SearchBrowseAboutContactDonate
Page Preview
Page 727
Loading...
Download File
Download File
Page Text
________________ १९२ बृहत्कल्प-छेदसूत्रम् -२-१/४३ निवसह इत्थंसावय-तक्करमाइ उ अहिलिंति ।। वृ-देवकुलादौ पूर्वस्थितान् साधून रात्रौ दृष्ट्वा जनो भणति, यथा-माऽत्रनिवसत, यतोऽत्र रात्री श्वापद-तस्करादयः 'अभिलीयन्ते समागच्छन्ति। [भा.२९३३] इत्थी नपुंसओ वा, खंधारो आगतो त्ति अइगमनं । गामानुगामि एहि वि, होञ्ज विगालो इमेहिं तु ।। वृ-लोको ब्रूयात्-अत्र देवकुलादौ रात्रौ स्त्रीवा नपुंसको वासमात्योपसर्ग करोति, स्कन्धावारो वाआगतः, एवमादिभिकारणैर्बाहिरिकायाः सकाशादन्तः 'अतिगमनं प्रवेशं कुर्युग्रामाभ्यन्तराद्वा बहिर्गच्छेयुः । एवं तावदध्वनिर्गतानां यतनोक्ता ! अथ विहरतां प्रतिपाद्यते- “गामानुगामि" इत्यादि, ये मासकल्पविधिना ग्रामानुग्रामं विहरन्ति तेषामपि 'एभि' वक्ष्यमाणैः कारणैर्विकालो भवेत् ।। तान्येवाह[भा.२९३४] वितिगिट्ट तेन सावय, फिडिय गिलाणे व दुब्बल नई वा। पडिनीयसेह सत्थे, न उ पत्ता पढमबिइयाई॥ वृ- यत्र क्षेत्रे मासकल्पः कृतस्तस्माद् यमन्यं ग्रामं प्रस्थिताः सः 'व्यतिकृष्टः' दूरदेशवर्ती, स्तेना वा द्विविधाः श्वापदा वा पथि वर्तन्ते तद्भयात् चिरलब्धसार्थेन सह आगताः, 'स्फिटिता वा' सार्थात्परिभ्रष्टास्ततो यावन्मार्गमवतीर्णास्तावदुत्सूरंसमजनि, यद्वा साधुः कोऽपिस्फिटितः स यावदन्वेषितस्तावन्चिरीभूतम्, ग्लानो वा साधुरधुनोत्थितः शनैः शनैः समागच्छति, दुर्बलो वा स्वभावेनैव कश्चित् सोऽपि न शीघ्रं गन्तुं शक्नोति, नदी वा पूर्णा यावदवरिच्यते तावत् प्रतीक्षमाणाः स्थिताः, यद्वा नदी यावत्परिरयगमनेन परिहियतेतावद्विलम्बोलग्नः, प्रत्यनीकै पन्थाः समन्ततो रुद्धः ततो यवदपरेण मार्गेणागम्यते तावदुत्सूरं जातम्, शैक्षोवा कश्चिदुत्पन्नःस पथि प्रतीक्षितः,अथवा तस्य दिवा व्रजतः सागारिकंसार्थोवाशनैः शनैरागच्छति, यद्वा तं सार्थ प्रतीक्षमाणानांविकालः सातः। एतैः कारणःप्रथमद्वितीयपौरुष्योःआदिग्हणात्तृतीयचतुथ्योरपि पौरुष्योः “नतु' नैव प्राप्ता भवेयुः, अर्थादापन्नं विकाले रात्रौप्राप्ताः, ततश्चतदानीं प्राप्तैस्तैर्विधिना ग्रामे प्रवेष्टव्यं नाविधिना ॥ यत आह[भा.२९३५] अइगमने अविहीए, चउगुरुगा पुव्ववनिया दोसा। आणाइणो विराधन, नायव्वा संजमाऽऽयाए । वृ- यद्यविधिना 'अतिगमन' प्रवेशं कुर्वन्ति ततश्चत्वारो गुरुकाः 'पूर्ववर्णिताश्च' षट्कायविराधना-प्रस्खलन-प्रपतनादयो दोषाअत्रावसातव्याः,आज्ञादयश्च दोषाः, विराधना . च संयमात्मविषया ज्ञातव्या, यत एवमतो विधिना प्रवेष्टव्यम् ।। कः पुनर्विधिः? इति अत आह[भा.२९३६] सव्वे वा गीयस्था, मीसा वा अजयणाए चउगुरुगा। आणाइणो विराधन, पुट्विं पविसंति गीयत्था ।। कृतेसाधवः यदि सर्वेऽपिगीतार्थास्ततःसर्वएवप्रविशन्ति । अथमिश्रास्ततोयदि 'अयतनया' वक्ष्यमाणयतनामकृत्वा प्रविशन्ति तदा चतुर्गुरुकाः; आज्ञादयो दोषाः, विराधना च संयमाऽऽत्मविषया।कापुनर्यतना? इतिअतआह-'पूर्व प्रथमंतावद्गीतार्थाप्रविशन्ति, पश्चादगीतार्था इति सङ्ग्रहगाथासङ्केपार्थः ।। अथैनामेव विवृणोति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy