________________
उद्देशक : : १, मूलं- ४३, [भा. २९२८]
१९१
दुल्लभ सहि ग्गामे, रुक्खाइठियाण समुदानं ॥
घृ- यतो ग्रामात् प्रस्थिताः ततो यत्र गन्तुमीप्सितं सोऽन्यग्रामो दूरे, अथवा 'उद्वाताः ' परिश्रान्तास्ततो विश्राम्यन्तः समायाताः स्तेन श्वापदभयाद्वा सार्थमन्तरेणागन्तुं न शक्यते स चसार्थश्चिरेण लब्धः, नदी वा प्रव्यढा; एतैः कारणैर्यस्मिन्ग्रामे प्रस्थितास्तमसम्प्राप्ता अपान्तरालग्रामे भिक्षावेलायां प्राप्ताः, तत्र च वसति दुर्लभा, अतो मार्गयद्भिरपि तत्क्षणं न लब्धा, ततो बृक्षादिमूले बहिः स्थित्वा सर्वेऽपि 'समुदानं' भैक्षं हिण्डितवन्तः ॥ तैश्च हिण्डमानैरमूषां वसतीनामेकतरा ध्ष्टा भवति
[भा. २९२९] कम्मार-नंत दारग-कलाय सभ भुञ्जमाणि दिय दिट्ठा । ते गएसु विसंते, जहि दिट्ठा उभयभोमाई ॥
वृ- कर्माराः - लहकारास्तेषां शाला कर्मारशाला, नन्तकानि - वस्त्राणि तानि यत्र व्यूयन्ते सा नन्तकशाला, दारकाः-बालकास्ते यत्र दिवसतः पठन्ति सा दारकशाला लेखशालेत्यर्थः, कलादाःसुवर्णकारास्तेषां शाला कलादशाला, सभा - बहुजनोपवेशनस्थानम् । यद्वा सभाशब्दः शालापर्यायोऽतः प्रत्येकमभिसम्बध्यते-कर्मारसभा नन्तकसभा इत्यादि । एतासामेकतरा दिवा भुज्यमाना दृष्टा, ततो व्यतीतायां सन्ध्यायां 'तेषु' लोहकारादिषु गतेषु ताननुज्ञाप्य तत्र कर्मरारशालादौ प्रविशन्ति । तत्रापि यत्र दिवसत एव 'उभयभूमिके' उच्चार-प्रश्रवणभूमिकालक्षणे आदिशब्दात् कालभूमिश्च यत्र 'दृष्टाः प्रत्युपेक्षिता भवन्ति तत्र रजन्यामपि गन्तुं कल्पते, अत्र च सूत्रनिपातः ।। एवमापवादिके सूत्रे भूयोऽप्यर्थतो द्वितीयपदमुच्यते- पूर्वमप्रत्युपेक्षितास्वपि संस्तारकोच्चारण श्रवणभूमिषु तिष्ठन्ति । कथम् ? इत्याह
[भा. २९३०] मज्झे व देउलाई, बाहिं व ठियाण होइ अइगमनं । सावय मक्कोडग तेन वाल मसयाऽयगर साणे ॥
वृ- 'मध्ये वा' ग्रामादेर्मध्यभागे यद् देवकुलम् आदिग्रहणात् कोष्ठकशाला वा तत्र दिवसतो विधिना स्थिताः, अथवा ग्रामादेः 'बहि' देवकुलादौ सकलमपि दिवसं स्थिताः, ततो लोकस्तत्र स्थितान् ध्ष्टवा ब्रूयात्-“सावय" इत्यादि, अत्र देवकुलादी रात्री श्वापदः -सिंह- व्याघ्रादिस्तद्भयं भवति अतो नात्र भवतां वस्तुं युज्यते; अथवा मर्कोटका अत्र रात्रावुत्तिष्ठन्ते, स्तेना वा द्विविधा अत्र रजन्यामभिपतन्ति, व्यालो वा सर्प स खादति, मशका वा निशायामन्त्राभिद्रवन्ति, अजगरो वाऽत्र रात्रो गिलति, श्वानो वा समागत्य दशति; एतैव्यार्घातकरणै रात्रावन्यस्यां वसतौ 'अतिगमनं' प्रवेशो भवति ॥ इदमेव स्फुटतरमाह
[भा. २९३१]
दिवसट्टिया विरत्तिं, दोसे मक्कोडगाइए नाउं । अंतो वयंति अन्नं, बसहिं बहिया व अंतो उ ||
कृ-देवकुलादौ दिवसतः स्थिता अपि रात्रौ मर्कोटकादीन् दोषान् ज्ञात्वा यदि 'अन्तः' ग्रामाभ्यन्तरे स्थितास्ततो ग्रामान्तर्वर्त्तिनीमेवान्यां वसतिं व्रजन्ति, तदप्राप्तौ बाहिरिकायां गच्छन्ति । अथ दिवसतो बहिर्देवकुलादिषु स्थिताः ततस्तत्रापि रात्रौ पूर्वोक्तान् दोषान् मत्वा 'बहि' बाहिरिकाया अन्तः समागच्छन्ति ॥ अथोक्तमेवार्थमन्याचार्यपरिपाट्या प्रतिपादयतिपुव्वट्ठिए य रत्तिं दद्दूण जनो भणाइ मा एत्थं ।
[भा. २९३२]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org