________________
उद्देशक : १, मूलं- ४२ [भा. २८९१]
[भा. २८९१] परउत्थियउवगरणं, खेत्ते काले य जं तु अविरुद्धं । तं यणि-पलबट्टा, पडिनीए दिया व कोट्टादी ॥
वृ- परयूथिकाः तच्चन्निकादयस्तेषां सम्बन्धि यद् उपकरणं यत्र क्षेत्रे काले वा 'अविरुद्धम्' अर्चितं तद् रजन्यां भक्त-पानग्रहणार्थं प्रलम्बानयनार्थं वा कर्तव्यम् । यत्र वा प्रत्यनीका भवन्ति तत्र परतीर्थिकवेषच्छन्ना गच्छन्ति भक्तपानं वोत्पादयन्ति । म्लेच्छकोट्टं वा गताः परतीर्थिकवेषेण दिवा पुद्गलादिकं गृह्णन्ति । आदिशब्दात् प्रत्यन्तकोट्टादिपरिग्रहः ||
अथ गुलिका - खोलद्वारे व्याख्यानयति
[ भा. २८९२ ] गोरसभाविय पोत्ते, पुव्वकय दवस्सऽसंभवे धोवे । असई उगुलिय मिए सुन्ने नवरंगदइयादी |
१८३
धृ - गोरसभावितानि पोतानि' वस्त्राणि खोलानि भण्यन्ते । तेषु पूर्वकृतेष्वध्वानं प्रविष्टानां यदा प्राशुकद्रवस्यासम्भवस्तदा तानि पोतानि 'धावेयुः' प्रक्षालयेयुः । अगीतार्थप्रत्ययोत्पादनार्थं च आलोच्यते - गोकुलादिदं संसृष्टपानकमानीतम् । अथ न सन्ति खेलानि ततो गुलिका:तुवरवृक्षचूर्णगुटिकास्तद्भावनया पानकं प्राशुकीकृत्य 'मृगाः' अगीतार्थास्तेषां चित्तरक्षणार्थं 'शून्ये ग्रामे प्रतिसार्थिकादीनां नवरङ्गतिकादेरिदं गृहीतम्' इत्यालोचयन्ति । विशेषचूर्णी तु गुलिका- खोलपदे इत्थं व्याख्याते जत्थ पव्वयकोट्टाइसु पंडरंगादी पुञ्जंति संजयाण ते पडिनीया हो तत्थ 'गुलिय' त्ति वक्लाणि घेप्पंति । 'खोल' त्ति सीसखोला, तीए सिरं वेढियव्वं जहा न नज्जइ लोयहयं सीसं, सीससंरक्खणड्डाए वा ।। अथैषामुपकरणानां ग्रहणं न करोति ततः[भा. २८९३] एक्क्कम्मिय ठाणे, चउरो मासा हवंतऽनुग्घाया । आणाइणीय दोसा, विराधना संजमाऽऽयाए ।
वृ- 'एकैकस्मिन् स्थाने' एकैकस्योपकरणस्याग्रहणे इत्यर्थः चत्वारो मासाः ‘अनुद्धाताः ' गुरवो भवन्ति, आज्ञादयश्च दोषाः, विराधना च संयमाऽऽत्मविषया || अमुमेवार्थं स्पष्टतरमाह[भा. २८९४] एमाइ अनागयदीस रक्खणट्ठा अगेव्हणे गुरुगा । अनुकूले निग्गमओ, पत्ता सत्थस्स सउणेणं ॥
वृ- एवमादीनामुपकरणानामनागतमेव संयमात्मविराधनादिदोषरक्षणार्थं ग्रहणं कर्त्तव्यम् । अथ न गृह्णाति ततः प्रत्येकं चत्वारो गुरवः । गतमुपकरणद्वारम् । अथ पूर्वप्रत्युपेक्षितेन सार्थेन गन्तव्यमिति व्याख्याति- “अनुकूले" इत्यादि । अनुकूलं चन्द्रबलं ताराबलं वा यदा सूरीणां भवतितदा ‘निर्गमकः’प्रस्थानं क्रियते । निर्गताश्चोपाश्रयाद् यावत् सार्थं न प्राप्नुवन्ति तावदात्मनैव शकुनं गृह्णन्ति । सार्थं प्राप्तास्तु सार्थसत्केन शकुनेन गच्छन्ति ।। इदमेव सविशेषमाह
[ भा. २८९५ ] अप्पत्ताण निमित्तं, पत्ता सत्यम्मि तिन्नि परिसाओ । सुद्धे त्ति पत्थियाणं, अद्धाणे भिक्खपडिसेहो ।
वृ-सार्थेऽप्राप्तानां 'निमित्तं' शकुनग्रहणं भवति । प्राप्तानां तु यः सार्थस्य शकुनः स संयतानामपि भवति । सार्थं च प्राप्ताः । सन्तस्तिः परिषदः कुर्वन्ति, तद्यथा-सिंहपर्षदं वृषभपर्षदं मृगपर्षदम् । तथा सार्थ 'शुद्धः' निर्दोष इति कृत्वा प्रस्थिताः परं यदा 'अध्वनि' अटवीं प्राप्ता भवन्ति तदा कोऽपि प्रत्यनीको भिक्षायाः प्रतिषेधं कुर्यादिति नियुक्तिगाथासमासार्थ ।। अथ एनामेव विवरीषुः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org