________________
उद्देश : १, मूलं - ४६, [भा. ३१०४]
कायोत्सर्गं कुर्वन्ति सा च व्रजिका विकुर्वति, अन्तिमायां च व्रजिकायामुपकरणविण्टिकां विस्मायति, तस्या ग्रहणार्थं साधूनां निवर्तनम्, यावत् तत्रागताः तावद् गोकुलं न पश्यन्ति, ततो गुरुणां समीपे कथनम्, यथा - नास्ति सा व्रजिकेति ॥ इदभेव स्पष्टयतिअद्धाणम्मि महंते, वट्टंतो अंतरा तु अडवीए । सत्थ तेनपरद्धो, जो जत्तो सो ततो नट्ठो ॥
[भा. ३१०५]
वृ- अध्वनि महति वर्त्तमानः सार्थ सर्वोऽप्यन्तरा महाटव्यां स्तेनैः प्रारब्धः, ततश्व यो यत्र वत्तेते स तत एव 'नष्ट:' पलायितः ॥
[भा. ३१०६ ] संजयजणो य सव्वो, कंची सत्थिल्लुयं अलभमाणो । पंथं अजाणपाणी, पविसेज्ज महाडविं भीमं ॥
२२७
वृ- संयतजनश्च सर्व कञ्चिदपि सार्थिकमलभमानः पन्थानं चाजानन् भीमां महाटर्वी प्रविसेत् ॥ ततः किं कर्त्तव्यम् ? इत्याह
[ भा. ३१०७] सव्वत्थामेण ततो वि सव्वकज्जुञ्जया पुरिससीहा । वसभा गणीपुरोगा, गच्छं धारिति जतणाए ॥
वृ- ततः 'सर्वस्थाम्ना' सर्वादरेण वृषभाः 'सर्वकार्योद्यताः' सकलगच्छकार्यैकबद्धकक्षाः 'पुरुषसिंहाः' सातिशयपराक्रमतया पुरुषाणं मध्ये सिंहकल्पाः 'गणिपुरोगाः' आचार्यपुरस्सस ईदृश्यां विषमदशायां प्रपतन्तं गच्छं यतनया धारयन्ति ॥ तामेवाह
[भा. ३१०८] जइ तत्थ दिसामूढो, हवेज गच्छो सबाल - वुड्डो उ । वनदेवयाए ताहे, नियमपगंपं तह करेति ॥
वृ-यदि 'तत्र' अटव्यां सबाल-वृद्धोऽपि गच्छो दिङ्गूढो भवेत् ततो नियमेन निश्चयेन प्रकम्पःदेवताया आकम्पो यस्मादिति नियमप्रकम्पः- कायोत्सर्गस्तं वनदेवताया आकम्पनार्थं तथा कुर्वन्ति यथासा आकम्पिता सती दिग्भागं वा पन्थानं वा कथयति ॥ यतः
[मा. ३१०९ ]
सम्मद्द्द्दिट्ठी देवा, वेयावच्चं करेति साहूणं । गोकुलविउव्वणाए, आसास परंपरा सुद्धा ॥
- ये सम्यग्धष्टयो देवास्ते साधूनां 'वैयावृत्त्यं' भक्तपानोष्टम्भादिना द्रव्यापदाद्युद्धरणात्मकं कुर्वन्तीति स्थिति । ततः सम्यग्ध्ष्टिदेवता काचिद् गोकुलं विकुर्वति । साधूनां तद्दर्शनेनाश्वासः । ततस्तया देवतया साधवो गोकुलपरम्परया तावद् नीता यावज्जनपदं प्राप्ताः । तया एवं नीता अपि ते 'शुद्धाः' निर्दोषाः || अमुमेवार्थं सविशेषमाह
[ भा. ३११०]
सावय-तेनपरद्धे, सत्ये फिडिया तो जइ हविज्जा ।
अंतिमवईगा विंटिय, नियट्टणय गोउलं कहणा ||
कृ- श्वापदैः स्तेनैश्व प्रारब्धे नष्टे च सार्थे 'ततः' सार्यात् स्फिटिता यदि भवेयुः ततः कायोत्सर्गेण देवताकम्पयेत् । आकम्पिता च काचित् पन्थानं कथयेत्, काचिद् व्रजिकाः परम्परया विकुर्व्य जनपदं प्रापयेत् । अन्तिमायां च व्रजिकायामुपकरणविण्टिकामुपधिं (वा) विस्मारयेत् । तदर्थं साधूनां निवर्त्तना । यावत् तत्रागतास्तावद् गोकुलं न पश्यन्ति । ततो गुरुणां समीपे कथनम्, यथा नास्ति सा व्रजिकेति । गुरुभिश्च ज्ञातम्, यथा- एतत् सर्वं देवताकृतमिति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org