________________
उद्देशक : १, मूलं- ४३, [भा. २९३७]
[मा. २९३७]
जइ सव्वे गीयत्था, सव्वे पविसंति ते वसहिमेव । विहि अविहीए पवेसो, मिस्से अविहीइ गुरुगा उ ।।
वृ- यदि ते साधवः सर्वे गीतार्थास्ततः सर्वेऽपि ते समकमेव वसतिं प्रविशन्ति । अथागीतार्थमिश्रास्ते ततो द्विधा प्रवेशः - विधिना अविधिना च । यद्यविधिना प्रविशन्ति ततश्चतुर्गुरुकाः । अविधिर्नाम यद्यगतार्थमिश्राः सर्वेऽपि प्रविशन्ति ॥
कः पुनस्तत्र दोषो भवति ? इति उच्यते
[भा. २९३८]
१९३
विप्परिणामो अप्पचओ य दुक्खं च चोदणा होइ । पुरतो जयणाकरणे, अकरणे सव्वे वि खलु चत्ता ।।
वृ-यदि मृगाणां पुरतो ज्योतिरानयनादिकां वक्ष्यमाणां यतनां कुर्वन्ति ततस्तेषां विपरिणामो भवेत् न वर्त्तते अग्निकायसमारम्भः कर्त्तुमित्युपदिश्य सम्पति तमेव स्वयं समारभन्ते इति । अप्रत्ययोऽपि तेषामुपजायेत-यथैतदलीकं तथा सर्वमप्यमीषामेवंविधमिति; ततश्च प्रतिगमनादयो दोषाः । तथा तेषां मृगाणां पश्चादग्निकायसङ्घट्टादि कुर्वतामपरां वा समाचारीं वितथामाचरतां दुःखं नोदना भवति, 'तदा स्वयमन्येन वा अग्निकायसमारम्भं कृत्वा सम्प्रत्यस्मान् वारयत' इत्यादि सम्मुखवलनतः सम्यक् शिक्षां न प्रतिपद्यन्त इत्यर्थः । अथैतद्दोषभयादेनां ज्योतिर्यतनां न कुर्वन्ति ततः ‘सर्वेऽपि' आचार्यादयः परित्यक्ता भवन्ति तेषां सर्प- श्वानादिभिरात्मविराधनासद्भावात् । तस्माद् विधिना प्रवेष्टव्यम् ॥ तमेव विधिमाह
[मा. २९३९ ] बाहिं काऊण मिए, गीया पविसंति पुंछणे घेत्तुं । देउल सभ परिभुत्ते, मग्गति सजोइए चेव ।।
वृ- मृगान् बहि 'कृत्वा' स्थापयित्वा 'प्रोञ्छनानि' दारुदण्डकानि गृहीत्वा गीतार्था प्रथमतो ग्रामं प्रविशन्ति । प्रविश्य च देवकुल- सभादीनि 'परभुक्तानि' परिभुज्यमानानि 'सज्योतींषि च' स्वयोगेनैव ज्योतिसहितानि मार्गयन्ति । अथ पूर्वकृतं ज्योतिस्तत्र न प्राप्यते ततः स्वयमेव तदानयन्ति आनाययन्ति वा । एवमुच्चारादिभूमिकाः प्रत्युपेक्ष्य मृगानानयन्ति ॥
[भा. २९४० ] परिभुजमाण असई, सुन्नागारे वसंति सारविए । अनुव्वासिय सकवाड निब्बिले निच्चले चेव ।।
वृ- परिभुज्यमाना वसतिर्यदि न लभ्यते तदा 'शून्यागारं शून्यगृहं गवेषयन्ति । तच 'अधुनोद्वासितं ' साम्प्रतमेवोद्वसीभूतं 'सकपाट' कपाटयुक्तं 'निर्बिलं' सर्पादिबिलरहितं 'निश्चलं' ढं न पतितुकामम् एवंविधं वेषणीयम् । अत्र चतुर्भि पदैः षोडश भङ्गा भवन्ति । एषां च मध्ये यः प्रथमो भङ्गस्तदुपेते शून्यगृहे 'सारविते' प्रमार्जिते वसन्ति । अत्र सर्वेषु गीतार्थेषु तावद् विधिमाह
[भा. २९४१] जइ नाणयंति जोई, गिहिणो तो गंतु अप्पणा आणे । कालोभयसंथाराण भूमिओ पेहए तेणं ॥
वृ- यदि गृहिणः प्रेरिता अपि ज्योतिर्नानयन्ति तत आत्मनाऽपि गत्वा गीतार्था आनयन्ति । ततस्तेन ज्योतिषा कालोभयसंस्ताराणां भूमीः प्रत्युपेक्षेत, कालभूमी संज्ञाभूमीं कायिकीभूमीं संस्तारकभूमीं चेत्यर्थः ॥
19 13
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org