________________
उद्देशक : १, मूलं- ४६, [भा. ३०८६ ]
२२३
· वृ-यत्रैकः सार्थवाहस्तत्र तमनुज्ञापयन्ति, येवा प्रधानपुरुषास्तेऽनुज्ञापयितव्याः । अथ द्वौ सार्थाधिपती ततोद्वावप्यनुज्ञापयितव्यौ, यदि प्रीतिकं ततो गमनं कर्तव्यम् । अथैकस्याप्रीतिकम् अपरस्य प्रीतिकं ततो भजना भवति, यस्तयोः प्रेरकः प्रमाणभूतस्तस्य प्रीतिके गन्तव्यम् अप्रीतिके न गन्तव्यम् । सार्थं चाप्राप्तानां 'निमित्तं' शकुनग्रहणं भवति । सार्थं प्राप्ताः पुनः सार्थस्यैव शकुनेन गच्छन्ति । सार्थप्राप्ताश्च तिः परिषदः कुर्वन्ति, तद्यथा- पुरतो मृगपरिषदं मध्ये सिंहपरिषदं पृष्ठतो वृषभपरिषदम् ॥ अथ "दोण्ह वि"त्ति पदं विवृणोति
[भा. ३०८७] दोत्रि वि समागया सत्थिगो य जस्स व वसेण वञ्चति तु । अणनुन्नविते गुरुगा, एमेव य एगतरपंते ॥
वृ-सार्थवाह आदियात्रिकश्च द्वावपि मिलितौ समागतौ समकमनुज्ञापयन्ति । अथवा 'सार्थिकः' सार्थो विद्यते यस्येति व्युत्पत्त्या सार्थवाह एक एवानुज्ञाप्यते । यस्य वा वशेन सार्थो व्रजति सोऽनुज्ञाप्यः । अथाननुज्ञापिते सार्थवाहादौ व्रजन्ति तदा चत्वारो गुरुकाः । अथ द्वौ सार्थावेकत्र मिलितौ स्याताम्, तत्र च द्वौ सार्थाधिपती, द्वावप्यनुज्ञापयितव्यौ । अथैकमनुज्ञापयन्ति तत्र 'एवमेव' चतुर्गुरुकाः । अथैकतरः प्रान्तः ततश्चिन्तनीयम्-स प्रेरको वा स्याद् अप्रेरको वा । यदि प्रेरकस्ततो न गन्तव्यम् । अथ गच्छन्ति ततः 'एवमेव' चतुर्गुरुकाः ॥
कथं तहिं गन्तव्यम् ? इत्याह
[भा. ३०८८] जो होइ पेल्लतो तं, भांति तुह बाहुछायसंगहिया । चानुहोत्तिय, गमनं इहरा उ गुरु आणा ।।
वृ- यस्तत्र 'प्रेरकः' प्रमामभूतो भवति तं धर्मलाभयित्वा भणन्ति यद्यनुजानीत ततो वयं युष्माभिः समं युष्मद्वाहुच्छायासङ्गहीता व्रजामः । एवमुक्ते यद्यसौ ब्रूयात्-भमवन् ! अनुग्रहोऽयं मे, अहं सर्वमपि भगवतामुदन्तमुद्वहामीति; एवमनुज्ञाते गमनं विधेयम् । इतरथा' यद्यसौ तूष्णीकस्तिष्ठति ब्रवीति वा 'मा समागच्छत' इति ततो यदि गच्छन्ति ततश्चत्वारो गुख आज्ञादयश्च दोषाः || यदि सार्थवाहस्यापरस्यवा प्रेरकस्याप्रीतिके गम्यते तत एते दोषाः
[मा. ३०८९] पडिसेहण निच्छुभणं, उवकरणं बालमादि वा हारे । अतियत्त गुम्मिएहि व, उभंते न वारेति ॥
वृ-स सार्थवाहादिः प्रान्तः सन्नटवीमध्यप्राप्तानां साधूनां भक्त पानप्रतिषेधं सार्थाद्वा निष्काशनं विदध्यात्, उपकरणं या बालादीन् वा अन्येन स्तेनादिना 'हारयेत्' अपहरणं कारयेदित्यर्थः, 'आदियात्रिकैर्वा' सार्थारक्षकैः 'गौल्पिकैर्वा' स्थानरक्षपालैः 'उद्दह्यमानान्' मुष्यमाणान् साधून् 'न वारयति' उदासीन आस्ते इत्यर्थः । यत एवं ततः किं कर्तव्यम् ? इत्याहभद्दगवयणे गमनं, भिक्खे भत्तट्टणाए वसधीए । थंडिल्ल असति मत्तग, वसभा य पदेस वोसिरणं ॥
[भा. ३०९० ]
वृ-सार्थवाहादिर्भद्रको ब्रूयात् यद् यूयमादिशत तदहं सर्वमपि सम्पादयिष्यामि, सिद्धार्थकवत् चम्पकपुष्पवद्वा शिरसि स्थिता अपि मे भारं न कुरुथ । एवं वचने भणिते सप्ति गमनं कर्तव्यम् । गच्छद्भिश्चाध्वनि भैक्षविषया भक्तार्थना - समुद्देशनं तद्विषया वसतिविषया च यतना कर्त्तव्य । संज्ञां कायिकीं वा स्थण्डिले व्युत्सृजेयुः । स्थण्डिलस्यासति मात्रके व्युत्सुज्य तावद् वहन्ति यावत्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org