________________
२०३
उद्देशक : १, मूलं-४४, [भा.२९८७] समायातः योवासाधुर्विचारभूम्यादावागतस्तं "अप्पाहिति" सन्दिशन्ति, यथा-साधु-साध्वीप्रभृतीनां साम्भोगिकसंयतादीनां वा भवता कथयितव्यम्-साधवः साध्व्यश्च बहिरग्रोधाने स्थिताः सन्ति, तेचाध्वनि स्तेनैर्विविक्ताः, अतस्तेषां योग्यानिचीवराणि प्रेषणीयानि। अत्र चायं विधि-संयतैः संयतानां वस्त्राणि दातव्यानि, संयतीनांतुसंयतीभि । अथ तत्रसंयताः संयत्यो वा न सन्ति तदा श्रावकाः श्राविका वा प्रयच्छन्ति॥ यत्र तु संयत्यः संयतानां संयता वा संयतीनां प्रयच्छन्ति तत्र विधिमाह[भा.२९८८] खुड्डी थेराणऽप्पे,आलोगितरी ठवित्तु पविसंति ।
तेविय घेत्तुमइगया, समणुनजघे जयंतेवं ।। वृ-क्षुल्लिकाउद्यानं गत्वा स्थविरसाधूनां वस्त्राण्यर्पयन्ति;अधन सन्ति क्षुल्लिकाः ततः ‘इतराः' मध्यमास्तरुण्यो वा गत्वास्थविराणामालोके स्थाययित्वा भूयोऽपि ग्रामंप्रविशन्ति । यत्र संयतैः संयतीनां दातव्यं तत्र क्षुल्लकाः स्थविरसाध्वीनामर्पयन्ति; क्षुल्लकाभावेशेषाअपि साधवः स्थविराया आलोके स्थापनास्ति। तेऽपिच' संयताः संयतीदत्तानिवस्त्राणिगृहीत्वाप्रावृत्य नगरम् 'अतिगताः' प्रविष्टाः सन्त आत्मयोग्यमुपकरणमुत्पाद्य संयतीसत्कवस्त्राणि प्रत्यर्पयन्त । एवं समनोज्ञेषु विधिरुक्तः । “समणुनजढे जयंतेवं"ति यत्र समनोज्ञाः-साम्भोगिका न भवन्ति तत्र 'एवं' वक्ष्यमाणनीत्या यतन्ते॥ [भा.२९८९] अद्धाणनिग्गयाई, संविग्गा सन्नि दुविह अस्सण्णी ।
___ संजई एसणमाई, असंविग्गा दोन्निवी वग्गा ।। वृ- अध्वनो निर्गता यत्र ग्रामादौ प्राप्तास्तत्रेमे भवेयु:-'संविग्नाः' उद्यतविहारिणः, ते घेहान्यसाम्भोगिका गृह्यन्ते। 'संज्ञिनः' श्रावकास्ते द्विविधाः-संविग्नभाविता असंविग्नभाविताश्च। असंज्ञिनोऽपि द्विविधाः-आभिग्रहिका-ऽनाभिग्रहिकमिथ्याद्दष्टिभेदात् । “संजइ''त्ति अमनोज्ञसंयत्यः । असंविग्ना अपि द्वौ वर्गौ, तद्यथा-साधुवर्ग साध्वीवर्गश्च । अत्र विधिरुच्यते"एसणमाइ"त्ति संज्ञिप्रभृतिषु शुद्धं वस्त्रमप्राप्नुवन्तः पञ्चकपरिहाणिक्रमेणैषणादोषेषु यतन्त इति ॥अथैतदेव सविस्तरं व्याख्यानयति[भा.२९९०] संविग्गेतरभाविय, सन्नी मिच्छा उ गाढऽनागाढे ।
असंविग्ग मिगाहरणं, अभिग्गहमिच्छेसु विस हीला ।। वृ-संज्ञिनो द्विविधाः-संविग्नभाविता इतरभाविताश्च । मिथ्याद्दष्टयोऽपि द्विविधाः-आगाढा अनागाढाश्च । तत्र प्रथमं संविग्नभावितेषु संज्ञिषु, तदप्राप्तावनागाढमिथ्याष्टिषु शुद्धं वस्त्रमन्वेषणीयम् । असंविग्नभावितेष्वागाढमिथ्याष्टिषु च न गृह्णन्ति, कुतः ? इत्याहअसंविग्नभाविताः 'मृगाहरणं' लुब्धकदृष्टान्तं चेतसि प्रणिधाय साधुनामकल्प्यं प्रयच्छन्ति। ये त्वाभिग्रहिकमिथ्याष्टियस्ते साधुदर्शनप्रद्वेषतो विषं प्रयुञ्जीरन हीलां वा कुर्यु-अहो ! अदत्तदाना अमी वराका इत्थं क्लिश्यन्तीत्यादि।
अथानगाढमिथ्याष्टिषु शुद्धं न प्राप्यते ततः किं विधेयम्? इत्याह[भा.२९९१] असंविग्गभाविएसुं, आगाढेसुं जयंति पनगादी ।
___उवएसो संघाडग, पुव्वग्गहियं व अनेसु॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org