________________
उद्देशक: १, मूलं- ४२, [भा. २८७२ ]
[भा. २८७२]
बिइयपयं गेलन्ने, पढमे बिइए य अणहियासम्मि । फिट्ट चंदगवेज्झं, समाहिमरणं व अद्धाणे ।।
१७९
वृ- 'द्वितीयपदं नाम' 'दिवा गृहीतं दिवा भुक्तम्' इत्यादिचतुर्भङ्गीप्रतिसेवनात्मकं तदागाढे ग्लानत्वे आसेवितव्यम्। प्रथमद्वितीयपरीषहातुरतायां वा, “अणहियासम्मि” त्ति असहिष्णुतायां वा, चन्द्रकवेधं नामानशनं तदसमाधिमुपगतस्य 'स्फिटति' न निर्वहतीति भावः, अतस्तस्य यथा समाधिमरणं तथा चतुर्भङ्गयाऽपि यतितव्यम् । अध्वनि वा चतुर्ष्वपि भङ्गेषु ग्रहणं कर्तव्यमिति द्वारगाथासमासार्थ ॥ अथैनामेव विवरीषुग्लनत्वद्वारं व्याख्यानयति
[भा. २८७३ ] पइदिनमलब्भमाणे, विसोहि समइच्छिउं पढम भंगो । दुल्लभ दिवसंते वा, अहि- सूलरुयाइसुं बिइओ || एमेव तइयभंगो, आइ तो अंतए पगासो उ । दुहओ वि अप्पगासो, एमेव य अंतिमो भंगो ॥
[भा. २८७४ ]
वृ- यदा ग्लानस्य प्रतिदिनं विशुद्धं भक्तपानं न लभ्यते तदा पञ्चकपरिहाण्या ये विशोधिकोट्यादयो दोषास्तेषु प्रतिदिवसं ग्रहीतव्यम्, यावच्चतुर्लघुकाः प्रायश्चित्तम्; यदा तदपि समतिक्रान्तस्तदा प्रथमभङ्गो भवति, रात्रौ परिवास्य दिवा दातव्यमित्यर्थः । तथा 'दुर्लभ' ग्लानप्रायोश्यमशनादि द्रव्यं तच्च गृहीत्वा यावत् प्रतिश्रयमागच्छति तावदस्तमुपगतः सविता अतो दिवा गृहीत्वा रात्री ग्लानस्य दातव्यम्; अथवा कश्चिद् दिवसान्ते 'अहिना' सर्पेण खाद्येत, शूलरुग् वा कस्यापि तदानीमुद्धावेत, आदिग्रहणाद् विष-विसूचिकादिष्वागाढेषु समुत्पन्नेषु सर्पडङ्काद्युपशमनलब्धप्रत्ययमगदाद्यौषधमानीय यावद् दीयते तावदस्तं गतो रवि अतो रात्रावपि दातव्यम्, एष द्वितीयो भङ्गः । एवमेव तृतीयो भङ्गो वक्तव्यः, यानि प्रथम-द्वितीयभङ्गयोः कारणानि तानि तृतीयभङ्गेऽपि भवन्तीति भावः । अत्र च भङ्गे आदौ 'तमः' अन्धकारं रात्रिपदमित्यर्थः, अन्तेच 'प्रकाशः' दिवापदम्। 'अन्तिमः ' चतुर्थोभङ्गः सोऽपि 'एवमेव' अहिदष्टथदावागढकारणे प्रतिसेवितव्यः, नवरमसौ द्विधाऽप्यप्रकाशो मन्तव्य इति ॥
गतं ग्लानद्वारम् । अथ प्रथम द्वितीयाऽसिष्णुपदानि व्याचष्टे
[भा. २८७५ ] पढमबिइयाउरस्सा, असहुस्स हवेज अहव जुअलस्स । कालम्मि दुरहियासे, भंगचउक्केण गहणं तु ।
वृ- प्रथमः क्षुधापरीषहो द्वितीयः - पिपासापरीषहस्ताभ्यामातुरस्य, 'असहिष्णोर्वा ' स्थूलभद्रस्वामिलघुभ्रातृ श्रीयककल्पस्य युगलं- बाल-वृद्धरूपं तस्य वा असहिष्णोः, काले वा 'दुरधिसहे' अवमौदर्यलक्षणे भङ्गचतुष्केणापिग्रहणं कर्त्तव्यम् ॥
[भा. २८७६]
एमेव उत्तिमट्टे, चंदगवेज्झसरिसे भवे भंगा। उभयपगासो पढमो, धई अंते य सव्वतमो ॥
धृ-चन्द्रो नाम-चक्राष्टको परिवर्त्तिन्याः पुत्तलिकाया वामाक्षिगोलकः तस्य वेधः- ताडनं तत्सध्शेतद्वदुराराधे 'उत्तमार्थे' अनशने प्रतिपन्ने सति यदि कदाचिदसमाधिरुत्पद्यते तदा 'मानमस्कारं नाराधयिष्यति, असमाधिमृत्युना वा मा म्रियताम्' इति कृत्वा चत्वारोऽपि भङ्गाः प्रयोक्तव्या भवेयुः । तत्र च प्रथमो भङ्ग उभयप्रकाशः, द्वितीयो भङ्ग आदौ प्रकाशवान् अन्ते तमस्वान्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org