________________
२००
बृहत्कल्प-छेदसूत्रम् -२-१/४४
[भा.२९७३] नाणट्ठ दंसणठ्ठा, चरित्तहा एवमाइ गंतव्वं ।
उवगरण पुव्वपडिलेहिएण सत्येण गंतव्वं ॥ -इयमपि गतार्था ॥ [भा.२९७४] सत्थे विविच्चमाणे, असंजए संजए तदुभए य।
मग्गंते जयण दानं, छिन्नं पि हु कप्पई घेत्तुं॥ -ज्ञानाद्यर्थमध्वानं प्रतिपन्नानामपान्तराले चतुर्विधाः स्तेना भवेयुः-एके असंयतप्रान्ताः १ अन्ये संयतप्रान्ताः २ अपरे तदुभयप्रान्ताः ३ अन्ये तदुभयभद्रकाः ४। तत्रासंयतप्रान्तः स्तेनैः सार्थे 'विविच्यमाने मुष्यमाणेऽतएव साधूनां पार्वाद्वस्त्राणिमार्गयतियतनया दानं कर्त्तव्यम्। 'प्रत्यर्यमाणंच च्छिन्नमपि तदेव वस्त्रं ग्रहीतुं कल्पते नान्यदिति सङ्ग्रहगाथासमासार्थः ।।
अथैनामेव विवरीषुराह[भा.२९७५] संजयभद्दा गिहिभद्दगा य पंतोभए उभयभद्दा ।
तेना होति चउद्धा, विर्गिचणा दोसु तूजइणं ।। वृ-एके स्तेनाः संयतभद्रकाः गृहस्थथप्रान्ताः, अपरे गृहस्थभद्रकाः परं संयतप्रान्ताः, अन्ये उभयेषामपि प्रान्ताः, अपरे उभयेषामपि भद्रकाः, एवं स्तेनाश्चतुर्विधा भवन्ति । अत्र च द्वितीयतृतीययोद्धयोर्भङ्गयोर्यतीनां विवेचनं' वस्त्रेभ्यः पृथक्करणं भवति ।
अथ यत्र संयता न विविक्ताः गृहस्थास्तु विविक्ताः तत्र विधिमाह[भा.२९७६] जइ देंतऽजाइया जाइया वन विदेति लहुग गुरुगाय।
सागार दान गमणं, गहणं तस्सेव नऽन्नस्स। वृ-साधवो यद्ययाचिताः सन्तो वस्त्राणि गृहिणां प्रयच्छन्ति तदा चतुर्लघु । अथ याचिताः सन्तोन प्रयच्छन्ति तदा चत्वारो गुरवः । अतः 'साकारं' प्रतिहारंक भणित्वा प्रयच्छन्ति, यथाभवनि प्रत्यर्पणीयमिदमस्माकं यधर्वाग्वर्त्तमाना गृहं वा गता अन्यद् वस्त्रं लभध्वे । 'गमनं नाम' येषां गृहस्थानां तद् वस्त्रं प्रदत्तं ते यद्यन्येन पथा गच्छन्ति ततः साधुभिरपि तेनैव पथा गन्तव्यम्; यद्यन्येन व्रजन्ति ततश्चतुर्लघु । यदा तेऽध्वनो निर्गता भवन्ति तदा छिन्नस्यापि तस्यैव वस्त्रस्य ग्रहणं कर्तव्यं नान्यस्य ॥ ततः पुनर्वस्त्रं कीशं दातव्यम् ? इत्याह[भा.२९७७] दंडपडिहारवजं, चोल-पडल-पत्तबंधवजं च ।
परिजुण्णाणं दानं, उड्डाह-पओसपरिहरणा॥ वृ-महती जीर्णकम्बलिका दण्डपरिहार उच्यते, तद्वर्जम्, चोलपट्ट-पडलक-पात्रबन्धवर्ज च यानि शेषाणि परिजीर्ण वस्त्राण तेषामुडाह-प्रद्वेषपरिहरणार्थं दानं कर्तव्यम् । उड्डाहो नामअहो!अमीषामनुकम्पायेविविक्तानामप्यस्माकंचीवराणिन प्रयच्छन्ति, प्रद्वेषो नाम-अप्रीतिकम; तद्वशाचच प्रान्तापनादयो दोषास्तत्परिहरणार्थं दातव्यम्॥
अथ "छिन्नं पि"त्ति योऽयम-पिसब्दस्तत्सूचितमिदमपरमाह[भा.२९७८] धोयस्स व रत्तस्स व, अन्नस्स वऽगिण्हणम्मि चउलहुगा ।
तंचेव घत्तुं धोउं, परिमुंजे जुण्णमुज्झेजा ।। वृ-यदितैर्गृहस्थैस्तद्वस्त्रंधीतंवारक्तं वातथापितस्यैव ग्रहणं कर्तव्यम् । अथासाधुप्रायोग्यं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org