________________
उद्देशक : १, मूलं- ४२ [ भा. २९०० ]
१८५
नायम्मिय पत्रवणा, न हु असरीरो भवइ धम्मो ।।
वृ- वृषभैः स्थविरासमीपादानीते सति यदि ते मृगाः प्रश्नयेयुः कुत एतदानीतम् ?, ततो वक्तव्यम् - पल्लयाः सकासादिदमानीतम्, दानादिश्राद्धैर्वा दत्तम्, स्थविरया वा वितीर्णम्, प्रतिसार्थिकाद् वा लब्धम् । एवमपि यदि तैर्मृगैर्ज्ञातं भवति ततस्तेषां प्रज्ञापना कर्तव्या - भो भद्राः ! नास्ति 'अशरीरः' शरीरविरहितो धर्म अत इदं शरीरं सर्वप्रयत्नेन रक्षणीयम्, उक्तञ्चशरीरं धर्मसंयुक्तं, रक्षणीयं प्रयत्नतः । शरीराच्छ्रवते धर्म, पर्वतात् सलिलं यथा ॥
अतः प्रतिसेवध्वमिदम्, पश्चादिदं चान्यच्च प्रायश्चित्तेन विशोधयिष्याम इति ।। अथ पूर्वोक्तानां तिसृणामपि पर्षदां गमनविधिमाह
[भा. २९०१ ] पुरतो वञ्चंति मिगा, मज्झे वसभा उ मग्गओ सीहा । पिट्ठओ वसभऽन्नेसिं, पडियाऽसहुरक्खगा दोहं ||
अध्वनि गच्छतां पुरतः 'भृगाः' अगीतार्था मध्ये 'वृषभाः ' समर्थ - गीतार्था 'मार्गतः' पृष्ठतः 'सिंहाः' गीतार्था व्रजन्ति । अन्येषामाचार्याणां मतेन पृष्ठतो वृषभा व्रजन्ति । किं कारणम् ? इति अत आह-'द्वयानां' मृग-सिंहानां बाल-वृद्धानां वा ये 'पतिताः' परिश्रान्ता ये च 'असहिष्णवः ' क्षुधा पिपासापरीषहाभ्यां पीडितास्तेषां रक्षका वृषभाः पृष्ठतः स्थिता व्रजन्ति ॥ अथवा[भा. २९०२] पुरतो यपासतो पिट्ठतो य वसभा हवंति अद्धाणे ।
गणवआसे वसभा, मिगमज्झे नियम वसभेगो ॥
वृ- अध्वनि व्रजतां वृषभाः पुरतः पार्श्वतः पृष्ठतश्च व्रजन्ति । तथा गणपति - आचार्यस्तस्य पार्श्वे नियमादेव वृषभा भवन्ति । मृगाणां च मध्ये नियमादेको वृषभो भवति ॥
ते च वृषभाः किं कुर्वन्ति ? इत्याह
[भा. २९०३ ]
वसभा सीहेसु मिगेसु चेव धामावहारविजढा उ । tata होइ असहू, तस्स तह उवग्गह कुणति ॥
वृ-वृषभाः 'स्थामापहारविमुक्ताः' अनिगूहितबल-वीर्या सन्तो मृगेषु सिंहेषु वा यो यत्र येषां मध्ये असहिष्णुर्भवति तस्य तथोपग्रहं कुर्वन्ति ॥ कथम् ? इत्याह
[भा. २९०४] भत्ते पाने विस्सामणे य उवगरण- देहवहणे य । थामावहारविजढा, तिन्नि वि उवगिण्हए वसभा ||
वृ- मृगाणां सिंहानां वृषभाणां च मध्ये यः क्षुधार्त्तो भवति तस्य भक्तं प्रयच्छन्ति, पिपासितस्य पानकं ददति, परिश्रान्तस्य विश्राममां कुर्वन्ति । य उपकरणं देहं वा वोढुं न शक्नोति तस्य तयोर्वहनं कुर्वन्ति । एवं स्थामापहारविमुक्ता वृषभाः 'त्रीनपि' मृग-सिंह- वृषभानुपगृह्णन्ति ॥ [ भा. २९०५ ] जो सो उवगरणगणो, पविसंताणं अनागयं भणिओ । सट्टाणे सहाणे, तस्सुवओगो इहं कमसो ॥
वृ- अध्वनि प्रविशतां योऽसौ तलिकादिरुपकरणगणोऽनागतं ग्रहीतव्यो भणितः तस्येह स्वस्थाने स्वस्थाने अचक्षुर्विषय स्वादावुपस्थिते 'क्रमशः क्रमेणोपयोगः कर्त्तव्यः, येन यदा प्रयोजनं भवति तत् तदा तत्र प्रयोक्तव्यमिति भावः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org