________________
उद्देशक : १, मूलं- ४४, [भा. २९७८ ]
२०१
कृतमिति मत्वा न गृह्णन्ति अन्यस्य वा ग्रहणं कुर्वन्ति तदा चतुर्लघवः । अतस्तदेव वस्त्रं गृहीत्वा क्षारादिना धीत्वा च साधुप्रायोग्यं कृत्वा परिभुञ्जते । अथातीव जीर्णं ततः 'उज्झेयुः' परिष्ठापयेयुरित्यर्थः ॥ गतः प्रथमो भङ्गः । अथ 'गृहस्थभद्रकाः संयतप्रान्ताः' इति द्वितीयो भङ्गो भाव्यते तत्र भूयश्चतुर्भङ्गी - संयत्यो विविक्ता न संयताः १ संयता विविक्ता न संयत्यः २ संयत्योऽपि विविक्ताः संयता अपि विविक्ताः ३ न संयत्योनापि संयता विविक्ताः ४ । अत्र विधिमभिधित्सुराह[भा. २९७९ ] सट्टाणे अनुकंपा, संजय पडिहारिए निसिट्टे य । असई तदुभए वा, जयणा पडिसत्थमाईसु ।।
- यत्र संयता गृहिणश्च विविक्ता न संयत्यः तत्र संयतीनां स्वस्थानं साधवः तत्रानुकम्पा कर्तव्या, साधूनांवस्त्रं दातव्यमित्यर्थः, साधुभिरपि तत् प्रातिहारिकं ग्राह्यम् । यत्र संयत्यो गृहस्थाश्च मुषिता न संयताः तत्र साधूनां संत्यः स्वस्थानं तासां वस्त्रदानेनानुकम्पा कर्त्तव्या, तच्च 'निसृष्टं' निदेजं दातव्यं न प्रातिहारिकम् । "असईय" त्ति अथात्मनोऽप्यधिकमुपकरणं नास्ति ततः प्रातिहारिकमपि तासां दातव्यम् । तथा तदुभयं साधुसाध्वीवर्ग तस्य विविक्तस्य वस्त्राभावे प्रतिसार्थादिषु 'यतना' वस्त्रान्वेषणविषया कर्त्तव्येति सङ्गहगाथासमासार्थ ।। अथैनामेव विवृणोति - [ भा. २९८० ] न विवित्ता जत्थ मुनी, समणी य गिही य जत्थ उहूढा । सट्टाणऽनुकंप तर्हि, समणुनियरासु वि तहेव ॥
- यत्र मुनयो न विविक्ताः श्रमण्यश्च गृहिणश्च यत्र “उहूढ "त्ति मुषिताः तत्र 'स्वस्थाने' संयतीवर्गेऽनुकम्पा कर्त्तव्या । ताश्च संयत्यो द्विविधाः संविग्ना असंविग्नाश्च । यदि सन्ति ततः सर्वासामपि दातव्यानि । अथ न सन्ति तावन्ति वस्त्राणि ततः संविग्नसंयतीनां देयानि । ता अपि द्विविधाः-समनोज्ञाः-साम्भोगिन्य इतराश्च- असाम्भोगिन्यः । यदि पूर्यन्ते ततो द्वयोरपि वर्गयोस्तथैव दातव्यानि । अथ न पूर्यन्ते ततः स्वस्थाने दातव्यानि, समनोज्ञानामित्यर्थः । अपिशब्दादू या धृतिदुर्बलास्ताः संविग्ना असंविग्ना वा स्थविरास्तरुण्यो वा भवन्तु नियमात् तासां दातव्यम् ।।
यत्र साधवो विविक्तास्तत्रेयं यतना
[ भा. २९८१] लिंगट्ठ भिक्ख सीए, गिण्हंती पाडिहारियमिमेसु । अमणुन्नियरगिहीसुं, जं लद्धं तन्निभं दिति ॥
वृ-लिङ्गार्थं तावदवश्यं रजोहरण-मुखवस्त्रि के ग्रहीतव्ये, भिक्षार्थं तु पात्रबन्ध-पटलकादि, शीतत्राणार्थं तु प्रावरणादि एतत् सर्वमपि प्रातिहारिकमेतेषु गृह्णन्ति । तद्यथा-अमनोज्ञाःअसाम्भोगिकाः इतरे- पार्श्वस्थादयः गृहिणः प्रतीताः, एतेषु यदि प्राप्यते ततः सुन्दरमेव, अथैतेषु न प्राप्यते ततः संयतीनामपि हस्तात् प्रातिहारिकं ग्राह्यम् । ततो अध्वोत्तीर्णे यत् चोलपट्टादिकं यदा लब्धं भवतितदा 'तन्निभं' तत्सध्शं प्रातिहारिकम् असाम्भोगिकादीनां 'ददति' प्रत्यर्पयन्ति । इह द्वितीयभङ्गे व्याख्यायमाने प्रथम- तृतीय- चतुर्थभङ्गा अपि लेशतः स्पृष्टा अवगन्तव्याः ॥ गतो द्वितीयभङ्गः । अथ तृतीयभङ्गं व्याख्यानयति
[भा. २९८२ ] उहूढे व तदुभए, सपक्खपरपक्ख तदुभयं होइ ।
अहवा वि समण समन, समणुन्नियरेसु एमेव ॥
वृ- तदुभये वा 'अद्दुढे' मुषिते सत्येवमेव यतना ज्ञातव्या । अथ तदुभयमिति किमुच्यते ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org