SearchBrowseAboutContactDonate
Page Preview
Page 761
Loading...
Download File
Download File
Page Text
________________ २२६ बृहत्कल्प-छेदसूत्रम् -२-१/४६ तथापि 'खलु' निश्चितं 'स एव' अध्वकल्पः श्रेयान्, न चाधाकर्म दिने दिने लभ्यमानं वरम् ।। कुतः? इति चेद् उच्यते[भा.३१०१] आधाकम्माऽसति घातो, सई पुब्बहते त्तिय। जे उते कम्ममिच्छंति, निग्धिणा तेन मे मता। कृ-यदाधाकर्म दिने दिने लभ्यते तत्र 'असकृद्' अनेकवारं जीवोपघातः, अध्वकल्पे तु यदाधाकर्म तत्र 'सकृद्' एकमेव वारं जीवोपधातः, पूर्वहताश्च ते जीवा न दिने दिने हन्यन्ते, अतोऽध्वकल्प एव वरं नाधाकर्म। ये पुनः 'ते' अविदितप्रवचनरहस्या अध्वकल्पं मूलोत्तरगुणोपघातिनंमत्वान भुञ्जते, आधाकर्मतु केवलोत्तरगुणोपघातकमिति मत्वा दिने दिने भोक्तुमिच्छन्ति, तेऽत्यन्तनिघृणाः सत्त्वेषु, अत एवन ते मम सम्मता इति॥ भैक्षद्वार एव विशेषं दर्शयति[भा.३१०२] कालुट्ठाईमादिसु, मंगेसुजतंति बितियभंगादी । लिंगविवेगोकंते, चुडलीए मग्गतो अभए। कृ-कालोत्थायिप्रभृतिषु भङ्गेषुद्वितीयभङ्गमादौकृत्वायतन्ते।तथाहि-कालोत्थायी कालनिवेशी स्थानस्थायी कालभोजी इत्यत्र प्रथममङ्गे नास्ति यतना, सर्वथाऽपि शुद्धत्वातः द्वितीयादिषु तु सम्भवति । तत्र द्वितीयमले अकालभोजीति कृत्वाखलिङ्गविवेकंविधाय रात्रौपरलिङ्गेन गृह्णन्ति। तृतीयचतुर्थभङ्योरस्थायीतिकृत्वायद् गवादिभिराक्रान्तस्थानंतत्रतिष्ठन्ति।पजमादिषु चतुर्ष भङ्गेष्वकालनिवेशीति कृत्वा कालिकायां तिष्ठन्तधुडलिकया संस्तारकभूम्यादिषु बिलादिकं गवेषयन्ति । नवमादिषु षोडशान्तेष्टसु भङ्गेषु अकालोत्थायीति कृत्वा रात्री गन्तव्ये उपस्थिते 'मार्गतः' पृष्ठतः स्थिता गच्छन्ति । क्व सति? इत्याह-'अभये यदि पृष्ठतो गच्छतां स्तेनादिभयं नभवेत् । भक्तार्थनंतुयः सार्थोऽकालस्थायी तत्र निर्भयेपुरतो गत्वा समुद्दिशन्ति यथा समुद्दिष्टे सार्थस्तत्र प्राप्नोति, वसतिं चमध्ये गृह्णन्ति ॥तथा- . [भा.३१०३] सावय अन्नट्ठकडे, अट्ठा सुक्खे सय जोइ जतणाए। तेने वयणचडगरं, तत्तो व अवाउडा होति । वृ-श्रवापदभयेऽन्यैः-सार्थिकैरात्मार्थ यो वृतिपरिक्षेपः कृतस्तत्र तिष्ठन्ति। तदभावे "अट्ठ" त्ति साधूनामर्थाय कृते वृतिपरिक्षेपे तिष्ठन्ति । तदभावे "सुक्खे सय त्ति शुष्ककण्टिकाभिः स्वयमेव वृतिपरिक्षेपं कुर्वन्ति । "जोइ जयणाए"त्तियदिश्वापदभयेज्योतिषा-अग्निना कार्य ततः परकृतमग्निसेवन्ते।अयतेतंसेवितुंनप्रयच्छन्ति ततः परकृतमेवाग्निंगृहीत्वाप्राशुकदारुभिः प्रज्वालयन्ति । यत्र तु स्तेनभयं तत्र तथा 'वचनचटकरं वागाडम्बरं कुर्वन्ति यथा ते स्तेना मयादेव शीघ्रं नश्यन्ति । अथवा यतः यस्या दिशस्ते समागच्छन्ति तदभिमुखीभूय अप्रावृता भवन्ति ॥ एवंविधं विधिं कुर्वाणा अध्वनो निस्तरन्ति । अथायं व्याघातो भवेतू[भा.३१०४] सावय-तेनपरद्धे, सत्ये फिडिया ततो जति हवेजा। अंतिमवइगा विंटिय, नियनय गोउलं कहणा ।। पृ-महाटव्यांसिंहादिभिःश्वापदैः स्तेनैर्वासार्थप्रारब्धः सन्दिशोदिशिविप्रणष्टः,साधवोऽप्येकां दिशंगृहीत्वा विप्रणष्टाः ततः' सार्थात स्फिटितायदि भवेयुः, ततोदिग्भागमजानन्तोवनदेवतायाः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy