________________
१८२
बृहत्कल्प-छेदसूत्रम् -२-१/४२
[भा.२८८६] तहि सिक्कएहि हिंडति, जत्य विवित्ता व पल्लिगमनं वा।
परलिंगग्गहणम्मि वि, निविखवणट्ठा व अन्नत्थ ॥ वृ-यत्र 'विविक्ताः' मुषितास्तत्र पात्रबन्धाभावे चौरपल्यां वा भिक्षार्थं गमनं विदधाना अलाबुकानि सिक्केषु कृत्वा हिण्डन्ते । चक्रचरादिसम्बन्धिपरलिङ्गेन वा भक्त-पानग्रहणे प्राप्ते सिक्ककेनपर्यटितव्यम्।अध्वकल्पादेर्वासिकके निक्षेपणं कार्यम् । प्रलम्बादिकंवा सिक्ककेष्वानीय 'अन्यत्र' स्थविरागृहादौ निक्षिप्यते तदर्थं सिक्ककंग्रहीतव्यम् ॥ [भा.२८८७] जे चेव कारणा सिक्कगस्स ते चेव होंति काए वि।
कप्पुवही बालाइव, वहति तेहिं पलंबे वा ।। वृ-यान्येव कारणानि सिक्ककस्योक्तानि तान्येव 'कायेऽपि' कापोतिकायामपि भवन्ति । यद्वा सिक्कक-कापोतिकयोरयमुपयोगः- कल्पम्' अध्वकल्पम् उपधिमाचार्या-ऽसहिष्णुप्रभृतीनां बालादीन् वा प्रलम्बानि वा उपलक्षणत्वादाकस्मिकशूलविद्धं वा ताभ्यां सिक्कक-कापोतिकाभ्यां वहन्ति ॥अथ लोहग्रहणद्वारं भावयति[भा.२८८८] पिप्पलओ विकरणट्ठा, विवित्त जुने व संघर्ण सूई।
आरितलिसंघणट्ठा, नक्खचण नक्ख-कंटाई। वृ-'पिप्पलकः' प्रलम्बविकरणार्थं गृह्यते । तथा विविक्तानां' मुषितानां यदवशिष्यमाणं वस्त्रं यद् वा स्वभावजीर्णं तस्य सन्धानार्थं सीवनार्थं वा सूची ग्रहीतव्या । त्रुटिततलिकानां सन्धानार्थमारागृह्यते । 'नखार्चनं नखहरणिका सा नखच्छेदनार्थं कण्टकादिशल्योद्धरणार्थं वा गृह्यते ।। शस्त्रकोशः पुनरयम्-शिरावेधशस्त्रकं पच्छणशस्त्रकं कल्पनशस्त्रकं लोहकण्टिका सन्दंशकः । एवमादिकस्य शस्त्रकोशस्योपयोगं दर्शयति[भा.२८८९] कोसाऽहि-सल्ल-कंटग, अगदोसहभाइयंतु चग्गहणा।
अहवा खेत्ते काले, गच्छे पुरिसे य जंजोग्गं । दृ- “कोस" त्ति शस्त्रकोशेनेदं प्रयोजनम्-अहि-सर्पस्तेन यावन्मात्रमङ्गं दष्टं तावच्छिद्यते, शल्यं वा कण्टको वा नखहरिणकया हर्तुमशक्यस्तेनोद्रियते । इह प्रतिद्वारगाथायां “सत्थकोसे .य"त्ति यश्च शब्दस्तद्रहणादगदौषधादिकं ग्रहीतव्यम् । तत्र यदनेकद्रव्यैर्निष्पन्नं तदगदम्, यत् पुनरेकाङ्गिकंतत्सर्वमप्यौषधम्।अथवाचशब्दोपादानात् क्षेत्रे दक्षिणापथादौ यद्यत्र दुर्लभम्, 'काले' ग्रीष्मादौ यत् सक्तुप्रभृतिकं शीतलद्रव्यमुपयोगि, महति गच्छे वा यत् केवइयादिकं साधारणम्, 'पुरुषस्य वा' आचायदिर्यस्य य योग्यं तद् यथायोगंग्रहीतव्यम् ॥
नन्दीभाजन-धर्मकरकयोरुपयोगमाह[भा.२८९०] एवं भरेमि भाणं, अनुकंपा नंदिभाण दरिसंति।
निति वतं वइगाइसु, गालिति दवंतु करएणं ।। वृ."अनुकंप"त्ति अध्वप्रतिपन्नानं कोऽप्यनुकम्पया ब्रूयात्- अहं युष्मभ्यं दिने दिने एकं भाजनं 'बिभर्मि पूरयामि, ततस्तत्रनन्दीभाजनंदर्शयन्ति।अथवा 'तद्' नन्दीभाजनंभिक्षाचर्यया व्रजिकादिषु नयन्ति । तथा प्रासुकमप्रासुकंवा 'द्रवं' पानकं 'करकेण' धर्मकरकेण गालयन्ति ।। परतीर्थिकोपकरणमाह
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org