________________
__ २२९
उद्देशक : १, मूलं-४६, [भा. ३११८] अथवा भक्त-पानमलभमानोमरणमाप्नोति। असमाधिनाचम्रियमाणो देवदुर्गतिंदुर्लभबोधिकत्वं च प्राप्नोति । एवं चान्याऽन्यसाधुषु म्रियमाणेषु तीर्थस्य व्यवच्छेदो भवति ।। यत एवमतः[मा.३११९] ओमोदरियागमने, मग्गे असतीयपंथे जयणाए।
परिपुच्छिऊण गमनं, चउव्विहं रायदुटुं च ॥ वृ-अवमौदरिकायांगमनेप्राप्तेपूर्वमार्गेणगन्तव्यम्।मार्गस्याभावेपथाऽपि किं छिन्नोऽच्छिन्नो वाऽयंपन्थाः ?' इति परिपृच्छ्य 'यतनया' अशिवद्वारोक्तयागमनं विधेयम्।अथराजद्विष्टद्वारम्तञ्च निर्विषयादिभिर्वक्ष्यमाणभेदैश्चतुर्विधम् ।। तत्र स राजा कथं प्रद्वेषमापन्नः?
इत्याशङ्कावकाशमवलोक्येदमाह[भा.३१२०] ओरोहधरिसणाए, अब्मरहितसेहदिक्खणाए वा ।
अहिमर अनिट्टदरिसण, दुग्गाहणया अनायारे ।। वृ-अवरोधः-अन्तःपुरं तस्य लिङ्गस्थेन केनाप्याघर्षणा कृता, राज्ञो वाऽभ्यर्हितः-गौरविको राजा-ऽमात्यादिपुत्रः शैक्षो दीक्षितो भवेत्, साधुवेषेण वा केचिदभिमराः प्रविष्टाः, अनिष्टं वा साधुदर्शनं स्वयमेव पुरोहितप्रभृतिभिर्वा व्युद्ग्राहितो मन्यते, संयतो वा कयाचिदविरतिकया सममनाचारं प्रतिसेवमानो दृष्टः । एवमादिभि कारणैः प्रविष्ट इत्थं चतुर्विधं दण्डं प्रयुञ्जीत ॥ [भा.३१२१] निविसउत्तिय पढमो, बितिओ मा देह भत्त-पानं से।
ततितो उवकरणहरो, जीय चरित्तस्स चा भेतो।। वृ- प्रथमो राजदण्डो निर्विषयाऽऽज्ञापनलक्षणः । द्वितीयो मा भक्तपानममीषां प्रयच्छतेत्येवंलक्षणः। तृतीयः पुनरुपकरणहरः ।चतुर्थो जीवितस्य चारित्रस्य वा भेदः कर्त्तव्यः।। एवंविधे चतुर्विधे राजद्विष्टे आज्ञातिक्रमं कुर्वाणानां प्रायश्चित्तमाह[भा.३१२२] गुरुगा आणालोवे, बलियतरं कुप्पे पढमए दोसो।
गिण्हत-देंतदोसा, बितिय-तिए चरिमे दुविह भेतो ॥ वृ-येन राज्ञा निर्विषयाआज्ञप्तास्तदाज्ञालोपंविधाय तिष्ठतांचत्वारोगुरुकाः।अन्यच्चाज्ञातिक्रमे राजा 'बलिकतरं' गाढतरं कुपयति, एष प्रथमभेदे दोषोऽभिहितः । द्वितीयतृतीयभेदयोर्येन राज्ञा ग्राम-नगरादिषु भक्त-पानमुपकरणं वा वारितं तत्र ये साधवो गृह्णन्ति ये च गृहस्थास्तेषां प्रयच्छन्ति तेषामुभयेषामपि दोषाः-ग्रहणा-ऽऽकर्षणादयो भवन्ति । चरमः-चतुर्थो भेदः तत्र द्विविधो भेदो भवति, जीवितभेदश्चारित्रभेदश्चेत्यर्थः॥अथ निर्विषयाज्ञप्तानां गमनविधिमाह[भा.३१२३] सच्छंदेण य गमनं, भिक्खे भत्तट्ठणे य वसहीए।
दारे व ठितो रंभति, एगट्ठ ठितो व आणावे ।। वृ-यत्र राज्ञा भणिताः-स्वच्छन्दं गच्छन्तु भवन्तः, नाहं गच्छतां कमपि निरोधं कुर्वे; तत्र भैक्षे भक्तार्थने वसतिविषयां च सामाचारी न परिहापयन्ति । अथ 'द्वारे' ग्रामादिप्रवेशमुखे स्थितो राजपुरुषवर्ग साधून् भिक्षागतान् निरुणद्धि “एकत्र वा' सभा-देवकुलादौ स्थितः साधून् भोक्तुमात्मसमीपे आनाययति ततो वक्ष्यमाणां यतनां कुर्वन्तीति नियुक्तिगाथासमासार्थः ।।
साम्प्रतमिदमेव व्यक्तीकुर्वन्नाह[भा.३१२४] सच्छंदेण उगमनं, सयं व सत्येण वा विपुव्वुत्तं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org