________________
२३२
बृहत्कल्प-छेदसूत्रम् -२-१/४६ वृ- राज्ञा साधूनामुपकरणानि हतानि, ततः तच्छेषाणां-तदुद्धरितानामभावः संवृत्तः किञ्चिदप्यवशिष्यमाणं नास्तीति भावः । ततः शीताभिभूताः सन्तस्तृणानि गृह्णन्ति अग्नि वा सेवन्ते । पात्रकबन्धाभावे सिक्केकानि, प्रावरणाभावेतु शणादिवल्कानि गृह्णन्ति । “पेहुणं" ति मयूराङ्गमयी पिच्छिका रजोहरणस्थाने कर्तव्या ।चर्मणो वा प्रस्तरण-प्रावरणार्थं ग्रहणं कार्यम्। भक्तं तु पलाशपत्रादिषु, तेषामभावे पाणिष्वपि गृह्णीयाद्वा भुञ्जीत वा ।। [भा.३१३४] असई यलिंगकरणं, पन्नवणट्ठा सयं व गहणट्ठा।
आगाढे कारणम्मिं, जहेव हंसादिणं गहणं ।। वृ-यदि राजा खलिङ्गेनोपशाम्यमानोऽपि नोपशाम्यति, उपकरणं वास्वलिङ्गेन मृग्यमाणन लभ्यते, ततः परलिङ्गं कुर्वन्ति । किमर्थम् ? इत्याह-प्रज्ञापनार्थं स्वयं वा ग्रहणार्थम् । किमुक्तं भवति? -बौद्धादिना राज्ञोऽनुमतेन परलिङ्गेन स्थिताः स्वसमय-परसमयवेदिनो वृषभायुक्तियुक्तैर्वचोभिस्तं राजानं प्रज्ञापयन्ति, तेन वा परलिङ्गेन स्थिता उपकरणं स्वयमेवोत्पादयन्ति । ईशेआगाढेकारणेयथैव हंसतैलादीनांग्रहणंतथा वस्त्र-पात्रादेरप्यवस्वापन-तालोद्घाटनादिप्रयोगः कर्तव्यमिति ।। गतमुपकरणहरद्वारम् ।
अथ जीवित-चारित्रभेदद्वारं भावयति[भा.३१३५] दुविहम्मि भेरवम्मि, विज निमित्ते य चुण्ण देवी य ।
सेट्टिम्मेि अमच्चम्मिय, एसणमादीसु जतितव्वं ॥ वृ-'द्विविधे' जीवित-चारित्रव्यपरोपणात्मके भैरवे समुत्पन्ने तं राजानं विद्यया निमित्तेन वा चूर्णैर्मा वशीकुर्यात्, या वा देवी तस्य राज्ञा इष्टा सा विद्याभिरावर्त्तयते । एवमप्यनुपशान्ती श्रेष्ठिनममात्यं वा उपलक्षणत्वात्पाषण्डिगणं वा प्रज्ञापयन्ति, ततस्तद्दारेणोपशमयन्ति ।अथवा यावद् नृपतिमुपशमयन्ति तावत् श्रेष्ठिनोऽमात्यस्य वाअवग्रहे तिष्ठन्ति । एषणादिषुच प्राग्वदेव यतितव्यम् । [भा.३१३६] आगाढे अन्नलिंगं, कालक्खेवो व होति गमनं वा।।
कयकरणे करणं वा, पच्छादण थावरादीसु ।। वृ-आगाढे राजद्विष्टेऽन्यलिङ्गं विधायाज्ञायमानस्तत्रैव कालक्षेपः कर्त्तव्यः विषयान्तरगमनं वा कर्त्तव्यम्।यो वा कृतकरणःस करणं करोति, विष्णुकुमारादिरिवनृपतेः शिक्षांकरोतीत्यर्थः। अथ तदपि नास्ति ततः स्थावराः-वृक्षास्तेषां गहनेषु आदिशब्दात् पद्मसरःप्रभृतिषु वा आत्मानं प्रच्छाद्य दिवा निलीना आसते रात्रौ च व्रजन्ति ।।
गतं राजद्विष्टद्वारम् । अथ भयादिद्वाराणि युगपदाह[भा.३१३७] बोहिय-मिच्छादिभए, एमेव य गम्ममाण जतणाए।
दोण्हऽट्ठा व गिलाणे, नाणादट्ठा व गम्मते॥ वृ-बोधिकाः-मालवस्तेनाः, म्लेच्छाः-पारसीकादयः,तदादीनांभये समुपस्थितेशीघ्रं देशान्तरं गन्तव्यम् । तत्र च गम्यमाने 'एवमेव' अशिवादिद्वारवद् भैक्षादिकं यतनया कर्तवम् । आगाढं गन्तव्यम् । ग्लानत्वेवा द्वयोराय गम्यते, वैद्यस्यौषधानांचहेतोरित्यर्थः। उत्तमार्थे तु निर्यापणार्थं प्रतिचरको गच्छेत् । उत्तमार्थप्रतिपित्सुर्वा विशोधिकरणार्थं गीतार्थसमीपं गच्छेत् । ज्ञान-दर्शन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org