________________
२२४
बृहत्कल्प-छेदसूत्रम् -२-१/४६
स्थण्डिक प्राप्नुवन्ति, एवं वृषभा यतन्ते, यद्वा वृषभाः पुरतो गत्वा यत्र स्थण्डिलं तत्र प्रथमत एव तिष्ठन्ति ।अथसर्वथैवस्थण्डिलं न प्राप्यते ततो धर्मा-ऽधर्माऽऽकाशास्तिकायप्रदेशेष्वपिव्युत्सृजन्ति । अमुमेवार्थमतिदेशद्वारेणाह[भा.३०९१] पुव्वं भणिया जयणा, भिक्खे भत्तट्ट वसहि थंडिल्ले।
सा चेव य होति इहं, नाणत्तं नवरि कप्पम्मि ।। वृ-भिक्षा-भक्तार्थ-वसति-स्तण्डिलविषया यतना या पूर्वम् अधस्तनसूत्रेषु ओघनियुक्ती वा भणिता सैवेहाध्वनि वर्तमानानां मन्तव्या, स्थानाशून्यार्थं तु किञ्चिदत्रापि वक्ष्यते । तत्र भैक्षद्वारे 'नवरं' केवलमिह 'कल्पे' अध्वकल्पविषयं नानात्वम् । तदेवाह[भा.३०९२] अग्गहणे कप्पस्स उ, गुरुगा दुविधा विराधना नियमा।
पुरिसऽद्धाणं सत्थं, नाउं वा वी न गिहिज्जा ।। वृ-छिनेऽच्छिन्नेवापथियद्यध्वकल्पं नगृह्णन्ति तदाचतुर्गुरवः, "द्विविधाच आत्म-संयमभेदाद् विराधना नियमाद् मन्तव्या । तत्रात्मविराधना भक्ताधलाभे क्षुधातस्य परितापनादिना, संयमविराधना तुक्षुधातः सन्नध्वकल्पं विना कन्दादिग्रहणं कुर्यात् । अतो ग्रहीतव्योऽध्वकल्पः। एभिः कारणैर्न गृह्णीयादपि-यदि पुरुषाः सर्वेऽपि संहनन-धृतिबलवन्तः, अध्वाऽप्येकदैवसिको द्विदैवसिको वा, सार्थेऽपि प्रभूतभैक्षमवाप्यते तदपि ध्रुवलाभम्, सार्थश्च भद्रकः कालभोजी कालस्थायी च । एवमादीनि कारणानि ज्ञात्वा छिन्नपथेऽप्यध्वकल्पं न गृह्णीयात् ।।
स पुनरध्वकल्पः कीशो ग्रहीतव्यः? इत्युच्यते[भा.३०९३] सक्कर-घत-गुलमीसा, अगंठिमा खजूरा व तम्मीसा।
सत्तू पिन्नागोवा, घत-गुलमिस्सो खरेणं वा ।। वृ-शर्करया धृतेन च मिश्राणि 'अग्रन्थिमानि' कदलीफलानि खण्डीकृतानि गृह्यन्ते । अथ शर्करा न प्राप्यते ततो गुडेन धृतेन च मिश्रितानि । तेषामभावे खजूराणि धृतगुडमिश्राणि । तदप्राप्ती सक्तुकान् धृत-गुडमिश्रान् । तदलाभे पिण्याकोऽपि धृत-गुडमिश्रो ग्रहीतव्य । अथ धृतं न प्राप्यते ततः खरसंज्ञकेन तैलेन मिश्रितः पिण्याकः। एतेषां ग्रहणे गुणमुपदर्शयति[भा.३०९४] थोवा वि हणंति खुहं, न यतण्ह करेंति एते खजंता।
सुक्खोदणं वऽलंभे, समितिम दंतिक चुण्णं वा ॥ वृ. 'एतानि' अग्रन्थिमादीनि खाद्यमानानि स्तोकान्यपि क्षुधं जन्ति, न चैतानि भुक्तानि सन्ति तृष्णां कुर्वन्ति, अत ईशोऽध्वकल्पो गृह्यते । ईशस्यालाभे 'शुष्कौदनः' शुष्ककूरः, तदलाभे ‘समितिमाः' शुष्कमण्डकाः, तदप्राप्तौ 'दन्तिक्कचूर्ण तन्दुललोट्टः, यहादन्तिक्कं-तन्दुलचूर्णः, चूर्णं तु-मोदकादिखाद्यकचूरि; एतत् सर्वमपि धृत-गुडेन मिश्रयित्वा स्थापनीयम् । यदि शुद्धं भक्तं लभन्ते ततो नाध्वकल्पं भुजते, यावन्मात्रेण वा न्यून शुद्धं लभन्ते तावन्मात्रमध्वकल्पात् परिमुअते, अनुपस्थापितेभ्यो वा प्रयच्छन्ति ।
अध्वानं प्रविशद्भिरपरमपि यद् ग्रहीतव्यं तद् दर्शगति[भा.३०९५] तिविहाऽऽभयभेसज्जे, वणभेसज्जे य सप्पि-मुह-पट्टे ।
सुद्धाऽसति तिपरिरए, जा कम्मं नाउबद्धाणं ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org