________________
उद्देश : १, मूलं - ४२ [भा. २८८१]
क्षेत्रेवसतां निमित्तबलेन ज्ञातम्, यथा- अशिवादिकमत्र भविष्यति, अथवा 'भूतम्' उत्पन्मन्त्राशिवादि, अतः परदेशं व्रजन्ति । एवमादिभि कारणैरध्वानं गन्तव्यतया निश्चित्य गच्छोपग्रहकरमिदमुपकरणं गृह्णन्ति । किं पुनस्तत् ? इति अत आह
[भा. २८८२]
१८१
चम्माइलोहगहणं, नंदीभाणे य धम्मकरए य । परउत्थियउवकरणे, गुलियाओ खोलमाईणि ॥
वृ- चर्मशब्देन चर्ममयं तलिकाद्युपकरणं गृह्यते, आदिशब्दात् सिक्ककादिपरिग्रहः । लोहग्रहणेन पिप्पलकादिलोहमयोपकरणानां च ग्रहणमध्वानं गच्छता कर्त्तव्यम् । नन्दीमाजनं धर्मकरकश्च तथा 'पररतीर्थिकोपकरणं' वक्ष्यमाणरूपं तथा 'गुलिका नाम' तुवरवृक्षचूर्णगुटिकाः खोला:गोरसभावितानि पोतानि । एवमादीन्युपकरणानि ग्रहीतव्यानीति द्वारगाथासमासार्थः ॥ अथास्या एवाद्यपदं व्याचिख्यासुः प्रतिद्वारगाथामाह
[ भा. २८८३] तलिय पग वज्झे या, कोसग कत्ती य सिक्काए काए । पिप्पलग सूइ आरिय, नक्खाणि सत्यकोसे य ।।
वृ-तलिकाः- उपानहः, पुटकाः खल्लकानि, वः प्रतीतः, कोशक:-नखभङ्गरक्षार्थं यत्राङ्गुल्यः प्रक्षिप्यन्ते, कृत्ति चर्म, सिक्ककं प्रतीतम्, कायो नाम - कापोतिका, पिप्लकः सूची आरिका च प्रतीताः, नखार्चनी- नखहरणिका, 'शस्त्रकोशः ' शिरावेधादिशस्त्रसमुदाय इति प्रतिद्वारगाथासङ्क्षेपार्थः ॥ अथैनामेव गाथां प्रतिपदं विवृणोति
[ भा. २८८४ ] तलियाउ रत्तिगमणे, कंटुप्पहतेण सावए असहू । डगा विवधि सीए, वज्झो पुन छिन्नसंघट्ठा ॥
वृ-तलिकाः क्रमणिकास्ताश्च रात्रौ गमने कण्टकरक्षणार्थं पादेषु बध्यन्ते । सार्थवशाद्वा पन्थानं मुक्त्वोत्पथेन गच्छतां स्तेन श्वापदभयेन वा त्वरितं गम्यमाने दिवाऽपि बध्यन्ते । 'असहिष्णुः ' सुकुमारपादः स कण्टकसंरक्षणार्थं क्रमणिकाः पादयोर्बघ्नाति । ताश्च प्रथममेकतलिकाः, तदप्राप्तौ यावच्चतुस्तलिका अपि गृह्यन्ते । 'पुटकानि' खल्लकानि तानि शीतेन पादयोः 'विवर्चिकासु' विपादिकासु स्फटन्तीषु बध्यन्ते । 'वर्ष्मः' पुनस्तलिकादीनां छित्रानां त्रुटितानां सन्धानं सङ्घट्टनं तदर्थं गृह्यते ॥
[भा. २८८५] कोसग नहरक्खडा, हिमा-ऽहि-कंटाइसु उ खपुसादी । कत्ती वि विकरणट्ठा, विवित्त पुढवाइरक्खट्ठा ॥
वृ- "कोसग "त्ति अङ्गुलीकोशको नखभङ्गरक्षार्थं गृह्यते, तत्र पादयोरङ्गुल्योऽङ्गुष्ठकश्च प्रक्षिप्यन्ते । तथा हिमं शीतम् अहि- कण्टको प्रतीतौ तदादिप्रत्यपायरक्षणार्थं खपुसा आदिशब्दादर्द्धजङ्घिका - जजिकादयश्च गृह्यन्ते । 'कृत्ति' चर्म तत् प्रलम्बादिविकरणार्थं गृह्यते, मा धूल्या लोलीभावमनुभूय मलिनानि भूवन्निति कृत्वा । तथा "विवित्त"त्ति ते साधवः कदापि स्तेनैः 'विविक्ताः' मुषिता भवेयुस्ततो वस्त्राभावे कृत्तिं प्रावृण्वन्ति । यत्र वा पृथिवीकायो भवति तत्र कृत्तिं प्रस्तीर्य समुद्दिशन्ति, एवं पृथिवीकायरक्षा । आदिशब्दात् प्रतिलोमे वनदवे तृणरहितप्रदेशाभावे कृत्तिं प्रस्तीर्य तिष्ठन्तीति कृत्वा तेजः कायरक्षाऽपि कृता स्यात् ॥
गतं चर्मद्वारम् । अथादिग्रहणलब्धे सिक्कक कापोतिके व्याख्यानयति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org