________________
१८४
बृहत्कल्प-छेदसूत्रम् - २-१ / ४२
प्रथमपदव्याख्यानं सुगमत्वादनाद्दत्य सिंहादीनांपर्षदां व्याख्यानमाह[भा. २८९६] कडजोगि सीहपरिसा, गीयत्थ थिरा य वसभपरिसा उ । सुत्तकडमगीयत्था, मिगपरिसा होइ नायव्वा ॥
वृ- कृतयोगिनो नाम - गीतार्था परं न तथा समर्थास्ते सिंहपर्षदुच्यन्ते, ये तु गीतार्था अपरं च 'स्थिरा:' बलवन्तस्ते वृषभपर्षद्, ये तु 'कृतसूत्राः ' सूत्रेऽधीतिनः परमगीतार्थास्ते मृगपर्षदिति ज्ञातव्या भवति ॥ अथ " सुद्धि त्ति पत्थियाणं "ति पदं व्याख्यायते साधुभि प्रथमत एव सार्थाधिपतिरभिधातव्यः-वयं युष्माभिः समं व्रजामो यद्यस्माकमुदन्तमुद्वहथ । एवमुक्ते यद्यसावभ्युपगच्छति ततः शुद्धः सार्थ इति मत्वा प्रस्थिताः, परमटवीप्राप्तानां कोऽप्येवं कुर्यात्[मा. २८९७ ] सिद्धत्यग पुष्फे वा, एवं वुत्तु पि निच्छुभइ पंतो । भत्तं वा पडिसेहइ, तिहऽणुसडाइ तत्थ इमा ॥
।
वृ-यथा 'सिद्धार्था' सर्षपाश्चम्पकपुष्पाणि वा शिरसि स्थापितानि काञ्चिदपि पीडां न कुर्वन्ति, एवं यूयमपि मम कमपि भारं न कुरुथ । एवमुक्त्वाऽपि कश्चित् 'प्रान्तः' भिक्षूपासकादिरटवीमध्ये सार्थाद् निष्काशयति-मा यूयमस्माभि सार्द्धमागच्छतेति; भक्तपानं वा प्रतिषेधयति- माऽमीषां कोऽपि किञ्चिदपि दद्यात् ततः 'त्रयाणां' सार्थ-सार्थवाहा ऽऽयत्तिकानामनुशिष्टयादिका इदं यतना कर्त्तव्या ॥ तामेवाह
[ भा. २८९८ ] अनुसट्ठी धम्मकहा, विज्ज निमित्ते पभुत्तकरणं वा । परउत्थिगा व वसभा, सयं व थेरी व चउभंगो ॥
वृ- यद् इहलोकापायप्रदर्शनं क्रियते साऽनुशिष्टिरुच्यते, यत् पुनरिह परत्र च सपरपञ्चं कर्मविपाकोपदर्शनं सा धर्मकथा, तयाऽनुशिष्टया धर्मकथया वा सार्थ सार्थवाह आयत्तिका वा उपशमयितव्याः, विद्यया मन्त्रेण वा ते वशीकर्त्तव्याः, निमित्तेन वा आवर्त्तनीयाः । यो वा साधुः प्रभुः सहयोधी बलवान् ससार्थवाहं बद्धवा स्वयमेव सार्थमधिष्ठाय प्रभुत्वं करोति । एषा निष्काशने यतना । भिक्षाप्रतिषेधे पुनरियम् सर्वथा भिक्षाया अलाभे वृषभाः परयूधिका भूत्वा भक्तपानमुत्पादयन्ति, सार्तवाहं वा प्रज्ञापयन्ति । यदि च सर्वेऽपि गीतार्थास्ततः 'स्वयं वा ' स्वलिङ्गेनैव रात्रिभक्तविषयया चतुर्भङ्गया यतन्ते । अथागीतार्थमिश्रास्ततः स्थविराया गृहे निक्षिपन्ति । अमुमेवान्त्यपादं व्याख्यानयति
I
[भा. २८९९ ] डिसेह अलंभे वा गीयत्थेसु सयमेव चउभंगो । रिसगासं तु मिए, पेसे तत्तो व आनीयं ॥
वृ- सार्थाधिपतिना भक्तपानस्य प्रतिषेधः कृतः, यद्वा न कृतः प्रतिषेधः परं स्तेनैः सार्थ सर्वोऽपि विलुलितः अतो भक्तपानं न लभ्यते, ततो यदि सर्वेऽपि गीतार्थास्तदा 'स्वयमेव' परलिङ्गमन्तरेण रात्रिभक्तचतुर्भङ्गी यतनया प्रतिसेवितव्या । गाथायां पुंस्त्वं प्राकृतत्वात् । अथागीतार्थमिश्रास्ततो यदि तत्र सार्थे भद्रिका स्थविरा विद्यते तदा तस्याः समीपे निक्षिपन्ति । ततः स्थविरायाः सकाशं मृगान् प्रेष्य तेषां पार्वादानाययेत्, 'ततो वा' स्थविरासमीपादानीतमित्यगीतार्थानां पुरतो भणन्ति ।। अथवा
[ भा. २९०० ] कुओ एवं पल्लीओ, सड्डा थेरि पडिसत्थिगाओ वा ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org