________________
उद्देशक : १, मूलं-४३, [भा. २९४७]
१९५ 'अतितमः' अतीवान्धकारमिदम्, न पश्यामो वयं किञ्चिदपीति । यद्येवम् 'अनुक्ताः' साक्षादभणिताः सन्तोज्योतिरानयन्ति ततः सुन्दरमेव । यश्चतत्र निवारयतितस्य 'यतना तथैव नोदना कार्या ॥ अथ ते गृहस्था अन्यव्यपदेशेनोक्तं नावबुध्यन्ते ततः किं कर्त्तव्यम् ? इत्याह[भा.२९४८] गंतूण य पनवणा, आनन तह चेव पुव्वभणियंतु।
भणण अदायण असई, पच्छायण मल्लगाईसु।। वृ-गीतार्थैर्गत्वा चशब्दादगत्वाऽपि तत्र स्थितैहिणां प्रज्ञापना विधेया, यथा-न पश्यामो वयमत्र बिलादिकं स्थाणु-कण्टकादिकं वा, अत उद्योतो यथा भवति तथा कुरुत । एवं परिस्फुटमभिहिताः सन्तस्ते प्रदीपस्यानयनं कुर्वन्ति । यश्चागीतार्थो निवारयति तस्य 'तथैव' नोदनायाम् “अयगोलं मा निवारेह" इत्यादिकं पूर्वभणितमेव द्रष्टव्यम् । “भणण" ति गृहिषु 'प्रदीपमानय' इति प्रज्ञाप्यमानेषु यो ब्रवीति 'किमेव सावधप्रवृत्तिं कारयसि ?' इति तस्याने मिथ्यादुष्कृतभणनं कर्त्तव्यम् । “असई"त्ति अथ गृहस्थः प्रदीपमानेतुं नेच्छति ततः “अदायण पच्छायण मल्लगाईसु"त्ति मृगाणामदर्शनाय मल्लकादिभि प्रच्छाद्य प्रदीपः स्वयमानेतव्यः॥
अथेदमेवोत्तरार्द्ध विवरीषुराह[भा.२९४९] गिहि जोइं मग्गंतो, मिगपुरओ भणइ चोइओ इणमो।
नाभोगेण मउत्तं, मिच्छाकारं भणामि अहं ।। वृ-गृहिणांसमीपे 'ज्योति' प्रदीपं 'मृगपुरतः' मृगाणांश्रण्वतां मार्गयन् यदि केनचिन्नोदितःकिमेवं सावधं कायसि? इति; ततोऽसौ गीतार्थ इत्यं भणति-अनाभोगेन मयेदमुक्तम्, अतोऽहं मिथ्याकारं भणामि, मिथ्यादुष्कृतं प्रयच्छामीत्यर्थः ।। [भा.२९५०] एमेव जइ परोक्खं, जाणंति मिगा जहेइमा भणिओ ।
तत्थ वि चोइज्जतो, सहसाऽनाभोगओ भणइ । वृ-एवमेव यदि मृगाणां परोक्षं गृहे गत्वा गृहस्थो भणितः तदाऽपि यदि ते मृगाः कथमपि जानन्ति, यथा-एतेन साधुना गृहस्थः भणितः' प्रदीपानयनाय प्रेरितः। तत्राप्यपरेण नोद्यमानः सन् भणति-सहसाकारेणानाभोगतो वा मयेदमुक्तम्, मिथ्या मे दुष्कृतमिति।। [भा.२९५१] गिहिगम्मि अणिच्छंते, सयमेवाणेइ आवरित्ताणं ।
जत्थ दुगाई दीवा, तत्तोमा पच्छकम्मं तु ॥ वृ-अथ गृही प्रदीपमानेतुं नेच्छति ततः स्वयमेव मल्लकसम्पुटेन वा कपरण वा कल्पेन वा प्रदीपमावृत्यानयति । तत्रापि यत्र गृहे 'द्विकादयः' द्वित्रिप्रभृतयः दीपाः ततो गृहादानयति । कुतः? इत्याह-“मापच्छकम्मंतु"त्ति यत्रैक एव दीपो भवति तत्रापरप्रदीपकरणलक्षणपश्चात्कर्म मा भूदिति कृत्वा ततः प्रदीपो नानेतव्यः ।। ततश्च[भा.२९५२] उज्जोविय आयरिओ, किमिदं अहगं मिजीवियट्ठीओ।
आयरिए पन्नवणा, नट्ठो यमओ य पव्वइओ॥ उद्योतितेप्रतिश्रये सतिआचार्यो भणति-हन्त! किमिदं भवता कृतम्? । स प्राह-क्षमाश्रमणाः! अहमद्यापि जीवीतार्थी अतो बिलादिपरिज्ञानार्थं मयेत्थं कृतम् । तत आचार्यो मातृस्थानेन तस्य प्रज्ञापनां करोति-हन्त! मृतएव त्वम्, कुतो भवतो जीवीतम्? यत एवं कुर्वन् प्रव्रजितः 'नष्टश्च'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org