________________
बृहत्कल्प-छेदसूत्रम् -२-१/४२
कुलस्थविरस्याप्रमाणीकरणेमूलम्, गणस्थविरस्याप्रमाणनेऽनवस्थाप्यम्, सङ्घस्थविरस्यातिक्रमणे पाराञ्चिकम् । एवं मणिप्रकाशादिष्वपि मन्तव्यम्, नवरं मणिप्रकाशे षङ्गुरुकात् प्रदीपप्रकाशे छेदाद् उद्दीप्ते भूलादारब्धव्यम् । अभीक्ष्णसेवायां तु सप्तभिवरैिः पाराञ्चिकम् । भावना तु प्रागेव कृतेति ॥ तृतीया भाव्यते
[भा. २८६७ ]
१७८
तइयादेसे भोत्तूण आगया नेव कस्सइ कर्हिति । तेसऽन्नतो व सोचा, खिसंतऽह भिक्खुणो ते उ ।।
वृ- 'तृतीयदेशे' तृतीयायां नावि तथैव भुक्तवा समागताः सन्तो नैव कस्यापि कथयन्ति । नवरं भिक्षवस्तेषां परस्परं संलापं श्रुत्वा, तैर्वाऽन्यस्य कस्यापि श्रावकादेः कथितं ततो वा श्रुत्वा भिक्षवस्तान् 'अथ' श्रवणानन्तरं 'खिसंति' खरण्टयन्तीत्यर्थः ।। खरण्टिताश्च यद्यतिक्रामन्ति तत इयं प्रायश्चित्तवृद्धि
[भा. २८६८ ] भिक्खुणी अतिक्कमंते, छल्लहुगा वसभे होंति छग्गुरुगा । गुरु-कुल- गण - संधाइक्क मे य छेदाइ जा चरिमं ॥
वृ- भिक्षूनतिक्रामति षड्लघुकाः, वृषभाणामतिक्रमे षड्गुरुकाः, गुरुणामतिक्र मे छेदः कुलस्यातिक्रमे मूलम्, गणस्यातिक्रमेऽनवस्थाप्यम्, सङ्घस्यातिक्रमे पाराञ्चिकम् । अथ चतुर्थी नावमुपदर्शयति
[भा. २८६९] भिक्खु वसभाऽऽयरिए, वयणं गच्छस्स कुल गणे संघे । गुरुगादऽ इक्कमंते, जासपद चउत्थ आदेसो ।
वृ- ज्योत्स्नाप्रकाशादिषु भुक्त्वा गुरुणामालोचिते भिक्षुभिनोदिता यद्यावृत्तास्ततश्चतुर्गुरुकाः । अर्थ भिक्षूणां वचनमतिक्रामन्ति ततोऽपि चतुर्गुरु, वृषभाणां वचनमतिक्रामतः षड्लघुकाः, आचार्यानतिक्रामतः षड्गुरुकाः, गच्छममन्यमानस्य च्छेदः, कुलमप्रभाणीकुर्वतो मूलमू, गणमप्रमाणयतोऽनवस्थाप्यम्, सङ्घ व्यतिक्रामतः 'स्वपदं' पाराश्चिकम् । अभीक्षणसेवायामपि प्रथमे द्वितीये च वारे चतुर्गुरुकम्, तृतीयादिष्वष्टमान्तेषु वारेषु षड्लघुकादि पाराञ्चिकान्तम् । एषः 'चतुर्थ आदेशः ' चतुर्थी नीः इत्यर्थः ॥ अथ पूर्वोक्तानेव प्रायश्चित्तवृद्धिहेतून् सन्दर्शयति
[भा. २८७० ] पेच्छह उ अनायारं, रत्तिं भुत्तुं न करसइ कहति । एवं एक्कक निवेयनेन वुड्डी उ पच्छित्ते ।।
वृ- 'पश्यताममीषामनाचारं यदेवं रात्रौ भुक्त्वा न कस्यापि कथयन्ति एवं भिक्षुभि खरण्टिता यदि नावर्त्तन्ते ततो भिक्षवो वृषभाणां कथयन्ति, वृषभा गुरूणाम्, गुरवोऽपि कुलस्येत्यादि । एवमेकैकस्य-वृषभादेर्निवेदनेन प्रायश्चित्तस्य वृद्धिर्भवति ॥
[ मा. २८७१] को दोसो को दोसो, त्ति भणते लग्गई बिइयठाणे । अहवा अभिक्खगहणे, अहवा वत्थुस्स अइयारो ||
वृ- चन्द्रोद्योतादिषको दोषः ? को दोषः ? इत्युत्तरप्रदानेन द्वितीयं प्रायश्चित्तस्थानं 'लगति' प्राप्नोति । अथवा 'अभीक्ष्णग्रहणे' पुनः पुनरासेवायाम्, अथवा 'वस्तुनः' आचार्योपाध्यायादिरूपस्य यः 'अतिचारः ' रात्रिभक्तलक्षणस्तस्मात् प्रायश्चित्तवृद्धिर्भवति । यत एवं प्रायश्चित्तजालम् अतो न कल्पते चतुर्विधमपि रात्रिभक्तम् । कारणसद्भावे पुनः कल्पते । तान्येव कारणानि दर्शयति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org