________________
२२८
बृहत्कल्प-छेदसूत्रम् -२-१/४६ [भा.३१११] भंडी-बहिलग-भरवाहिगेसु एसा तु वणिया जतणा।
. ओदरिय विवित्तेसु य, जयण इमा तत्थ नातव्या ॥ वृ-भण्डी-बहिलक-भारवाहिसार्थेषु “एषा' अनन्तरोक्ता यतना वर्णिता । अधौदरिकेषु 'विविक्तेषु च' कार्पटिकेष्वियं यतना ज्ञातव्या॥तामेवाह[भा.३११२] ओदरिपत्थयणाऽसइ, पत्थयणं तेसि कंद-मूल-फला ।
अग्गहणम्मिय रज्जू, वलिंति गहणंच जयणाए। वृ-आगाढे राजद्विष्टादिकार्ये औदरिकादिभिः सह गम्यमाने 'पथ्यदनस्य' शम्बलस्याऽभावे यदि 'तेषाम्' औदरिकादीनां कन्द-मूल-फलान्याहरो भवेत् ततः साधूनामपि तमेवाहारं स्वयं प्रयच्छन्ति । ये च तत्रापरिणतास्ते कन्दादि न गृह्णन्ति । अग्रहणे च ते सार्थिका अपरिणतानां भीषणार्थं रज्जुर्वलयन्ति, ततो यतनया ग्रहणं कुर्वन्ति ।।इदमेव स्पष्टयति[भा.३११३] कंदाइ अभुंजते, अपरिणए सत्थिगाण कहयंति ।
पुच्छा वेधासे पुन, दुखिहरा खाइउंपुरतो।। वृ-अपरिणते कन्दादिकमभुजाने वृषभाः सार्थिकानां कथयन्ति-एतान् तथा भापयत यथा खादन्ति । ततस्ते सार्थिका रज्जुवलनं कुर्वन्ति । ततो गीतार्था कृतसङ्केताः पृच्छन्ति- कथयत, किमेताभी रज्जुभिप्रयोजनम्? । सार्थिका भणन्ति-वयमेकनाधारुढाः,अतोयोऽस्माकंकन्दादीनी न भक्षयतितं वयमेताभिर्विहायसि लम्बयामः, 'इतरथा' तस्य बुभुक्षातस्य पुरतः खादितुं 'दुःखं' दुष्करम्, न वयं भक्षयितुं शक्नुम इति भावः॥ [भा.३११४] इहरा वि भरति एसो, अम्हे खायामो सो वितु भएण।
कंदादि कजगहणे, इमा उजतणा तहिं होति ।। वृ-कन्दादीन्यभक्षयनितरथाऽप्यस्यामटव्यामवश्यमेष म्रियते अतो विहायसि लम्बनेन तं मारयित्वा सुखेनैव वयं भक्षयामः इत्युक्ते 'सोऽपि' अपरिणतो भयेन कन्दादिभक्षणं करोति । एवमादिपु कार्येषु कन्दादिग्रहणे प्राप्ते इयं यतना भवति॥तामेवाह[मा.३११५] फासुगजोनिपरित्ते, एगविगऽबद्ध भिन्न भिन्ने अ।
बद्धट्ठिए वि एवं, एमेव य होइ बहुबीए॥ [भा.३११६] एमेव होइ उवरिं, एगट्ठिय तह य होइ बहुबीए।
साहारणसभावा, आईए बहुगुणं जंच ।। वृ-द्वे अपि व्याख्यातार्थे ।। पानकयतनामाह[मा.३११७] तुवरे फले य पत्ते, रुक्ख-सिला-तुप्प-मद्दणादीसु।
पासंदणे पवाते, आतवतत्ते वहे अवहे। वृ-एषाऽपि गतार्था ।मता अशिवविषया यतना । अथावमौदर्यविषयां यतनामाह[मा.३११८] ओमे एसणसोहिं, पजहति परितावितो दिगिच्छाए।
अलभते वि यमरणे, असमाही तित्यवोच्छेदो ।। कृ-अवमौदरिकं विज्ञायानागतमेव द्वादशभिर्वर्षे निर्गन्तव्यम्।अथन निर्गच्छन्तिततश्चतुर्गुरु आज्ञादयश्च दोषाः । तत्र च तिष्ठन् 'दिगिञ्छया' क्षुधा परितापितः सन्नेषणाशुद्धिं प्रेजहाति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org