________________
२३०
बृहत्कल्प-छेदसूत्रम् -२-१/४६
तत्थुग्गमादिसुद्धं, असंथरे वा पनगहानी ॥
वृ-यत्र राज्ञा स्वच्छनेदन गमनमनुज्ञातं तत्र स्वयं वा सार्थेन वा सहिता गच्छन्तः 'पूर्वोक्तम्' इहैवाशिवद्वारे ओघनिर्युक्तौ वा भणितं भैक्ष-षट्काययतनादिकं कर्त्तव्यम् । नवरं तत्र स्वच्छन्दगमने उद्गमादिशुद्धं भक्तपानं ग्राह्यम् । असंस्तरणे पञ्चकपरिहाण्या गृह्णन्ति । अथ राजा 'मा अत्रैव जनपदे कचित् प्रदेशे निलीय स्थास्यन्ति' इति बुध्या पुरुषान् सहायान् प्रयच्छति, ततस्ते पुरुषा भणन्ति - यूयं ग्रामं प्रविश्य तत्र भिक्षामटित्वा भुक्त्वा च प्रत्यागच्छत, वयमिहैव ग्राद्वारे स्थिताः प्रतीक्षामहे; ततस्ते तत्र स्थिता यो य साधुः समागच्छति तं तथा निरुन्धते यावता सर्वेऽपि मिलिताः । अथवा ते राजपुरुषाः सभायां देवकुले वा स्थिता ब्रुवते यूयं भिक्षामटित्वा गृहीत्वा चेह समागच्छत, अस्माकं समीपे समुद्दिशतेति । ततश्च
[ भा. ३१२५ ]
तिण्हेगयरे गमने, एसणमादीसु होति जतियव्वं ।
भत्तट्टण थंडिल्ले, असती वसहीए जं जत्थ ॥
वृ-त्रयाणां प्रकाराणामेकतरस्मिन् गमने एषणायाम आदिशब्दादुद्गमोत्पादनयोश्च यतितव्यम् । भक्तार्थनं तु द्वयोराद्यगमनयोर्मण्डल्यादिविधिनैव कुर्वन्ति, तृतीये तु गमने राजपुरुषसमीपे भुञ्जानानां न मण्डल्यादिनियमः । स्थण्डिलसामाचारींतु त्रिष्वपिन हापयन्ति, राजपुरुषसमीपस्थिता वा कुरुकुचां कुर्वन्ति । यदि ते व्रवीरन्- 'अस्मत्समीपे वस्तव्यम्' ततो वसतावसत्यांयद्यत्राल्पदोषतरं कार्यं तत् तत्र कर्त्तव्यम् ॥ अथ प्रकारत्रयमेव व्यक्तीकुर्वन्नाह
[भा. ३१२६] सच्छंदओ य एक्तं, बितियं अन्नत्थ भोत्तिहं एह । ततिए भिक्खं घेत्तुं इह भुंजह तीसु वी जतणा ॥
वृ- एकं स्वच्छन्दत गमनम् द्वितीयं पुनरन्यत्र भुक्त्वेह समागच्छत, तृतीयं मिक्षां गृहीत्वा इह समागत्य भोजनं कुरुत, एषु त्रिष्विप भैक्षादियतना कर्त्तव्या ।। अत्रैव विशेषं दर्शयतिसबिइज्जए व मुंचति, आणावेत्तुं व चोल्लए देति ।
[मा. ३१२७]
।
अम्हुग्गमाइसुद्धं, अनुसट्ठि अनिच्छे जं अंतं ॥
वृ- वाशब्दाः प्रकारान्तरोपन्यासे । कश्चिदतिप्रान्तः सद्वितीयान् साधून् मुञ्चति । किमुक्तं भवति ? - साधूनां भिक्षामटतां राजपुरुषान् पृष्ठतः स्थितान् हिण्डापयति, ते च यद्युत्सुकायमाना अनेषणीयं ग्राहयन्ति; यदि वा स राजपुरुष एकत्र स्थाने साधून् निरुध्य 'चोल्लकं' भोजनमानाय्य ददाति यथा सर्वेऽप्येतदाहारयतः ततोऽसौ वक्तव्यः - अस्माकमुद्गमादि शुद्धं ग्रहीतुं कल्पते । एवमुक्तो यस्सङ्कलयति ततो भिक्षां हिण्डन्ते । अथ नोत्सङ्कलयति ततोऽनुशिष्टि कर्त्तव्या । तथापि मोक्तुमनिच्छति यत् चोलकं 'अन्तं' पिण्याक-दोषान्नादि तद् गृह्णन्ति ।।
[ भा. ३१२८ ] पुव्वं व उवक्खडियं, खीरादी वा अनिच्छे जं दिंति । कमढग भुत्ते सण्णा, कुरुकुय दुविहेण वि दवेण ॥
वृ- अथवा चोल्लके आनीते तन्मध्याद् पूर्वमात्मार्थं तैः 'उपस्कृतं' राद्धं क्षीर-दध्यादि वा तद् भुञ्जते । यदि पूर्वराद्धं नेच्छित प्रदातुम्, ब्रवीति च यदहं भोजयामि भणामि वा तत् समुद्दिशत; ततः शुद्धमशुद्धं वा यत् ते प्रयच्छन्ति तद् भुञ्जते । तत्र चेयं यतना- कमढकेषु परस्परं सान्तरमुपविष्टाः सन्तो भुञ्जते, भुक्तोत्तरकालं संज्ञाव्युत्सर्जनानन्तरं च प्राशुकमृत्तिकया द्रवेम च 'द्विविधेनापि '
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org