SearchBrowseAboutContactDonate
Page Preview
Page 737
Loading...
Download File
Download File
Page Text
________________ २०२ बृहत्कल्प-छेदसूत्रम् -२-१/४४ इत्याह- स्वपक्षः परपक्षश्चेति तदुभयं भवति, स्वपक्षः संयताः परपक्षः- गृहस्थाः अथवा तदुभयं नाम श्रमणाः श्रमण्यश्च । यद्व तदुभयं समनोज्ञाः 'इतरे' अमनोज्ञाश्च । अपिशब्दाद् व्यवहितसम्बन्धादत्र योजिताद् यदि वा संविग्ना असंचिग्नाश्चेति तदुभयम् । तत्र मुषिते सति विधिमाह[भा. २९८३ ] अमणुन्नेतर गिहि-संजईसु असइ पडिसत्य-पल्लीसु । तिहऽट्ठा गहणं, परिहारिय एतरे चैव ॥ · 'वृ- अमनोज्ञाः - असाम्भोगिकाः इतरे- पार्श्वस्थादयः, गृहिणः संयत्यश्च प्रतीताः, एतेषु विविक्ततया वस्त्राभावे प्रतिसार्थे वा पल्लयां वा पञ्चकपरिहाण्या वस्त्रं मार्गयितव्यम् । संयतीनां तु नास्ति पञ्चकपरिहाणि यदैव लभ्यते तदैव गृहीत्वा गात्राच्छादनं ताभि कर्त्तव्यम् । तच्च वस्त्रं ‘त्रयाणां’ लिङ्ग-भिक्षा-शीतत्राणानामर्थाय प्रातिहारिकं वा 'इतरद् वा' निसृष्टं ग्राह्यम् ॥ [ भा. २९८४ ] एवं तु दिया गहणं, अहवा रत्तिं मिलेज्ज पडिसत्थो । गीएसु रत्ति गहणं, मीसेसु इमा तहिं जयणा ।। वृ एवं दिवा ग्रहणमभिहितम् । अथ रात्रौ प्रतिसार्थो मिलेत् तत्र च यदि सर्वेऽपि गीतार्थास्ततो रात्रावेव गृह्णन्ति । अथागीतार्थमिश्रास्ततस्तेषु मिश्रेष्वियं यतना ॥ तामेवाह [भा. २९८५ ] वत्थेण व पाएण व, निमंतएऽनुग्गए व अत्थमिए । आइचो उदिउ तिय, गहणं गीयत्थसंविग्गे ॥ वृ-प्रतिसार्थे कश्चिद् दानश्राद्धादिरनुद्गते वाऽस्तमिते वा सूर्ये वस्त्रेण वा पात्रेण वा निमन्त्रयेत्, तत्र च यदि सार्थो रात्रावेव चलितुकामस्तदा गीतार्था गुरून् भणन्ति यूयं व्रजत, वयमुदिते आदित्ये गृहीत्वा समागमिष्यामः । ततो रजन्यामेव गृहीत्वा सार्थस्य पृष्ठतो नातिदूरासन्ने समागच्छन्ति। स्थिते च सार्थे गुरूणामालोचयन्ति-उदिते सूर्ये वस्त्रग्रहणं कृत्वा समायाताः । एवं गीतार्था संविग्ना गृह्णन्ति ॥ अथ प्रतिसार्थे पल्लयां वा न लभ्येत न वा प्रतिसार्थादिकं दृश्येत ततः किम् ? इत्याह[भा. २९८६ ] खंडे पत्ते तह दब्मचीवरे तह य हत्थपिहणं तु । अद्धाविवित्ताणं, आगाढं सेसऽ नागाढं ॥ वृ- चर्मखण्डानि संयतीनां विविक्तानां परिधानाय दातव्यानि । तदभावे शाकादिपत्राणि । तदप्राप्तौ दर्भैश्चीवरं घनं ग्रथित्वसमर्पयन्ति । सर्वथा परिधानाभावे हस्तेनापि गुह्यदेशस्य पिधानं ताभिः कर्त्तव्यम् । एवमध्वनि विविक्तानामागाढं कारणं मन्तव्यम् । शेषं तु सर्वमप्युपकरणाभावेऽनागाढम् ।। [भा. २९८७ ] असईय निग्गया खुड्डगाइ पेसंति चउसु वग्गेसु । अप्पाहिंति वऽगारं, साहु व वियारमाइगयं ॥ वृ- प्रतिसार्थपल्लयादौ वस्त्राणाम् 'असति' अप्राप्तौ अध्वनो निर्गता उद्यानं प्राप्ताः सन्तः 'क्षुल्लकादि' क्षुल्लकं क्षुल्लिकां वा विवक्षितं ग्रामं नगरंवा चत्वारः संयत- संयती श्रावक-श्राविकालक्षणा ये वर्गास्तेषु तेषां समीपे प्रेषयन्ति यद्वा साम्भोगिकाः संयता एको वर्ग, अन्यसाम्भोगिका इति द्वितीयः, साम्भोगिकाः संयत्य इति तृतीयः, अन्यसाम्भोगिकाइति चतुर्थ, एतेषां वा समीपे प्रेषयन्ति । अथ नास्ति क्षुल्लकः क्षुल्लिका वा ततो यस्ततो ग्रामाद् नगराद्वा 'अगारः' गृहस्थः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy