
-अथास्य सूत्रस्य कः सम्बन्धः? इत्याह[भा.३१३९] दुविहाऽवाता उ विहे, वुत्ता ते होज्ज संखडीएतु।
तत्थ दिया विन कप्पति, किमु राति एस संबंधो । वृ- 'विहे' अध्वनि गच्छतां संयमा-ऽऽत्मविराधनाभेदाद् द्विविधाः प्रत्यपाया उक्ताः । सङ्खड्यामपि गच्छतांत एव प्रत्यपाया भवेयुः । अतस्तत्र दिवाऽपिगन्तुंन कल्पते किमुत रात्रौ? एष सम्बन्धः। अनेन सम्बन्धेनायातस्यास्य व्याख्या-"संखडिं वा" इति वाशब्दाद् “न कल्पते" इत्यादिपदान्यनुवर्तनीयानि । तद्यथा-न केवलमध्वानं रात्रौ वा विकाले वा गन्तुं न कल्पते, किन्तु सङ्घडिमपि रात्रौ वा विकाले वासङ्घडिप्रतिज्ञया 'एतुं' गन्तुंन कल्पते । एष सूत्रस पार्थः॥ अथ भाष्यकारो विस्तरार्थं बिभणिषुराह[भा.३१४०] संखंडिजंति जहिं, आऊणि जियाण संखडी स खलु।
तप्पडिताए न कप्पति, अन्नत्थ गते सिया गमणं॥ वृ-सम्-इति सामस्त्येन खण्डयन्ते-त्रोट्यन्ते, 'जीवानां' वनस्पतिप्रभृतीनामायूंषि प्राचुर्येण 'यत्र' प्रकरणविशेषेसा खलु सङ्खडिरित्युच्यते, "स्वरेभ्य इः" इत्यौणादिक इप्रत्ययः, पृषोदरादित्वादनुस्वारलोपः, तां सङ्खडिं 'तप्रतिज्ञया' 'सङ्घडिमहं गमिप्यामि' इत्येवंलक्षणया गन्तुं न कल्पते । एवं ब्रुवतासूत्रेणेदं सूचितम्-'अन्यार्थम् अपरकार्यनिमित्तं सङ्घडिग्रामंगतस्य सङ्घड्यामपि गमनं स्यादिति ।। अधात्रैव प्रायश्चित्तमाह[मा.३१४१] राओ व दिवसतो वा, संखडिगमणे हवंतऽनुग्धाया।
संखडि एगमनेगा, दिवसेहि तहेवपुरिसेहिं ।। वृ-रात्रौ वा दिवसतो वा सङ्घड्यां-सङ्घडिग्राममुद्दिश्य गमने चत्वारोऽनुद्धाताः प्रायश्चित्तम्। सा च सङ्खडी दिवसैः पुरुषैश्चैका अनेका च भवति ॥ इदमेव स्पष्टयति[भा.३१४२] एगो एगदिवसियं, एगोऽनेगाहियं व कुजाहि ।
नेगा व एगदिवसिं, नेगा व अनेगदिवसंतु॥ वृ-एकपुरुष एकदैवसिकी सङ्खडीं कुर्यात्, एकः 'अनेकाहिकाम्' अनेकदैवसिकीम्, अनेके पुरुषाः सम्भूयैकदैवसिकीम्, अनेके पुरुषा अनेकदैवसिकी सङ्खडी कुर्वन्ति। [भा.३१४३] एकेक्का सा दुविहा, पुरसंखडि पच्छसंखडी चेव ।
पुवा-ऽवरसूरम्मिं, अहवा वि दिसाविभागेणं ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org