SearchBrowseAboutContactDonate
Page Preview
Page 734
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १ मूलं-४३, [भा. २९६७ ] १९९ नासन्ने नातिदूरे । तृतीयस्तु द्वितीयादपि गाडतरमाहतस्तेनासौ प्रत्यासन्न एव भूभागे गत्वा मृतः । न च मया ज्ञातम्, यथा-अयमन्यान्यः सिंहः समागतो न स एवेति ॥ ईशस्य कृतकरणस्याभावे देवतायाः कायोत्सर्ग कर्त्तव्यः, स च केन कियन्तं वा कालं यावत् ? इति अत्रोच्यते [भा. २९६८ ] खमओ व देवयाए, उस्सग्ग करेइ जाव आउट्टा । रक्खामि जापभायं, सुवंतु जइणो सुवीसत्था ।। वृक्षपको वा देवताया आकम्पननिमित्तं कायोत्सर्गं करोति यावदसौ 'आवृत्ता' आराधिता सती ब्रूते-भगवन् ! पारय कायोत्सर्गम्, यावत् प्रभातं तावदहं श्वापदाद्युपसर्गं रक्षामि, स्वपन्तु यतयः सुविश्वस्ता इति ॥ मू. (४४) नो कप्पइ निग्गंथाण वा निग्गंधीण वा रातो वा वियाले वा वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा पडिगाहित्तए । वृ- अथास्य सूत्रस्य कः सम्बन्धः ? इत्याह[भा. २९६९] जह सेज्जाऽनाहारो, वत्थाददेमेव मा अइपसंगा । दियदिट्ठवत्थगहणं, कुज्जा उ निसिं अतो सुत्तं ॥ कृ-यथा शय्या वसति अनाहार इति कृत्वा रात्रौ ग्रहीतुं कल्पते, एवमेव वस्त्रादिकमपि कल्पिष्यते इत्यतिप्रसङ्गाद् दिवाध्ष्टस्य वस्त्रस्य 'निशि' रात्रौ ग्रहणं मा कुर्यादित्यत इदं सूत्रमारभ्यत इति ।। अनेन सम्बन्धेनायातस्यास्य व्याख्या-नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा रात्रौ वा विकाले वा वस्त्रं वा प्रतिग्रहं वा कम्बलं वा पादप्रोञ्छनं वा प्रतिग्रहीतुमिति सूत्राक्षरगमनिका ॥ अथ भाष्यविस्तरः [मा. २९७०] रातो वत्थग्गहणे, चउरो मासा हवंति उग्घाया । आणाइणो य दोसा, आवजण संकणा जाव ॥ वृ- रात्रौ वस्त्रग्रहणे चत्वारो मासा उद्धाताः प्रायश्चित्त आज्ञादयश्च दोषाः । तथा यथा रात्री भक्तग्रहणे मिथ्यात्व-षट्कायविराधनादयो दोषा उक्ताः यावत् पञ्चस्वपि प्राणातिपातादिष्वापत्तिस्तद्विषया च शङ्का एतत् सर्वमपि दोषजालं रात्रौ वस्त्रग्रहणेऽपि तथैव वक्तव्यम् ॥ यतश्चैवमतो न ग्रहीतव्यं रात्रौ वस्त्रम्, कारणे तु गृह्णीयादपीति दर्शयति[ भा. २९७१] बिइयं विहे विवित्ता, पडिसत्थाई समिच्च रयणीए । ते य पए चिय सत्था, चलिहिंतुभए व इक्को वा ।। वृ-द्वितीयपदमत्रोच्यते-‘विहे' अध्वनि 'विविक्ताः' मुषिताः सन्तः प्रतिसार्थादिकं 'समेत्य' प्राप्य रजन्यामपि वस्त्र-प्रतिग्रहादिकं गृह्णन्ति । तत्रापि कथम् ? इत्याह-तावुभावपि सार्थी 'प्रगे' प्रातरेवानुद्गते सूर्ये चलिष्यतः, 'एको वा' अन्यतरः सार्थप्रतिसार्थयोर्मध्ये चलिष्यतीति मत्वा रात्रावपि ग्रहणं कुर्वन्ति । अत एव चोत्सर्गपदेऽध्वा गन्तुमेव न कल्पते यत्रैते दोषा उत्पद्यन्ते ॥ तथा चाह [भा. २९७२] उद्दद्दरे सुभिक्खे, अद्धाणपवज्रणं तु दप्पेण । लहुगा पुन सुद्धपदे, जं वा आवज्जई जत्थ | वृ- इयं रात्रिभक्तसूत्रे व्याख्यातार्था । द्वितीयपदमाह For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy