________________
२२२
बृहत्कल्प-छेदसूत्रम् -२-१/४६
कालमकालट्ठा, सत्थाहऽट्ठाऽऽदियत्तीया ॥
वृ- सार्थपञ्चके भण्डीसार्थो बहिलकसार्थश्चायमाने शुद्धो वा स्यात् प्रेरितो वा यः शुद्धस्तेन गन्तव्यम् । तथा कालगामिनोऽकालगामिनो वा कालभोजिनोऽकालभोजिनो वा कालनिवेशिनोऽकालनिवेशिनो वा स्थण्डिलस्थायिनोऽस्थण्डिलस्थायिनो वा ते पञ्चापि सार्या भवेयुः । तथा अष्टौ सार्थवाहा अष्टौ चाऽऽदियात्रिकाः ॥ एभि पदैः कियन्तो भङ्गा उत्तिष्ठन्ते ? इत्याहएतेसिं तु पयाणं, भयणाए सयाई एक्क पन्नं तु । वीसं च गमा नेया, एत्तो य सयग्गसो जयणा ॥
[ भा. ३०८२]
वृ- एतेषां पदानां संयोगेन 'भजनयां' भङ्गरचनायां विधीयमानायामेकपञ्चाशत्सङ्ख्यानि शतानि विंशतिश्च 'गमाः ' भङ्गका ज्ञेयाः । " एत्तो य सयग्गसो जयण”त्ति आर्षत्वाद् 'एषु' सार्थेषु शुद्धाऽशुद्धेषु सार्थवाहा ऽऽ दियात्रिकेषुच भद्रक-प्रान्तेषु अल्पबहुत्वचिन्तायां 'शताग्रशः' शतसङ्ख्यभेदा यतना भवति ॥ अमुमेवार्थं भाष्यकारः प्रकटयन्नाह
[मा. ३०८३] कालुट्ठाई कालनिवेसी, ठाणद्वाती य कालभोगी य । उग्गतऽ नत्थमि थंडिल, मज्झण्ह धरंत सूरे य !!
वृ- इह पूर्वार्द्ध-पश्चार्द्धपदानां यथासङ्ख्यं योजना, तद्यथा- कालोत्थायी नाम सा सार्थो य उद्गते सूर्ये उत्तिष्ठते, चलतीत्यर्थः । कालनिवेशी योऽनस्तमिते रवौ प्रथमायां वा पौरुष्यां निवेशं कृत्व तिष्ठति । स्थानस्थायी यः स्थण्डिले व्रजिकादौ तिष्ठति । कालभोजी यो मध्याह्ने सूर्ये वा ध्रियमाणे भुङ्क्ते ॥
[भा. ३०८४] एतेसिं तु पयाणं, भयणा सोलसविहा उ कायव्वा । सत्यपणएण गुणिया, असिती भंगा तु नायव्वा ॥
वृ- 'एतेषां चतुर्णां पदानां षोडशविधा भजना कर्त्तव्या, तद्यथा- कालोत्थायी कालनिवेशी स्थानस्थायी कालभोजी १ कालोत्थायी कालनिवेशी स्थानस्थायी अकालभोजी २ कालोत्थायी कालनिवेशी अस्थानस्थायी कालभोजी ३ कालोत्थायी कालनिवेशी अस्थानस्थायी अकालभोजी ४। एवमकालनिवेशिपदेनापि चत्वारो भङ्गा अवाप्यन्ते, लब्धा अष्टौ भङ्गाः । एतेऽकालोत्थायिपदेनाप्यष्टौ प्राप्यन्ते, जाताः षोडश भङ्गाः । एते च सार्थपञ्चकेऽपि प्राप्यन्त इति पञ्चभिर्गुण्यन्ते, गुणिताञ्चाशीतिर्भङ्गका भवन्ति ॥
[भा. ३०८५] सत्थाह अट्ठगुणिया, असीति चत्ताल छस्सता होंति । ते आइयत्तिगुणिया, सत एक्कावन्न वीसहिया
वृ- पूर्वलब्धा अशीतिर्भङ्गकाः प्रतिसार्थवाहं प्राप्यन्ते इति कृत्वा अशीतिरष्टभि सार्थवाहैर्गुणिताः षट् शतानि चत्वारिंशानि भवन्ति । एतानि चाष्टभिरादियात्रिकैर्गुण्यन्ते जातानि भङ्गकानामेकपञ्चाशच्छतानि विंशत्यधिकानि । एषामन्यतरस्मिन् सार्थे यथायोगमल्पबहुत्वं परिभाव्य यत्र बहुतरा गुणा भवन्ति तमभिरोच्य गुरुपादमूलमागत्य सार्थप्रत्युपेक्षका आलोचयन्ति ।
अथ सार्थवाहस्यानुज्ञापनायां विधिमाह
[भा.३०८६] दोण्ह वि चियत्त गमणं, एगस्सऽचियत्त होति भयणा उ । अप्पत्ताण निमित्तं, पत्ते सत्यम्मि परिसाओ ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org