SearchBrowseAboutContactDonate
Page Preview
Page 766
Loading...
Download File
Download File
Page Text
________________ २३१ उद्देशकः १, मूलं-४६, [भा. ३१२८] सचित्ता-ऽचित्तभेदभिन्नेन संज्ञाव्युत्सर्जनानन्तरं च प्राशुकमृत्तिकया द्रवेण च "द्विविधेनापि' सचित्ता-ऽचित्तभेदभिन्नेन कुरुकुचांकुर्वन्ति ।तत्र पूर्वमचित्तेन, पश्चात् सचित्तेनापि; पूर्वमिश्रेण, पश्चाद् व्यवहारसचित्तेनेति (वा) ॥गतं निर्विषयाज्ञपनद्वारम् । अथ भक्त-पाननिवारणाद्वारं व्याचष्टे[भा.३१२९] बिइए वि होइ जयणा, भत्ते पाने अलममाणम्मि । दोसीण-तक्क-पिंडी, एसणमादीसु जतितव्वं ।। वृ-द्वितीयेऽपिराजद्विष्टे भक्त-पानेऽलभ्यमाने इयं यतना भवति-यावदद्यापिजनो न सञ्चरति तावत् प्रत्यूषेवेलायां दोषानं तवं च गृह्णन्ति, पिण्याकपिण्डिकां वायसपिण्डिकां वा गृहन्ति, ततः पञ्चकपरिहाणिक्रमेणएषणादिषु यतितव्यम् । केषु पुनस्तद् गृह्यते? इत्याह[भा.३१३०] पुराणादिं पन्नवेडं, निसि पि गीतत्थे होति गहणंतु। अग्गीते दिवा गहणं, सुण्णघरे वा इमेहिं वा ।। वृ-पुराणं वा श्रावकंवा साधुसामाचारीकुशलं प्रज्ञाप्य यदि सर्वेऽपि गीतार्थास्ततः 'निश्यपि' रात्रावपिग्रहणं कुर्वन्ति। अगीतार्थमिश्रेषुतुपुराणादिप्रज्ञापितः सन्शून्यगृहे वाशब्दाद्दवकुलादौ बलिनिवेदनलक्ष्येण पौद्गलिकादिकं स्थापयति तस्य दिवा ग्रहणं कर्तव्यम् । एतेषु वा स्थानेषु स्थापितं गृह्णन्ति॥तान्येवाह[भा.३१३१] उंबर कोटिंबेसु व, देवउले वा निवेदनं रन्नो। कतकरणे करणं वा, असती नंदी दुविहदव्वे ॥ वृ-देवकुलादिषुये उदुम्बरास्तेष्वनिकालक्ष्येणोपढौकितं कूरादिकंगृह्णन्ति ।कोट्टिम्बा नामयत्र गोमक्तं दीयते तत्र गोभक्तलक्ष्येण स्थापितं गृह्णन्ति । अरण्ये वा यद् देवकुलं तत्र बलिनिवेदनं गृहणन्ति । राजानं च सदैव स्वयं परेण वा भणन्तो भाणयन्तश्च तिष्ठति (न्ति), यदि राजा बहुभिरप्युपायैरुपशम्यमानोऽपिनोपशाम्यति ततोयः संयतः 'कृतकरणः' इषुशास्त्रे कृताभ्यासः सहयोधी वास करणंकरोति, तंराजानंबद्धवा शास्तीत्यर्थः। विद्याबलेनवा वैक्रियलब्धिसम्पन्नो वाविष्णुकुमारादिरिवतस्यशिक्षां करोति। “असइ'त्तियदा कृतकरणादयोन प्राप्यन्ते तदाऽध्वानं गच्छद्भि नन्दि' प्रमोदोयेनद्रव्येण गृहीतेन स्यात्त द्विविधमपि ग्रहीतव्यम् तद्यथा-प्राशुकमप्राशुकं वा, परीत्तमनन्तं वा, परिवासितमपरिवासितं वा, एषणीयमनेषणीयं वेति ।। गतं भक्तपानप्रतिषेधद्वारम् । अथोपकरणहरद्वारं व्याख्यानयति[भा.३१३२] तइए वि होति जतण, वत्थेपादे अलब्भमाणम्मि। उच्छुद्ध विप्पइपणे, एसणमादीसु जतितव्वं !! वृ-'तृतीयं राजद्विष्टं नाम' यत्र राज्ञा प्रतिषिद्धम्-'माऽमीषां वस्त्रं पात्रं वा कोऽपि दद्याद् अपहर्त्तव्यं वा; तत्र वस्त्रे वा पात्रे वाअलभ्यमाने यतना कर्तव्या। कथम्? इत्याह-देवकुलादिषु कार्पटिकैर्यद् वस्त्रादिकम् ‘उच्छुद्धं' परित्यक्तं यच्च ‘विप्रकीर्णम्' उत्कुरुटिकादिस्थापितं तद् गृह्णन्ति । एषमादिदोषेषु वा यतितव्यम्, वस्त्रग्रहणे पञ्चकपरिहाण्या यतना कर्तव्येति ।। [भा.३१३३] हियसेसगाण असती, तण अगनी सिक्कगा व वागा वा। पेहुण-चम्मरगहणं, भत्तं तु पलास पाणिसु वा ।। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy