________________
उद्देशक : १, मूलं-४३, [भा. २९५८]
१९७ रहिए विज्जा अच्चित्त मीस सञ्चित्त गुरु आणा ।। वृ-बहिस्तिष्ठतां यदि श्वापदादिभयं तदा भूमिगृहे देवकुले वा आवरणं-कपाटं तेन सहिते तिष्ठन्ति । गाथायां प्राकृत्वाद् व्यत्यासेन पूर्वापरनिपातः । अथ सकपाटं न प्राप्यते तत आवरणरहितेऽपि तिष्ठन्ति, तत्र विद्यया द्वारं स्थगयन्ति, दिशां वा विद्याप्रयोगेण बन्धं विदधति यथा श्वापदादयोन प्रविशन्ति। विद्याया अभावे अचित्तकण्टिकाभि, तदप्राप्तौ मिश्रकण्टिकाभि, तदलाभे सचित्तकण्टिकाभिरपि स्थगयन्ति । तदभावे "गुरु आण"त्ति गुरवो भागवतीमाज्ञां प्ररूपयन्ति, यथा-आचार्यादीनां मारणान्तिके उपसर्गे उपस्थिते सति यः समर्थो भवति तेन यथासामर्थ्य तन्निवारणे पराक्रमणीयमिति नियुक्तिगाथासमासार्थः ।।अथैनामेव विवरीषुराह[भा.२९५९] सकवाडम्मि उ पुब्बि, तस्सऽसई आणइंति उ कवाडं।
विजाए कटियाहि व, अचित्त-चित्ताहि विठयंति॥ वृ-पूर्वंसकपाटे भूमिगृहे देवकुले वा स्थातव्यम् । तस्यासति अकपाटे तिष्ठन्तः कपाटमन्यत आनयन्ति।अथ नास्तिकपाटंततो विद्यया द्वारंस्थगयन्ति । तदभावेकण्टिकाभिप्रथममचित्ताभिः ततो मिश्राभिः ततः सचित्ताभिरपि स्थगयन्ति । [भा.२९६०] एएसिं असईए, पागार वई व रुक्ख नीसाए।
परिखेव विज्ज अन्चित्त मीस सच्चित् गुरु आणा ।। वृ-'एतेषां भूमिगृहादीनामसति प्राकरं वा वृतिं वा वृक्षं वा 'निश्राय' निश्रां कृत्वा तिष्ठन्ति। तत्रापि विद्यया परिक्षेपं कुर्वन्ति। तदभावेकण्टिकाभिर्यथाक्रममचित्त-मिश्र-सचित्ताभिः परिक्षिपन्ति । गुरवश्चाज्ञाप्ररूपणां वक्ष्यमाणां कुर्वन्ति ॥ [भा.२९६१] गिरि-नइ-तलागमाई, एमेवागम ठएंति विझाई।
एगदुगे तिदिसिं वा, ठएंति असईए सव्वत्तो॥ वृ-गिरिं वा नदी वा तडागं वा आदिग्रहणाद् गादिकं वा निश्रां कृत्वा तिष्ठन्ति । तेषां च यत्रैक एव प्रवेशस्तत्र प्रथमतस्तिष्ठन्ति, तदभावे यत्र द्वयोर्दिशोः प्रवेशः, तदप्राप्तौ यत्र तिसृषु दिक्षु प्रवेशस्तत्रापि तिष्ठन्ति । तेषां च आगमं प्रवेशमुखम् ‘एवमेव' विद्यादिभि स्थगयन्ति । "असईय सव्वत्तो"त्तिप्राकारादिनिश्राया एकप्रवेशादीनां वा गिरिप्रभृतीनामप्राप्तावाकाशेवसन्तः सर्वतोविद्याप्रयोगेण स्थगयन्ति दिशां वा बन्धं कुर्वन्ति । विद्याया अभावे कण्टिकाभिः सर्वतो वृतिं कुर्वन्ति । तदभावे गुरव आज्ञाप्ररूपणां कुर्वन्ति ॥ केन विधिना? इति चेद् उच्यते[भा.२९६२] नाउमगीयं बलिणं, अविजाणंता व तेसि बलसारं ।
घोरे भयम्मि थेरा, भणंति अविगीयथेजत्थं ।। वृ-ज्ञात्वा कमप्यगीतार्थं 'बलिनं समर्थम्, यद्वा अविजानन्तः 'तेषां स्वसाधूनां 'बलसारं' पराक्रममाहास्यम्, कस्य कीशः पराक्रमो विद्यतेइत्येवमजानन्त इत्यर्थः, घोरे रौद्रेश्वापदादिभये 'स्थविराः' आचार्या अविगीतस्थैर्यार्थम्' अगीतार्थस्थिरीकरणार्थ भणन्ति।। कथम् ? इत्याह[भा.२९६३] आयरिए गच्छम्मि य, कुल गण संघे यचेइय विनासे ।
आलोइयपडिकंतो, सुद्धो जं निजरा विउला ।। वृ-षष्ठीसप्तम्योरर्थं प्रत्यभेदाद् आचार्यस्य वा गच्छस्य वा कुलस्य वा गणस्य वा सङ्घस्य वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org