________________
१८६
बृहत्कल्प-छेदसूत्रम् -२-१/४२
अथाध्वनि गच्छतामेव भक्तपानालाभे विधिमाह
[ भा. २९०६ ] असई य गम्ममाणे, पडिसत्थे तेण - सुन्नगामे वा । रुक्खाईण पलोयण, असई नंदी दुविह दव्वे ॥
वृ-तत्राध्वनि गम्यमाने भक्तपानस्य 'असति' अलाभे प्रतिसार्थे वा स्तेनपल्लयां वा शून्यग्रामे वा भक्तपानादि गवेषयन्ति, वृक्षादीनां वा प्रलम्बादिनिमित्तं प्रलोकनं कर्त्तव्यम् । सर्वथा वा संस्तरणस्यासति द्विविधं परीत्तानन्तादिभेदाद् द्विप्रकारं यद्द्रव्यं तेन यथा 'नन्दि' तपः संयमयोगानां स्फातिर्भवति तथा विधेयमिति नियुक्तिगाथासमासार्थः । अथैनामेव विवरीषुराह
[भा.२९०७ ] भत्तेन व पानेन व, निमंतएऽनुग्गए व अत्थमिए ।
आइचो उदित्तिय गहणं गीयत्यसंविग्गे ॥
वृ- अध्वानं गच्छतां यदि कोऽपि प्रतिसार्थो मिलितः, तत्र च केचिद् दानरुचयो भक्तेन वा पानेन वा रात्रावनुद्गते वाऽस्तमिते वा सूर्ये निमन्त्रयेयुः ततो यदि सर्वेऽपि गीतार्थासत्दा गृह्णन्ति; अथागीतार्थमिश्रास्ततो गीतार्था ब्रुवते गच्छत यूयम्, वयमुदित एवादित्ये भक्तपानं गृहीत्वा पश्चादागमिष्याम इति । ततः प्रस्थितेषु मृगेषु गीतार्थास्तत्क्षणमेव गृहीत्वा सार्थमनुगच्छन्ति । स्थिते सार्थे मृगाणां शृण्वतामालोचयन्ति - आदित्य उदित इति मत्वा वयं ग्रहणं कृत्वा समागताः । एवंविधां यतनां गीतार्थ संविग्नः करोति ॥ अथ किमर्थं गीतार्थसंविग्नग्रहणम् ? इत्याह[भा. २९०८] गीयत्थग्गहणेणं, सामाए गिण्हए भवे गीओ । संविग्गग्गहणेणं, तं गेहंतो वि संविग्गो ॥
वृ-गीतार्थग्रहणेनेदमावेदितम्- यो गीतार्थो भवति स एव 'श्यामायां' रात्रौ गृह्णाति नागीतार्थः । संविग्नग्रहणेन तु तद् रात्रिभक्तं गृह्णन्नप्यसौ संविग्न एव, यथोक्तयतनाकारित्वेन मोक्षाभिलाष्येव मन्तव्य इत्युक्तं भवति ॥ गतं प्रतिसार्थद्वारम् । अथ स्तेनपल्लीद्वारम् तस्यां चपिशितं सम्भवति तत्रायं विधिः
[भा. २९०९]
बेइंदियमाईणं, संथरणे चउलहू उ सविसेसा । ते चेव असंथरणे, विविरीय सभाव साहारे ।
वृ-यदि 'संस्तरणे' इतरभक्तपाननिवहि सति द्वीन्द्रियादीनां पुद्गलं गृह्णन्ति तदा चतुर्लघवः 'सविशेषाः' तपः- कालविशेषिताः । तद्यथा द्वीन्द्रियपुद्गलं गृह्णाति चत्वारो लघवस्तपसा कालेन च लघुकाः, त्रीन्द्रियपुद्गले त एव कालेन गुरुकाः तपसा लघुकाः, चतुरिन्द्रियपुद्गले तपोगुरुकाः काललघुकाः, पञ्चेन्द्रियपुद्गले द्वाभ्यामपि तपः- कालाभ्यां गुरुकाः । अथासंस्तरणं भवति ततो यदि द्वीन्द्रियादिक्रममुल्लङ्घ्य 'विपरीतम्' उत्क्रमेण गृह्णाति ततस्त एव चत्वारो लघवः । अथापवादस्याप्यपवाद उच्यते-द्वीन्द्रियादीनां पुद्गलमधिकतरेन्द्रियपुद्गलादल्पतरबलं ततो यत् स्वभावेनैव साधारणं तद् गृह्णन्ति ।।
[भा. २९१०] जत्थ विसेसं जाणंति तत्थ लिंगेण चउलहू पिसिए । अन्नाएण उ गहणं, सत्यम्मि वि होइ एसेव ।।
- यत्र ग्रामे विशेषं जानन्ति यथा 'साधवः पिशितं न भुञ्जते' तत्र यदि स्वलिङ्गेन पिशितं गृह्णन्ति तदा चतुर्लघवः । अतोऽज्ञातेनैव तत्र ग्रहणं कार्यम्, परलिङ्गेनेत्यर्थः । स्तेनपल्लयादीनामभावे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org